摩诃婆罗多 · 章 15.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.8.1
सन्धिविग्रहमप्यत्र पश्येथा राजसत्तम ।
द्वियोनिं विविधोपायं बहुकल्पं युधिष्ठिर ॥ १५.८.१ ॥
最好的君王啊,坚战,此处你应当考虑和与战,它们有两个根源、多种手段和许多选择。
15.8.2
कौरव्य पर्युपासीथाः स्थित्वा द्वैविध्यमात्मनः ।
तुष्टपुष्टजनः शत्रुरर्थवानिति च स्मरेत् ॥ १५.८.२ ॥
俱卢之裔啊,你应保持两可的立场等待,并记住敌人拥有满足而丰足的百姓,且富有。
15.8.3
पर्युपासनकाले तु विपरीतं विधीयते ।
आमर्दकाले राजेन्द्र व्यवसायस्ततोऽपरः ॥ १५.८.३ ॥
王中之主啊,在等待之时规定的是相反的做法;在进攻之时,其后则采取另一种策略。
15.8.4
व्यसनं भेदनं चैव शत्रूणां कारयेत्ततः ।
कर्षणं भीषणं चैव युद्धे चैव बहुक्षयम् ॥ १५.८.४ ॥
然后应使敌人陷入灾难与分裂,造成可怕的骚扰,并在战斗中造成大量杀伤。
15.8.5
प्रयास्यमानो नृपतिस्त्रिविधं परिचिन्तयेत् ।
आत्मनश्चैव शत्रोश्च शक्तिं शास्त्रविशारदः ॥ १५.८.५ ॥
将要出征的君王应当从三方面仔细考虑:自己与敌人的力量;精通典籍的君王应当如此。
15.8.6
उत्साहप्रभुशक्तिभ्यां मन्त्रशक्त्या च भारत ।
उपपन्नो नृपो यायाद्विपरीतं च वर्जयेत् ॥ १५.८.६ ॥
婆罗多之裔啊,具备勇气、主权之力与谋略之力的君王应当出征,并避免相反的做法。
15.8.7
आददीत बलं राजा मौलं मित्रबलं तथा ।
अटवीबलं भृतं चैव तता श्रेणीबलं प्रभो ॥ १५.८.७ ॥
君王应当取用世袭之兵、盟友之兵,以及林中之兵、雇佣之兵,还有,主公啊,行会之兵的力量。
15.8.8
मित्रामित्रबलं राजन्न्यायाद्वृद्ध्युदये धृतः ।
तत्र मित्रबलं राजन्मौलं चैव विशिष्यते।
श्रेणीबलं भृतं चैव तुल्ये एवेति मे मतिः ॥ १५.८.८ ॥
王啊,在兴盛崛起之时,朋友与敌人的力量应依正理衡量。王啊,其中盟友之兵与世袭之兵尤为突出,而行会之兵与雇佣之兵同等——这是我的看法。
15.8.9
तथाऽऽचारबलं चैव परस्परसमं नृप ।
विज्ञेयं बलकालेषु राज्ञा काल उपस्थिते ॥ १५.८.९ ॥
同样,行为之力彼此相等,王啊。在动用兵力之时,当时机来临,君王应当了解此理。
15.8.10
आपदश्चापि बोद्धव्या बहुरूपा नराधिप ।
भवन्ति राज्ञा कौरव्य यास्ताः पृथगतः शृणु ॥ १५.८.१० ॥
人主啊,灾难也应知其形态繁多。库鲁之裔啊,请分别听那些降临于君王的灾难。
15.8.11
विकल्पा बहुधा राजन्नापदां पाण्डुनन्दन ।
सामादिभिरुपन्यस्य गमयेत्तान्नृपः सदा ॥ १५.८.११ ॥
王啊,应对灾难的方法有很多,般度之子啊。君王应当运用怀柔等方法,始终将其化解。
15.8.12
यात्रां गच्छेद्बलैर्युक्तो राजा षड्भिः परंतप ।
