Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 18.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

18.3.1

स्थिते मुहूर्तं पार्थे तु धर्मराजे युधिष्ठिष्ठिरे ।
आजग्मुस्तत्र कौरव्यं देवाः शक्रपुरोगमाः ॥ १८.३.१ ॥

当法王、普利塔之子坚战在此站立片刻时,以帝释为首的诸神来到了这位俱卢后裔面前。

18.3.2

स च विग्रहवान्धर्मो राजानं संपरीक्ष्य तम् ।
तत्राजगाम यत्रासौ कुरुराजो युधिष्ठिरः ॥ १८.३.२ ॥

具象化的法神仔细考验了那位君王之后,便来到了俱卢王坚战所在之处。

18.3.3

तेषु भासुरदेहेषु पुण्याभिजनकर्मसु ।
समागतेषु देवेषु व्यगमत्तत्तमो नृप ॥ १८.३.३ ॥

当那些身体光辉、出身与行为皆善的天神聚集之时,那片黑暗消散了,国王啊。

18.3.4

नादृश्यन्त च तास्तत्र यातनाः पापकर्मणाम् ।
नदी वैतरणी चैव कूटशाल्मलिना सह ॥ १८.३.४ ॥

那里看不见恶人所受的折磨,也看不见维它兰尼河与假棉树。

18.3.5

लोहकुंभ्यः शिलाश्चैव नादृश्यन्त भयानकाः ।
विकृतानि शरीराणि यानि तत्र समन्ततः ॥ १८.३.५ ॥

也看不见铁锅与可怖的岩石,也看不见那里四处散落的残缺身体。

18.3.6

ददर्श राजा कौरव्यस्तान्सर्वान्सुमहाप्रभान् ॥ १८.३.६ ॥

这位俱卢王看见了他们所有人,个个光辉灿烂。

18.3.7

ततो वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः ।
ववौ देवसमीपस्थः शीतलोऽतीव भारत ॥ १८.३.७ ॥

于是,一股令人感到舒适、带着圣洁香气、纯净而极其清凉的风从诸神近旁吹来,婆罗多啊。

18.3.8

मरुतः सह शक्रेण वसवश्चाश्विनौ सह ।
साध्या रुद्रास्तथाऽऽदित्या ये चान्येऽपिदिवौकसः। ॥ १८.३.८ ॥

与因陀罗同在的摩禄多、婆薮、双阿输瓦、萨陀耶、楼陀罗、阿底提耶,以及其他天上的居民。

18.3.9

सर्वे तत्र समाजग्मुः सिद्धाश्च परमर्षयः ।
यत्र राजा महातेजा धर्मपुत्रः स्थितोऽभवत् ॥ १८.३.९ ॥

所有成就者和最高的仙人都聚集到那里,在那位光辉伟大的法之子国王站立之处。

18.3.10

ततः शक्रः सुरपतिः श्रिया परमया युतः ।
युधिष्ठिरमुवाचेदं सान्त्वपूर्वमिदं वचः ॥ १८.३.१० ॥

于是,具足无上光辉的诸神之主因陀罗,以安慰的言辞对坚战说了这番话。

18.3.11

युधिष्ठिर महाबाहो प्रीता देवगणास्त्वया ।
एह्येहि पुरुषव्याघ्र कृतमेतावता विभो ॥ १८.३.११ ॥

大臂的坚战啊,诸神因你而欢喜。来吧,来吧,人中之虎,主啊,这已经足够了。

18.3.12

सिद्धिः प्राप्ता महाबाहो लोकाश्चाप्यक्षयास्तव ।
भ्रातॄणां सुहृदां चैव गतिर्नित्या सुपूजिता ॥ १८.३.१२ ॥

大臂者啊,你已获得成就,你的诸世界也是不灭的。你的兄弟与朋友的归宿也是永恒而受人尊崇的。

18.3.13

न च मन्युस्त्वया कार्यः शृणु चेदं वचो मम ।
अवश्यं नरकस्तात द्रष्टव्यः सर्वराजभिः ॥ १८.३.१३ ॥

你不应当愤怒。请听我这句话:孩子,所有的国王都必然要见到地狱。

18.3.14

शुभानामनशुभानां च द्वौ राशी पुरुषर्षभ ।
यः पूर्वं सुकृतं भुङ्क्ते पश्चान्निरयमेति सः ॥ १८.३.१४ ॥

人中之牛啊,善与不善有两堆。先享受善业果报的人,之后便堕入地狱。

18.3.15

पूर्वं नरकभाग्यस्तु पश्चात्स्वर्गमुपैति सः ।
भूयिष्ठं पापकर्मा यः स पूर्वं स्वर्गमश्नुते ॥ १८.३.१५ ॥

先有地狱之分的人,之后得升天堂。大多行恶业的人,先得升天。

18.3.16

भूयिष्ठशुभकर्मा त्वमल्पजिह्मतयाऽच्युत ।
तेन त्वमेवं गमितो मया श्रेयोर्थिना नृप ॥ १८.३.१६ ॥

