Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 17.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

17.3.1

ततः सन्नादयञ्शक्रो दिवं भूमिं च सर्वशः ।
रथेनोपययौ पार्थमारोहेत्यब्रवीच्च तम् ॥ १७.३.१ ॥

そのときシャクラは天と地をあらゆる方向に響かせ、戦車でパールタのもとへ来て言った。「乗れ。」

17.3.2

स्वभ्रातॄन्पतितान्दृष्ट्वा धर्मराजो युधिष्ठिरः ।
अब्रवीच्छोकसंतप्तः सहस्राक्षमिदं वचः ॥ १७.३.२ ॥

倒れた兄弟たちを見て、悲嘆に打ちひしがれた法王ユディシュティラは、千眼の神にこう言った。

17.3.3

भ्रातरः पतिता मेऽत्र गच्छेयुस्ते मया सह ।
न विना भ्रातृभिः स्वर्गमिच्छे गन्तुं सुरेश्वर ॥ १७.३.३ ॥

ここで倒れた私の兄弟たちが私と共に行けますように。神々の主よ、兄弟なしには天へ行きたくありません。

17.3.4

सुकुमारी सुखार्हा च राजपुत्री पुरंदर ।
साऽस्माभिः सह गच्छेत तद्भवाननुमन्यताम् ॥ १७.३.४ ॥

プランダラよ、か弱く幸福にふさわしい王女が私たちと共に行くように。あなたがそれを認めてくださいますように。

17.3.5

भ्रातॄन्द्रक्ष्यसि स्वर्गे त्वमग्रतस्त्रिदिवं गतान् ।
कृष्णया सहितान्सर्वान्मा शुचो भरतर्षभ ॥ १७.३.५ ॥

バラタ族の牡牛よ、先に天へ行った兄弟たち、クリシュナーと共にいる全員をお前は見るだろう。悲しむな。

17.3.6

निक्षिप्य मानुषं देहं गतास्ते भरतर्षभ ।
अनेन त्वं शरीरेण स्वर्गं गन्ता न संशयः ॥ १७.३.६ ॥

バラタ族の牡牛よ、彼らは人の身を捨てて去った。お前はこの身体のままで天に行くだろう。疑いはない。

17.3.7

अयं श्वा भूतभव्येश भक्तो मां नित्यमेव ह ।
स गच्छेत मया सार्धमानृशंस्या हि मे मतिः ॥ १७.३.७ ॥

過去と未来の主よ、この犬はいつも私に忠実でした。私とともに行かせてください。私の心は慈悲に向いているのですから。

17.3.8

अमर्त्यत्वं मत्समत्वं च राज-
ञ्श्रियं कृत्स्नां महतीं चैव सिद्धिम्।
संप्राप्तोद्य स्वर्गसुखानि च त्वं ।
त्यज श्वानं नात्र नृशंसमस्ति ॥ १७.३.८ ॥

王よ、今日あなたは不死、私と等しい地位、完全な大いなる栄光と成就、そして天の喜びを得ました。犬を捨てなさい。ここには残酷さはありません。

17.3.9

अनार्यमार्येणि सहस्रनेत्र ।
शक्यं कर्तुं दुष्करमेतदार्य।
मा मे श्रिया सङ्गमनं तयाऽस्तु ।
यस्याः कृते भक्तजनं त्यजेयम् ॥ १७.३.९ ॥

千眼の方よ、高貴な者にとって卑しい行いをするのは難しいことです、高貴な方よ。信者を捨ててまで得る栄光とは、私は決して結ばれませんように。

17.3.10

स्वर्गे लोके श्ववतां नास्ति धिष्ण्य-
मिष्टापूर्तं क्रोधवशा हरन्ति।
ततो विचार्यि क्रियतां धर्मराज ।
त्यज श्वानं नात्र नृशंसमस्ति। ॥ १७.३.१० ॥

