摩诃婆罗多 · 章 2.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.1.1
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैवततो जयमुदीरयेत् ॥ २.१.१ ॥
向那罗延(Nārāyaṇa)和人中至上的那罗(Nara)致敬,也向女神萨罗室伐蒂(Sarasvatī)致敬之后,then应当宣唱胜利。
2.1.2
अर्जुनो जयतां श्रेष्ठो मोचयित्वा मयं तदा ।
किं चकार महातेजास्तन्मे ब्रूहि द्विजोत्तम ॥ २.१.२ ॥
胜者中最优秀的阿周那在解救摩耶之后,当时做了什么?请告诉我,婆罗门中最优秀的人。
2.1.3
शृणु राजन्नवहितश्चरितं पूर्वकस्य ते ।
मोक्षयित्वा मयं तत्र पार्थः शस्त्रभृतां वरः ॥ २.१.३ ॥
国王啊,请专心听你先祖的事迹:在那里,持械者中最优秀的普利塔之子解救了摩耶。
2.1.4
गाण्डिवं कार्मुकश्रेष्ठं तूणी चाक्षयसायकौ ।
दिव्यान्यस्त्राणि राजेन्द्र दुर्लभानि नृपैर्भुवि ॥ २.१.४ ॥
甘狄拔(Gāṇḍīva)弓,是诸弓中最优者,还有两个装着取之不尽之箭的箭囊;诸王之主啊,这些神圣的武器在世上的国王中极为罕见。
2.1.5
रथध्वजपताकाश्च श्वेताश्वांश्च स वीर्यवान् ।
एतानि पावकात्प्राप्य मुदा परमया युतः।
तस्थौ पार्थो महावीर्यस्तदा सह मयेन सः ॥ २.१.५ ॥
战车的旗帜与旌旗,以及白马——从火神那里获得这些之后,充满无上喜悦的大力普利塔之子、大英雄,那时便与摩耶一同站立。
2.1.6
ततोऽब्रवीन्मयः पार्थं वासुदेवस्य सन्निधौ ।
पाण्डवेन परित्रातस्तत्कृतं प्रत्यनुस्मरन् ॥ २.१.६ ॥
于是摩耶在婆苏提婆(Vāsudeva)面前对普利塔之子说道——他曾被般度之子所救,念念不忘所受的恩德。
2.1.7
प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ।
अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः ॥ २.१.७ ॥
合掌以温和的言语一再致敬,(摩耶说)你救了我,使我免于这愤怒的黑天,也免于那想要焚烧我的火。
2.1.8
त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ।
अहं हि विश्वकर्मा वै असुराणां परन्तप ॥ २.१.८ ॥
贡蒂之子啊,你救了我;请告诉我,我能为你做什么。我正是阿修罗的毗首羯摩,啊,敌人的焚烧者。
2.1.9
तस्मात्ते विस्मयं किञ्चित्कुर्यामन्यैः सुदुष्करम् ॥ २.१.९ ॥
因此,我将为你做一件令你惊叹的事,一件他人极难完成的事。
2.1.10
एवमुक्तो महावीर्यः पार्थो मायाविदं मयम् ।
ध्यात्वा मुहूर्तं कौन्तेयः प्रहसन्वाक्यमब्रवीत् ॥ २.१.१० ॥
被精通幻术的摩耶这样说后,大力的贡蒂之子般度之子(阿周那)沉思片刻,微笑着说出了这番话。
2.1.11
कृतमेव त्वया सर्वं स्वस्ति गच्छ महाऽसुर ।
प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ॥ २.१.११ ॥
你已经完成了一切。大阿修罗啊,平安地去吧;请永远对我怀有善意,我们也对你怀有善意。
2.1.12
प्रोपकारादर्थं हि नादास्यामीति मे व्रतम् ।
युक्तमेतत्त्वयि विभो यदात्थ पुरुषर्षभ ॥ २.१.१२ ॥
我的誓愿是:为他人行善,不接受任何报酬。啊,大力者,人中雄牛,你所说的正适合你。
2.1.13
प्रीतिपूर्वमहं किञ्चित्कर्तुमिच्छामि तेऽर्जुन ।
अहं हि विश्वकर्मा वै दानवानां महाकविः ॥ २.१.१३ ॥
出于爱意,阿周那,我想为你做些什么。我正是檀那婆的毗首羯磨,伟大的诗人工匠。
2.1.14
सोऽहं वै त्वत्कृते किञ्चित्कर्तुमिच्छामि पाण्डव ।
दानवानां पुरा पार्थ प्रासादा हि मया कृताः ॥ २.१.१४ ॥
因此我想为你做些什么,般度之子。往昔,普利塔之子,檀那婆的宫殿都是我所建造。
2.1.15
रम्याणि सुखगर्भाणि भोगाढ्यानि सहस्रशः ।
उद्यानानि च रम्याणि सरांसि विविधानि च ॥ २.१.१५ ॥
成千上万座可爱的宫殿,充满欢乐,富足于享受;可爱的园林与种种湖泊。
2.1.16
विचित्राणि च वस्त्राणि कामगानि रथानि च ।
नगराणि विशालानि साट्टप्राकारवन्ति च ॥ २.१.१६ ॥
奇妙的衣裳,随意而行的车辆;有楼阁与城墙的广阔城市。
2.1.17
वाहनानि च मुख्यानि विचित्राणि सहस्रशः ।
बिलानि रमणीयानि सुखयुक्तानि वै भृशम्।
एते कृता मया तस्मादिच्छामि फल्गुन ॥ २.१.१७ ॥
成千上万的上等奇妙车辆,以及可爱而极其舒适的地下殿堂。这些都是我所造;因此,法尔古那,我愿为你做些什么。
2.1.18
प्राणकृच्छ्राद्विनिर्मुक्तमात्मानं मन्यसे मया ।
एवं गते न शक्ष्यामि किञ्चित्कारयितुं त्वया ॥ २.१.१८ ॥
你认为自己因我而脱离了性命之危。既然如此,我便不能让你为我做任何事。
2.1.19
न चापि तव सङ्कल्पं मोघमिच्छामि दानव ।
कृष्णस्य क्रियतां किञ्चित्तथा प्रतिकृतं मयि ॥ २.१.१९ ॥
达那婆啊,我不愿你的心愿落空。愿为黑天做些什么,也愿以同样的恩惠回报于我。
2.1.20
चोदितो वासुदेवस्तु मयं प्रति नरर्षभ ।
मुहूर्तमिव सन्दध्यौ किमयं चोद्यतामिति ॥ २.१.२० ॥
人中雄牛啊,受摩耶劝促,婆苏提婆沉思片刻:“现在该吩咐他做什么呢?”
