Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.5

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.5.1

युधिष्ठिर महाबाहो कुरुनन्दनः ।
धृतराष्ट्रो महातेजास्तत्कुरुष्वाविचारयन् ॥ १५.५.१ ॥

大臂的俱卢之喜坚战啊!请不加思索地照做,正如光辉伟大的持国所言。

15.5.2

अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः ।
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम ॥ १५.५.२ ॥

这位年迈的国王,尤其是丧子之人,恐怕无法承受如此漫长的苦难——这是我的看法。

15.5.3

गान्धारी च महाभागा प्राज्ञा करुणवेदिनी ।
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम् ॥ १५.५.३ ॥

大福的、智慧而慈悲的甘陀利,大王啊,以坚忍的意志承受着丧子之痛。

15.5.4

अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः ।
अनुज्ञां लभतां राजा मां वृथेह मरिष्यति ॥ १५.५.४ ॥

我也对你说同样的话:请听从我的话吧。让国王得到我的允许,否则他将在此徒然死去。

15.5.5

स्वस्थो भवत्वयं धीमान्वनेषु मधुगन्धिषु ।
राजर्षीणां पुराणानामनुयातु गतिं नृपः। ॥ १५.५.५ ॥

愿这位智慧的国王在散发蜜香的森林中安然自在,追随古代王仙的道路。

15.5.6

इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा ।
प्रत्युवाच महातेजा धर्मराजो महामुनिम् ॥ १५.५.६ ॥

被行事奇妙的毗耶娑如此告知后,光辉伟大的法王便回答了这位大仙。

15.5.7

भगवानेव नो मान्यो भगवानेव नो गुरुः ।
भगवानस्य राज्यस्य कुलस्य च परायणम् ॥ १५.५.७ ॥

唯有世尊是我们所尊敬的;唯有世尊是我们的老师。世尊是这王国与这家族的依靠。

15.5.8

अहं तु पुत्रो भगवन्पिता राजा गुरुश्च मे ।
निदेशवती च पितुः पुत्रो भवति धर्मतः ॥ १५.५.८ ॥

至于我,我是儿子,尊者啊;国王是我的父亲和老师。依照法,儿子应服从父亲的命令。

15.5.9

इत्युक्तः स तु तं प्राह व्यासो वेदविदांवरः ।
युधिष्ठिरं महातेजाः पुनरेव महाकविः ॥ १५.५.९ ॥

如此被劝说后,吠陀通达者中最优秀、具大光辉的大诗人毗耶娑,又对坚战说道。

15.5.10

एवमेतन्महाभाग यथा वदसिं भारत ।
राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः ॥ १५.५.१० ॥

诚如你所说,大福德者,婆罗多啊。此王已到老年,居于至高的权威之位。

15.5.11

सोयं मयाऽभ्यनुज्ञातस्त्वथा च पृथिवीपतिः ।
करोतु स्वमभिप्रायं मा स्म विघ्नकरो भव ॥ १५.५.११ ॥

此地之主已得我与你的许可。让他完成自己的心愿,你不要成为阻碍。

15.5.12

एष एव परो धर्मो राजर्षीणां युधिष्ठिर ।
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम् ॥ १५.५.१२ ॥

坚战啊,这就是王仙的至高之法:或战死沙场,或在森林中,依照规定而死。

15.5.13

पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता ।
शिष्यभूतेन राजाऽयं गुरुवत्पर्युपासितः ॥ १५.५.१३ ॥

诸王之主啊,你的父亲般度,大地之主,曾作为弟子,像对待师长一样侍奉这位国王。

15.5.14

क्रतुभिर्दक्षिणावद्भी रत्नपर्वतशोभितैः ।
महद्भिरिष्टं गौर्भुक्ता प्रजाश्च परिपालिताः ॥ १५.५.१४ ॥

以向祭司布施的伟大祭祀,以宝石之山为装饰,他享受大地并保护臣民。

15.5.15

पुत्रसंस्यं च विपुलं राज्यं विप्रोषिते त्वयि ।
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु ॥ १५.५.१५ ॥

你流放在外时,十三年间他享有本属于诸子的广大王国,并施予各种财富。

15.5.16

त्वया चायं नरव्याघ्र गुरुशुश्रूषयाऽनघ ।
आराधितः स भृत्येन गान्धारी च यशस्विनी ॥ १५.५.१६ ॥

无罪的人中之虎啊,你以侍奉师长使他欢喜;仆从使他和荣耀的甘陀利也都欢喜。

15.5.17

अनुजानीहि पितरं समयोऽस्म तपोविधौ ।
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर ॥ १५.५.१७ ॥

请求你父亲的允许吧,修苦行的时候到了。般遮啊,他心中连最细微的怒气也没有。

15.5.18

एतावदुक्त्वा वचनमनुमान्य च पार्थिवम् ।
तथाऽस्त्विति च तेनोक्तः कौतेयेन ययौ वनम् ॥ १५.५.१८ ॥

说完这些话,辞别国王,在贡蒂之子说“就这样吧”之后,他前往森林。

15.5.19

गते भगवति व्यासे राजा पाण्डुसुतस्तदा ।
प्रोवाच पितरं वृद्धं मन्दंमन्दमिवानतः ॥ १५.५.१९ ॥

尊贵的毗耶娑离去后,般度之子国王俯身,轻声对年迈的父亲说道。

15.5.20

यदाह भगवान्व्यासो यच्चापि भवतो मतम् ।
यथाऽऽह च महेष्वासः कृपो विदुर एव च ॥ १५.५.२० ॥

尊贵的毗耶娑所说,也是您的看法,而大弓箭手克里巴与毗杜罗所说,亦是如此。

15.5.21

युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा ।
सर्व एव हि मान्या मे कुलस्य हि हितैषिणः ॥ १५.५.२१ ॥

还有尤尤特苏与桑闪耶——我会欣然照办。凡是希望家族安好之人,都受我尊重。

15.5.22

इदं तु याचे नृपते त्वामहं शिरसा नतः ।
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति ॥ १५.५.२२ ॥

但是,国王啊,我低首恳求您这件事:请先用膳,然后再前往修行所。