天界には犬を飼う者の居場所はありません。怒りに支配された者は祭祀と布施の果報を奪われます。ゆえに、法の王よ、よく考えて行いなさい。犬を捨てなさい。ここには残酷さはありません。

17.3.11

भक्तत्यागं प्राहुरत्यन्तपापं ।
तुल्यं लोके ब्रह्मवध्याकृतेन।
तस्मान्नाहं जातु कथञ्चनाद्य ।
त्यक्ष्याम्येनं स्वसुखार्थी महेन्द्रः ॥ १७.३.११ ॥

信者を見捨てることは、世において婆羅門殺しに等しい極めて重い罪と言われています。ゆえに私は今日、いかなる理由があっても彼を捨てません。たとえ自らの幸福を求める大インドラがそれを望んだとしても。

17.3.12

भीतं भक्तं नान्यदस्तीति चार्तं ।
प्राप्तं क्षीणं रक्षणे प्राणलिप्सुम्।
प्राणत्यागादप्यहं नैव मोक्तुं ।
यतेयं वै नित्यमेतद्व्रतं मे ॥ १७.३.१२ ॥

命を捨てても、恐れ、帰依し、他に頼るものがなく、苦しみ、疲れ果てて庇護を求めて来て、命を望む者を、私は決して見捨てません。これが私の常の誓いであり、それに常に努めます。

17.3.13

शुना दृष्टं क्रोधवशा हरन्ति ।
यद्दत्तमिष्टं विवृतमथो हुतं च।
तस्माच्छुनस्त्यागमिमं कुरुष्व ।
शुनस्त्यागात्प्राप्स्यसे देवलोकम् ॥ १७.३.१३ ॥

犬が見たものを、怒りに支配された者たちが奪い去る——施し、供犠、公に捧げられたもの、そして火に供えられたものも。ゆえにこの犬を捨てよ。犬を捨てることで、お前は神々の世界を得るであろう。

17.3.14

त्यक्त्वा भ्रातॄन्दयितां चापि कृष्णां ।
प्राप्तो लोकः कर्मणा स्वेन वीर।
श्वानं चैनं न त्यजसे कथं नु ।
त्यागं कृत्स्नं चास्थितो मुह्यसेऽद्य ॥ १७.३.१४ ॥

兄弟たちを、そして愛する妻クリシュナーさえも捨てて、英雄よ、お前は自らの行為によって世界を得た。ならばなぜこの犬を捨てないのか。完全な放棄を取りながら、今日なぜ迷うのか。

17.3.15

न विद्यते संधिरथापि विग्रहो ।
मृतैर्मर्त्यैरिति लोकेषु निष्ठा।
न ते मया जीवयितुं हि शक्या-
स्ततस्त्यागस्तेषु कृतो न जीवताम् ॥ १७.३.१५ ॥

世界における確立した見解はこうである——死者や死すべき者とは、和睦も争いもない。私は彼らをあなたのために生き返らせることはできない。ゆえに捨てられたのは彼らであり、生きている者ではない。

17.3.16

प्रतिप्रदानं शरणागतस्य ।
स्त्रिया वधो ब्राह्मणस्वापहारः।
मित्रद्रोहस्तानि चत्वारि शक्र ।
भक्तत्यागश्चैव समो मतो मे ॥ १७.३.१६ ॥

庇護を求めた者を引き渡すこと、女を殺すこと、バラモンの財を奪うこと、友を裏切ること、頼る者を見捨てること——おおシャクラよ、これら四つは私の考えでは等しい。

17.3.17

तद्धर्मराजस्य वचो निशम्य ।
धर्मस्वरूपी भगवानुवाच।
युधिष्ठिरं प्रीतियुक्तो नरेन्द्रं ।
श्लक्ष्णैर्वाक्यैः संस्तवसंप्रयुक्तैः ॥ १७.३.१७ ॥