युक्तश्च देशकालाभ्यां बलैरात्मगुणैस्तथा ॥ १५.८.१२ ॥
克敌之王啊,君王应当具备六种力量而出征;并且顺应地点与时机,兼备兵力与自身的德行。
15.8.13
हृष्टपुष्टबलो गच्छेद्राजा वृद्ध्युदये रतः ।
अकृशश्चाप्यथो यायादनृतावपि पाण्डव ॥ १५.८.१३ ॥
般度之子啊,欣喜、健壮而有力的君王,专心于兴盛的上升,应当出征;不衰弱的话,即使不是时令也可以出发。
15.8.14
तूणाश्मानं वाजिरथप्रवाहां ।
ध्वजद्रुमैः संवृतकूलरोधसम्।
पदातिनागैर्बहुकर्दमां नदीं ।
सपत्नानाशे नृपतिः प्रयोजयेत् ॥ १५.८.१४ ॥
为了战胜敌人的希望,君王应当利用那条河:有船只和石块,马与车如洪流,旗帜如树林,河岸被它们覆盖,充满步兵与象群,泥泞很深。
15.8.15
अथोपपत्त्या शकटं पद्मवज्रं च भारत ।
उशना वेद यच्छास्त्रं तत्रैतद्विहितं विभो ॥ १५.८.१५ ॥
婆罗多的后裔啊,依据道理,还有车阵与莲花金刚阵;这已在乌尚那斯所知的论书中规定,啊,大能者。
15.8.16
चारयित्वा परबलं कृत्वा स्वबलदर्शनम् ।
स्वभूमौ योजयेद्युद्धं परभूमौ तथैव च ॥ १५.८.१६ ॥
派遣间谍侦察敌军,并展示自己的军力之后,君王应在自己的土地上作战,在敌人的土地上也同样如此。
15.8.17
बलं प्रसादयेद्राजा निक्षिपेद्बलनो नरान् ।
ज्ञात्वा स्वविषयं तत्र सामादिभिरुपक्रमेत् ॥ १५.८.१७ ॥
君王应当使军队归心,并在那里安置强壮之人;了解自己的封土后,应从那里以怀柔等手段开始。
15.8.18
सर्वथैव महाराज शरीरं धारयेदिह ।
प्रेत्य चेह च कर्तव्यमात्मनिःश्रेयसं परम् ॥ १५.८.१८ ॥
伟大的君王啊,无论如何,此世应当保养身体;死后与此世,都应当成就自我的至善。
15.8.19
एवं कुर्वञ्शुभा वाचो लोकेऽस्मिञ्शृणु ते नृप ।
प्रेत्य स्वर्गमवाप्नोति प्रजा धर्मेणि पालयन् ॥ १५.८.१९ ॥
如此行事,哦国王,请听此世之言:依法护佑臣民者,死后得升天界。
15.8.20
एवं त्वया कुरुश्रेष्ठ वर्तितव्यं प्रजासु वै ।
उभयोर्लोकयोस्तात प्राप्तये नित्यमेव हि ॥ १५.८.२० ॥
如此,库鲁之最,你应当在臣民之中行事,我的孩子;为得两世,此道永远如此。
15.8.21
भीष्मेण सर्वमुक्तोसि कृष्णेन विदुरेण च ।
मयाऽप्यवश्यं वक्तव्यं प्रीत्या ते नृपसत्तम ॥ १५.८.२१ ॥
毗湿摩、黑天与维杜罗已经对你说尽一切;然而,王者之中最优秀者,出于爱,我也必须对你说几句。
15.8.22
एतत्सर्वं यथान्यायं कुर्वीथा भूरिदक्षिण ।
प्रियस्तथा प्रजानां त्वं स्वर्गे सुखमवाप्स्यसि ॥ १५.८.२२ ॥
哦,施予丰厚的人,请依正理行此一切;如此你将为臣民所爱,并在天界获得安乐。
15.8.23
अश्वमेधसहस्रेण यो यजेत्पृथिवीपतिः ।
पालयेद्वाऽपि धर्मेणि प्रजास्तुल्यं फलं लभेत् ॥ १५.८.२३ ॥
统治大地者,若行千次马祭,或依法护佑臣民,所得之果相等。