不坠者啊,你的善业大多殊胜。国王啊,因为一点点欺诈,我出于为你好的心愿,这样让你前去。

18.3.17

व्याजेन हि त्वया द्रोण उपचीर्णः सुतं प्रति ।
व्याजेनैव ततो राजन्दर्शितो नरकस्तव ॥ १८.३.१७ ॥

国王啊,你为了儿子,用诡计欺骗了德罗纳。因此,国王啊,正是由于诡计,地狱才向你显示。

18.3.18

यथैव त्वं तथा भीमस्तथा पार्थो यमौ तथा ।
द्रौपदी च तथा कृष्णा व्याजेन नरकं गताः।
आगच्छ नरशार्दूल मुक्तास्ते चैव कल्मषात् ॥ १८.३.१८ ॥

正如你一样,还有比摩、普利塔之子、双生子,以及德劳波蒂和克利希那,也都因诡计而堕入地狱。来吧,人中之虎;他们也已从罪中解脱了。

18.3.19

स्वपक्ष्याश्चैव ये तुभ्यं पार्थिवा निहता रणे ।
सर्वे स्वर्गमनुप्राप्तास्तान्पश्य भरतर्षभ ॥ १८.३.१९ ॥

你方在战场上被杀的诸王,都已升入天界。婆罗多之牛啊,请看他们。

18.3.20

कर्णश्चैव महेष्वासः सर्वशस्त्रभृतांवरः ।
स गतः परमां सिद्धिं यदर्थं परितप्यसे ॥ १८.३.२० ॥

大弓箭手迦尔纳,诸持兵器者中的最优者,也已达到你为之悲叹的至高成就。

18.3.21

तं पश्य पुरुषव्याघ्रमादित्यतनयं विभो ।
स्वस्थानस्थं महाबाहो जहि शोकं नरर्षभ ॥ १८.३.२१ ॥

看那人中之虎,太阳之子,啊威武者,他安居于自己的位置。大臂者啊,人中之牛,放下你的悲伤吧。

18.3.22

भ्रातॄन्पुत्रांस्तथा पश्य स्वपक्ष्यांश्चैव पार्थिवान् ।
स्वंस्वं स्थानमनुप्राप्तान्व्येतु ते मानसो ज्वरः ॥ १८.३.२२ ॥

看你的兄弟、儿子,以及你方的诸王,他们各自都已到达自己的位置。愿你心中的热病消散。

18.3.23

कृच्छ्रं पूर्वं चानुभूय इतःप्रभृति कौरव ।
विहारस्व मया सार्धं गतशोको निरामयः ॥ १८.३.२३ ॥

你先前已经历过艰辛;从今以后,考拉瓦啊,与我同享快乐,远离忧愁与疾病。

18.3.24

कर्मणां तात पुण्यानां ज्ञानानां तपसां स्वयम् ।
दानानां च महाबाहो फलं प्राप्नुहि पार्थिवः ॥ १८.३.२४ ॥

亲爱的,大臂之王啊,你自己去获得功德、知识、苦行和布施的果报吧。

18.3.25

अद्य त्वां देवगन्दर्वा दिव्याश्चाप्सरसो दिवि ।
उपसेवन्तु कल्याणं विरजंबरभूषणाः ॥ १८.३.२५ ॥

愿今日诸神、乾闼婆与天上的天界天女,身着无垢衣饰,侍奉于你,吉祥者啊。

18.3.26

राजसूयजितां लोकानश्वमेधभिनिर्मितान् ।
प्राप्नुहि त्वं महाबाहो तपसश्च महाफलम् ॥ १८.३.२६ ॥

大臂者啊,你将获得以王祭所胜、以马祭所造的诸世界,以及苦行的大果报。

18.3.27

उपर्युपरि राज्ञां हि तव लोकाः युधिष्टिर ।
हरिश्चन्द्रमसः पार्थ येषु त्वं विहरिष्यसि ॥ १८.३.२७ ॥

坚战啊,诸王的世界层层相叠,你的世界也在其中。普利塔之子啊,你将在哈利旃陀罗游历的那些世界中游历。

18.3.28

मान्धाता यत्र राजर्षिर्यत्र राजा भगीरथः ।
दौष्यन्तिर्यत्र भरतस्तत्र त्वं विहरिष्यसि ॥ १८.३.२८ ॥

王仙曼陀多所在之处,国王婆吉罗陀所在之处,杜煞衍多之子婆罗多所在之处,你将在那里游历。

18.3.29

एषा देवनदी पुण्या पार्थ त्रैलोक्यपावनी ।
आकाशगङ्गा राजेन्र्र तत्राप्लुत्य गमिष्यसि ॥ १८.३.२९ ॥

普利塔之子啊,此即神圣的天河,净化三界的虚空恒河。众王之主啊,在那里沐浴之后,你将前行。

18.3.30

अत्र स्नातस्य भावस्ते मानुषो विगमिष्यति ।
गतशोको निरायासो मुक्तवैरो भविष्यसि ॥ १८.३.३० ॥

