Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.41.1

नासौ वृथाऽग्निना दग्धो यथा तत्र श्रुतं मया ।
वैचित्रवीर्यो नृपतिर्न ते शोच्यो नराधिप ॥ १५.४१.१ ॥

正如我在那里所听闻的,那位毗质呫嚩利耶之子的国王并非徒然被火焚烧;你不应为他悲伤,人主啊。

15.41.2

वनं प्रविशतानेन वायुभक्षेण धीमता ।
अग्नयः कारयित्वेष्टिमुत्सृष्टा इति नः श्रुतम् ॥ १५.४१.२ ॥

我们听说,那位以风为食的智者进入森林时,举行祭祀之后便舍弃了圣火。

15.41.3

याजकास्तु ततस्तस्य तानग्नीन्निर्जने वने ।
समुत्सृज्य यथाकामं जग्मुर्भरतसत्तम ॥ १५.४१.३ ॥

随后,他的祭司们把那些火遗弃在荒僻的森林中,各自随意离去,婆罗多族中最优秀的人啊。

15.41.4

स विवृद्धस्तदा वह्निर्वने तस्मिन्नभूत्किल ।
तेन तद्वनमादीप्तमिति ते तापसाऽब्रुवन् ॥ १५.४१.४ ॥

那时,火在那片森林中越烧越旺,森林因此被点燃了,那些苦行者这样说。

15.41.5

स राजा जाह्नवीतीरे यथा ते कथितं मया ।
तेनाग्निना समायुक्तः स्वेनैव भरतर्षभ ॥ १५.४१.५ ॥

正如我对你所说,那位国王在恒河岸边与那火相合,与他自己的火相合,婆罗多族中的公牛啊。

15.41.6

एवमावेदयामासुर्मुनयस्ते ममानघ ।
ये ते भागीरथीतीरे मया दृष्टा युधिष्ठिर ॥ १५.४१.६ ॥

我在婆吉罗提河岸所见的那些仙人向我如此报告,无罪的坚战啊。

15.41.7

एवं स्वेनाग्निना राजा समायुक्तो महीपते ।
मा शोचिथास्त्वं नृपतिं गतः स परमां गतिम् ॥ १५.४१.७ ॥

如此,国王与自己的火相合。哦,大地之主,不要为国王悲伤;他已达到了至高的归宿。

15.41.8

गुरुशुश्रूषया चैव जननी ते जनाधिप ।
प्राप्ता सुमहतीं सिद्धिमिति मे नात्र संशयः ॥ १५.४१.८ ॥

哦,人民之主,你的母亲因侍奉长者而获得了至大的成就,对此我毫无疑问。

15.41.9

कर्तुमर्हसि राजेन्द्र तेषां त्वमुदकक्रियाम् ।
भ्रातृभिः सहितः सर्वैरेतदत्र विधीयताम् ॥ १५.४१.९ ॥

哦,诸王之中最杰出者,你应当为他们举行水祭仪式;让此事在此与你所有兄弟一同完成。

15.41.10

ततः स पृथिवीपालः पाण्डवानां धुरंधरः ।
निर्ययौ सहसोदर्यः सदारश्च नरर्षभः ॥ १५.४१.१० ॥

于是,那位大地的守护者、般度子孙中的重担承担者、人中之牛,与兄弟及妻子们一同出发了。

15.41.11

पौरजानपदाश्चैव राजभक्तिपुरस्कृताः ।
गङ्गां प्रजग्मुरभितो वाससैकेन संवृताः ॥ १५.४१.११ ॥

城市居民和乡村百姓也都以对国王的忠诚为先,各自裹着一块布,从四面八方走向恒河。

15.41.12

ततोऽवगाह्य सलिले सर्वे तु कुरुपुङ्गवाः ।
युयुत्सुमग्रतः कृत्वा ददुस्तोयं महात्मने ॥ १५.४१.१२ ॥

于是,所有的库鲁之牛在水中沐浴后,让裕裕苏走在前面,将水供奉给那位大德之人。

15.41.13

गान्धार्याश्च पृथायाश्च विधिवन्नामगोत्रतः ।
शाचं निवर्तयन्तस्ते तत्रोषुर्नगराद्बहिः ॥ १५.४१.१३ ॥

他们依规诵念甘陀利与普利塔的名号和族系,行净化之礼,便在城外住下。

15.41.14

प्रेषयामास स नरान्विधिज्ञानाप्तकारिणः ।
गङ्गाद्वारं कुरुश्रेष्ठो यत्र दग्धोऽभवन्नृपः। ॥ १५.४१.१४ ॥