法王のその言葉を聞いて、法そのものの姿をした世尊は喜び、王ユディシュティラに優しく賛辞を込めた言葉で語りかけた。

17.3.18

अभिजातोसि राजेन्द्र पितुर्वृत्तेन मेधया ।
अनुक्रोशेनि चानेन सर्वभूतेषु भारत ॥ १७.३.१८ ॥

王中の王よ、あなたは父の行いと知恵、そして一切の生き物への慈悲によって高貴な家に生まれた者です、おおバーラタよ。

17.3.19

पुरा द्वैतवने चासि मया पुत्र परीक्षितः ।
पानीयार्थे पराक्रान्ता यत्र ते भ्रातरो हताः ॥ १७.३.१९ ॥

息子よ、以前ドヴァイタの森で私はおまえを試した。水を求めて進んだおまえの兄弟たちが殺された時のことだ。

17.3.20

भीमार्जुनौ परित्यज्य यत्र त्वं भ्रातरावुभौ ।
मात्रोः साम्यमभीप्सन्वै नकुलं जीवमिच्छसि ॥ १७.३.२० ॥

そこでおまえは、二人の母の間の平等を望んで、兄弟であるビーマとアルジュナを捨て、ナクラの命を望んだ。

17.3.21

अयं श्वा भक्त इत्येवं त्यक्तो देवरथस्त्वया ।
तस्मात्स्वर्गे न ते तुल्यः कश्चिदस्ति नराधिपः ॥ १७.३.२१ ॥

「この犬は私の帰依者だ」と言って、おまえは神の車を捨てた。ゆえに人の主よ、天界におまえに並ぶ者はいない。

17.3.22

अतस्तवाक्षया लोकाः स्वशरीरेण भारत ।
प्राप्तोसि भरतश्रेष्ठ दिव्यां गतिमनुत्तमाम् ॥ १७.३.२२ ॥

ゆえにバーラタよ、汝は自らの身体のままで不滅の世界に至った。バラタ族の最上の者よ、汝は神聖にして無上の境地を得たのだ。

17.3.23

ततो धर्मश्च शक्रश्च मरुतश्चाश्विनावपि ।
देवा देवर्षयश्चैव रथमारोप्य पाण्डवम् ॥ १७.३.२३ ॥

その後、ダルマ、シャクラ、マルットたち、アシュヴィンの双神、神々と神仙たちが、パーンダヴァを戦車に乗せた。

17.3.24

प्रययुः स्वैर्विमानैस्ते सिद्धाः कामविहारिणः ।
सर्वे विरजसः पुण्याः पुण्यवाग्बुद्धिकर्मिणः ॥ १७.३.२४ ॥

意のままに遊行するあのシッダたちは、各自の天空の車に乗って去った。彼らは皆、清浄で功徳に満ち、言葉も心も行いも功徳あるものであった。

17.3.25

स तं रथं समास्थाय राजा कुरुकुलोद्वहः ।
ऊर्ध्वमाचक्रमे शीघ्रं तेजसाऽऽवृत्यरोदसी ॥ १७.३.२५ ॥

クルの家系を担うその王は、その戦車に乗って、光輝で天と地を覆いながら速やかに上昇した。

17.3.26

ततो देवनिकाय्यस्थो नारदः सर्वलोकवित् ।
उवाचोच्चैस्तदा वाक्यं बृहद्वादी बृहत्तपाः ॥ १७.३.२६ ॥

その時、神々の集会に立つ、一切の世界を知る者、大弁者であり大苦行者であるナーラダは、大声でこの言葉を述べた。

17.3.27

येऽपि राजर्षयः पूर्वे ते चापि समुपस्थिताः ।
कीति प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥ १७.३.२७ ॥

古の王仙たちもここに臨んでいる。クルの王は彼らの名声を覆い、その上に立っている。

17.3.28

लोकानावृत्य यशसा तेजसा वृत्तसंपदा ।
स्वशरीरेण सम्प्राप्तं नान्यं शुश्रम पाण्डवात् ॥ १७.३.२८ ॥