2.1.21
ततो विचिन्त्य मनसा लोकनाथः प्रजापितः ।
चोदयामास तं कृष्णः सभा वै क्रियतामिति ॥ २.१.२१ ॥
于是,主宰世界的生主黑天在心中思虑后,吩咐他:“应当建造议事厅。”
2.1.22
यदि त्वं कर्तुकामोऽसि प्रियं शिल्पवतां वर ।
धर्मराजस्य दयितां यादृशीमिह मन्यसे ॥ २.१.२२ ॥
工匠中的翘楚啊,若你想建造一座如你此刻所想、为法王所喜爱的议事厅——
2.1.23
यां क्रियां नानुकुर्युस्ते मानवाः प्रेक्ष्य विष्ठिताः ।
मनुष्यलोके सकले तादृशीं कुरु वै सभाम् ॥ २.१.२३ ॥
请在整个人间建造一座如此的议事厅,使人们即使见到,也无法模仿其建造。
2.1.24
यत्र द्विव्यानभिप्रायान्पश्येम विहितांस्त्वया ।
आसुरान्मानुपांश्चैव तादृशीं कुरु वै सभाम् ॥ २.१.२४ ॥
请建造这样一座议事厅,使我们能看见你所作的神圣design,以及阿修罗与人类的设计。
2.1.25
प्रतिगृह्य तु तद्वाक्यं सम्प्रहृष्टो मयस्तदा ।
विमानप्रतिमां चक्रे पाण्डवस्य शुभां सभाम् ॥ २.१.२५ ॥
摩耶接受了这一请求,心中十分欢喜,便为般度之子建造了一座如天界毗摩那般华美的大殿。
2.1.26
ततः कृष्णश्च पार्थश्च धर्मराजे युधिष्ठिरे ।
सर्वमेतत्समावेद्य दर्शयामासतुर्मयम् ॥ २.१.२६ ॥
随后,克里希那与阿周那将这一切禀告法王坚战,并把摩耶引见给他。
2.1.27
तस्मै युधिष्ठिरः पूजां यथार्हमकरोत्तदा ।
स तु तां प्रतिजग्राह मयः सत्कृत्य भारत ॥ २.१.२७ ॥
坚战随即给予他应有的礼遇;婆罗多啊,摩耶恭敬地接受了这份礼遇。
2.1.28
स पूर्वदेवचरितं तदा तत्र विशाम्पते ।
कथयामास दैतेयः पाण्डुपुत्रेषु भारत ॥ २.१.२८ ॥
于是,人主啊,那位达伊提亚向般度之子讲述了往昔诸神的事迹,婆罗多啊。
2.1.29
स कालं कञ्चिदाश्वस्य विश्वकर्मा विचिन्त्य तु ।
सभां प्रचकमे कर्तुं पाण्डवानां महात्मनाम् ॥ २.१.२९ ॥
他稍作歇息,像毗首羯摩那样思量之后,便开始为伟大的般度之子建造大殿。
2.1.30
अभिप्रायेण पार्थानां कृष्णस्य च महात्मनः ।
पुण्येऽहनि महातेजाः कृतकौतुकमङ्गलः ॥ २.१.३० ॥
应般度之子与伟大的克里希那之愿,在吉日里,这位大光辉者举行了吉祥的仪式。
2.1.31
तर्पयित्वा द्विजश्रेष्ठान्पायसेन सहस्रशः ।
धनं बहुविधं दत्त्वा तेभ्य एव च वीर्यवान्
सर्वर्तुगुणसम्पन्नां दिव्यरूपां मनोरमाम्। ॥ २.१.३१ ॥
他以乳粥使成千上万位最优秀的再生者满足,又把多种财富赐予他们,这位有力者于是建造了一座具备四季之德、形貌神圣、令人心悦的大殿。
2.1.32
दशकिष्कुसहस्रां तां मापयामास सर्वतः ॥ २.१.३२ ॥
他令人从四面测量它,其广度达一万基什库。