这位俱卢中的至尊派遣熟悉仪轨、可靠的人前往恒河门,国王曾在那里火化。

15.41.15

तत्रैव तेषां तुल्यानि गङ्गाद्वारेऽन्वशात्तदा ।
कर्तव्यानीति पुरुषान्दत्तदेयान्महीपतिः ॥ १५.४१.१५ ॥

于是,在恒河门,这位大地之主下令为他们行同等之礼,说:“让有资格施舍的人来做。”

15.41.16

द्वादशेऽहनि तेभ्यः स कृतशौचो नराधिपः ।
ददौ श्राद्धानि विधिवद्दक्षइणावन्ति पाण्डवः ॥ १५.४१.१६ ॥

第十二日,这位般度王完成净身后,依规为他们行施设祭(śrāddha),并布施达叉那(dakṣiṇā)。

15.41.17

धृतराष्ट्रं समुद्दिश्य ददौ स पृथिवीपतिः ।
सुवर्णं रजतं गाश्च शय्याश्च सुमहाधनाः ॥ १५.४१.१७ ॥

这位大地之主为怙吾·般度(Dhṛtarāṣṭra)之故,布施了黄金、白银、牛群和极为贵重的卧具。

15.41.18

गान्धार्याश्चैव तेजस्वी पृथायाश्च पृथक्पृथक् ।
सङ्कीर्त्य नामनी राजा ददौ दानमनुत्तमम् ॥ १५.४१.१८ ॥

这位光辉的国王分别宣说甘陀利与普利塔之名,布施了至上的施舍。

15.41.19

यो यदिच्छति यावच्च तावत्स लभते द्विजः ।
शयनं भोजनं यानं मणिरत्नमथो धनम् ॥ १५.४१.१९ ॥

凡婆罗门所求者,所求多少,便得多少:卧具、饮食、车乘、珍宝宝石,以及财富。

15.41.20

यानमाच्छादनं भोगान्दासीश्च समलङ्कृताः ।
ददौ राजा समुद्दिश्य तयोर्मात्रोर्महीपतिः ॥ १५.४१.२० ॥

车乘、衣物、享用之物,以及盛装的婢女——国王为那两位母亲而施舍了这些。

15.41.21

ततः स पृथिवीपालो दत्त्वा श्राद्धान्यनेकशः ।
प्रविवेश पुनर्धीमान्नगरं वारणाह्वयम् ॥ १५.४१.२१ ॥

此后,那位大地的守护者多次行祭祀亡灵之礼(śrāddha)之后,这位智者又进入了名为婆罗奈伐多的城市。

15.41.22

ते चापि राजवचनात्पुरुषा ये गताऽभवन् ।
सङ्कल्प्य तेषां कुल्यानि पुनः प्रत्यागमंस्ततः ॥ १५.४१.२२ ॥

奉国王之命而去的那些人,也在确定了那些女子的族系之后,随即返回。

15.41.23

माल्यैर्गन्धैश्च विविधैरर्चयित्वा यथाविधि ।
कुल्यानि तेषां संयोज्य तदाचख्युर्महीपतेः ॥ १५.४१.२३ ॥

他们依礼以花环、香料及种种供物恭敬供养,并将她们的族系联系起来,然后向大地之主作了报告。

15.41.24

समाश्वास्य तु राजानं धर्मात्मानं युधिष्ठिरम् ।
नारदोप्यगमत्प्रीतः परमर्षिर्यथोप्सितम् ॥ १५.४१.२४ ॥

安慰了心地正直的国王坚战之后,至高的仙人那罗陀也满心欢喜,随心所欲地离去了。

15.41.25

एवं वर्षाण्यतीतानि धृतराष्ट्रस्य धीमतः ।
वनवासे तथा त्रीणि नगरे दशपञ्च च ॥ १५.४१.२५ ॥

如此,智慧的持国王在林中度过了三年,在城中度过了十五年。

15.41.26

हतपुत्रस्य सङ्ग्रामे दानानि ददतः सदा ।
ज्ञातिसम्बन्धिमित्राणां भ्रातॄणां स्वजनस्य च ॥ १५.४१.२६ ॥

尽管他的儿子们在战斗中被杀,他仍总是向族人、亲属、朋友、兄弟及自己的人施舍。

15.41.27

युधिष्ठिरस्तु नृपतिर्नातिप्रीतमनास्तदा ।
धारयामास तद्राज्यं निहतज्ञातिबान्धवः ॥ १५.४१.२७ ॥

然而,国王坚战当时心中并不十分欢喜,失去了被杀的族人与亲属,他仍执掌着那王国。