在此沐浴之后,你的人性将会离去。你将无忧、无倦、无敌意。

18.3.31

एवं ब्रुवति देवेन्द्रे कौरवेन्द्रं युधिष्ठिरम् ।
धर्मो विग्रहवान्साक्षादुवाच सुतमात्मनः ॥ १८.३.३१ ॥

当天神之主如此说话时,化身为形的法神亲自对俱卢之主、自己的儿子般的坚战说道。

18.3.32

भोभो राजन्महाप्राज्ञ प्रीतोस्मि तव पुत्रक ।
मद्भक्त्या सत्यवाक्यैश्च क्षमया च दमेन च ॥ १८.३.३२ ॥

啊,国王,啊,大智者,我的儿子!我因你对我的虔诚、真实的言语、忍耐与克制而感到喜悦。

18.3.33

एषा तृतीया जिज्ञासा तव राजन्कृता मया ।
न शक्यसे चालयितुं स्वभावात्पार्थ हेतुतः ॥ १८.३.३३ ॥

国王啊,这是我对你所作的第三次考验。阿周那啊,凭着你的本性,你不会因任何缘由而动摇。

18.3.34

पूर्वं परीक्षितो हि त्वं प्रश्नाद्द्वैतवने मया ।
अरणीसहितस्यार्थे तच्च निस्तीर्णवानसि ॥ १८.३.३४ ॥

此前在二元林中,我以一个关于钻木取火之木的问题考验过你,而你通过了考验。

18.3.35

सोदर्येषु विनष्टेषु द्रौपद्या तत्र भारत ।
श्वरूपधारिणा तत्र पुनस्त्वं मे परीक्षितः ॥ १८.३.३५ ॥

婆罗多之子啊,当你的兄弟因德罗波蒂而灭亡时,在那里,我化作狗的形象,再次考验了你。

18.3.36

इदं तृतीयं भ्रातॄणामर्थे यतस्थातुमिच्छसि ।
विशुद्धोसि महाभाग सुखी विगतकल्मषः ॥ १८.३.३६ ॥

为了你的兄弟,你想留在此地,这已是第三次。大福之人啊,你清净、快乐,并已脱离罪垢。

18.3.37

न च ते भ्रातरः पार्थ नरकार्हा विशांपतै ।
मायैषा देवराजेन महेन्द्रेणि प्रयोजिता ॥ १८.३.३७ ॥

阿周那啊,你的兄弟们不配下地狱,人主啊。这是天王因陀罗(摩亨德拉)所设的幻术。

18.3.38

अवश्यं नरकास्तात द्रष्टव्याः सर्वराजभिः ।
ततस्त्वया प्राप्तमिदं मुहूर्तं दुःखमुत्तमम् ॥ १८.३.३८ ॥

亲爱的,所有国王必定要亲眼见到地狱;之后你只在片刻间承受了这至高的痛苦。

18.3.39

न सव्यसाची भीमो वा यमौ वा पुरुषर्षभौ ।
कर्णो वा सत्यवाक् शूरो नरकार्हाश्चिरं नृप ॥ १८.३.३९ ॥

无论是善左手者(阿周那)、怖军、两位人中雄牛,还是诚实的英雄迦尔纳,大王啊,都不应长久堕入地狱。

18.3.40

न कृष्णा राजपुत्री च नरकार्हा कथञ्चन ।
एह्येहि भरतश्रेष्ठ पश्य चेमांस्त्रिलोकगान् ॥ १८.३.४० ॥

公主克里希那(黛劳帕蒂)绝不应堕入地狱。来吧,来吧,婆罗多之最,看看这些行走于三界之人。

18.3.41

एवमुक्तः स राजर्षिस्तव पूर्वपितामहः ।
जगाम सह धर्मेणि सवैश्च त्रिदिवालयैः ॥ १८.३.४१ ॥

被如此告知之后,那位王仙,你的先祖,与法神以及天界居民一同离去了。

18.3.42

गङ्गां देवनदीं पुण्यां पावनीमृषिसंस्तुताम् ।
अवगाह्य ततो राजा तनुं तत्याज मानुषीम् ॥ १८.३.४२ ॥

在被仙人赞颂的神河恒河——圣洁而能净化的河流中沐浴之后,国王便舍弃了人身。

18.3.43

ततो विव्यवपुर्भूत्वा धर्मराजो युधिष्ठिरः ।
निर्वैरो गतसंतापो जले तस्मिन्समाप्लुतः ॥ १८.३.४३ ॥

于是法王坚战化为神圣之身,摆脱仇怨与悲痛,完全沉入那水中。

18.3.44

ततो ययौ वृतो देवैः कुरुराजो युधिष्ठिरः ।
धर्मेण सहितो धीमांस्तूयमानो महर्षिभिः ॥ १८.३.४४ ॥

于是被诸神环绕的俱卢王坚战与法神同行,智者坚战受到大仙人的赞颂。

18.3.45

यत्र ते पुरुषव्याघ्राः शूरा विगतमन्यवः ।
पाण्डवा धार्तराष्ट्राश्च स्वानि स्थानानि भेजिरे ॥ १८.३.४५ ॥

在那里,人中猛虎、摆脱愤怒的英勇般度诸子与持国之子各自抵达了自己的住处。