名声と威光と善行の富によって諸世界を覆い、自らの身体のままに至った者として、パーンダヴァ以外の人を我々は聞いたことがない。

17.3.29

तेजांसि यानि दृष्टानि भूमिष्ठेन त्वया विभो ।
वेश्मानि भुवि देवानां पश्यामूनि सहस्रशः ॥ १७.३.२९ ॥

力ある者よ、大地に立っていた時に見た神々の輝く住処を、今や千を単位として見よ。

17.3.30

नारदस्य वचः श्रुत्वा राजा वचनमब्रवीत् ।
भ्रातॄनपश्यन्धर्मात्मा स्वपक्षांश्चैव पार्थिवान् ॥ १७.३.३० ॥

ナーラダの言葉を聞き、法の魂の王は、兄弟たちや自陣の王たちが見えず、この言葉を述べた。

17.3.31

शुभं वा यदि वा पापं भ्रातॄणां स्थानमद्य मे ।
तदेव प्राप्तुमिच्छामि लोकान्यान्न कामये ॥ १७.३.३१ ॥

兄弟たちの行き先が善であれ悪であれ、今日、私も同じであれ。私はそれを得たいのであり、望まない世界ではない。

17.3.32

राज्ञस्तु वचनं श्रुत्वा देवराजः पुरंदरः ।
आनृशंस्यसमायुक्तं प्रत्युवाच युधिष्ठिरम् ॥ १७.३.३२ ॥

王の言葉を聞いて、神々の王プランダラ(インドラ)は、慈悲に満ちたユディシュティラに答えた。

17.3.33

स्थानेऽस्मिन्वस राजेन्द्र कर्मभिर्निर्जिते शुभैः ।
किं त्वं मानुष्यकं स्नेहमद्यापि परिकर्षसि ॥ १७.३.३३ ॥

王たちの主よ、善行によって得られたこの場所に住め。なぜ今になってもなお人間的な情愛を引きずっているのか。

17.3.34

सिद्धिं प्राप्तोसि परमां यता नान्यः पुमान्क्वचित् ।
नैव ते भ्रातरः स्थानं सम्प्राप्ताः कुरुनन्दन ॥ १७.३.३४ ॥

あなたは至高の成就を得た。努力によって他のいかなる人もこれに至ったことはない。クル族の喜びよ、あなたの兄弟たちはまだ自分の場所に至っていない。

17.3.35

अद्यापि मानुषो भावः स्पृशते त्वां नराधिप ।
स्वर्गोऽयं पश्य देवर्षीन्सिद्धांश्च त्रिदिवालयान् ॥ १७.३.३५ ॥

人の王よ、人間としての情がまだあなたに触れている。これが天界だ。神仙、成就者、三天界の住人たちを見よ。

17.3.36

युधिष्ठिरस्तु देवेन्द्रमेवंवादिनमीश्वरम् ।
पुनरेवाब्रवीद्धीमानिदं वचनमर्थवत् ॥ १७.३.३६ ॥

しかし賢明なユディシュティラは、このように語った主インドラに、再びこの意味深い言葉を告げた。

17.3.37

तैर्विना नोत्सहे वस्तुमिह दैत्यनिबर्हण ।
गन्तुमिच्छामि तत्राहं यत्र मे भ्रातरो गताः ॥ १७.३.३७ ॥

ダイティヤを滅ぼす者よ、彼らなしにここに留まる気はない。私の兄弟たちが行った所へ私は行きたい。

17.3.38

यत्र सा बृहती श्यामा बुद्धिसत्त्वगुणान्विता ।
द्रौपदी योषितांश्रेष्ठा यत्र चैव सुता मम ॥ १७.३.३८ ॥

その気高く色黒の、知性と徳を備えた、女性の中で最も優れたドラウパディーがいるところ、そして私の息子たちもいるところ。