Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 2.10

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

2.10.1

सभा वैश्रवणी राजञ्शतयोजनमायता ।
विस्तीर्णा सप्ततिश्चैव योजनानि सितप्रभा ॥ २.१०.१ ॥

王よ、ヴァイシュラヴァナ(クベーラ)の集会堂は長さ百ヨージャナ、幅七十ヨージャナで、白く輝いている。

2.10.2

तपसा निर्जिता राजन्स्वयं वैश्रवणेन सा ।
शशिप्रभा प्रावरणा कैलासशिखरोपमा ॥ २.१०.२ ॥

王よ、その殿堂はヴァイシュラヴァナ自身が苦行によって勝ち取ったものだ。月のように輝き、カイラーサの峰のような覆いを持つ。

2.10.3

गुह्यकैरुह्यमाना सा खे विषक्तेव शोभते ।
दिव्या हेममयैरुच्चैः प्रासादैरुपशोभिता ॥ २.१०.३ ॥

ギュヒヤカたちに運ばれたその殿堂は、空に浮かんでいるかのように輝く。神々しく、高い黄金の殿舎で飾られている。

2.10.4

महारत्नवती चित्रा दिव्यगन्धा मनोरमा ।
सिताभ्रशिखराकारा प्लवमानेव दृश्यते। ॥ २.१०.४ ॥

大いなる宝玉に満ち、見事で神々しい香りがあり、心を楽しませるその殿堂は、白い雲の峰の形をして漂っているように見える。

2.10.5

दिव्या हेममयै रङ्गैर्विद्युद्भिरिव चित्रिता ।
तस्यां वैश्रवणो राजा विचित्राभरणाम्बरः ॥ २.१०.५ ॥

黄金で造られ、稲妻で描かれたかのような神々しい色彩に彩られたその殿堂には、さまざまな装飾と衣をまとったクベーラ王がいる。

2.10.6

स्त्रीसहस्रैर्वृतः श्रीमानास्ते ज्वलितकुण्डलः ।
सह पत्न्या महाराज ऋद्ध्या सह विराजते। ॥ २.१०.६ ॥

幾千もの女性に囲まれ、輝く耳飾りを着けた栄光あるヴァイシュラヴァナが座している。偉大な王よ、彼は妻と繁栄とともに輝いている。

2.10.7

सर्वाभरणभूषिण्या वपुष्मत्या धनेश्वरः ।
दिवाकरनिभे पुण्ये दिव्यास्तरणसंवृते।
दिव्यपादोपधाने च निषण्णः परमासने ॥ २.१०.७ ॥

あらゆる装飾で飾られ、輝く身体の妻とともに、富の主クベーラは太陽のように輝く清浄な、天界の敷物に覆われ天界の足台をもつ至高の座に坐している。

2.10.8

मन्दाराणामुदाराणां वनानि परिलोडयन् ।
सौगन्धीकवनानां च गन्धं गन्धवहो वहन् ॥ २.१०.८ ॥

マンダーラ樹の立派な林を揺らし、サウガンディカの林の香りを運んで、香る風が吹いている。

2.10.9

नलिन्याश्चालकाख्याया नन्दनस्य वनस्य च ।
शीतो हृदयसंह्लादी वायुस्तमुपसेवते ॥ २.१०.९ ॥

アラカーという蓮池とナンダナの林から吹く、涼しく心を喜ばせる風が彼に仕えている。

2.10.10

तत्र देवाः सगन्धर्वा गणैरप्सरसां वृताः ।
दिव्यतानैर्महाराज गायन्तिस्म सभागताः ॥ २.१०.१० ॥

そこでは、集会に集まった神々とガンダルヴァたちが、アプサラス衆に囲まれ、大王よ、天上の旋律で歌っていた。

2.10.11

मिश्रकेशी च रम्भा च चित्रसेना शुचिस्मिता ।
चारुनेत्रा घृताची च मेनका पुञ्जिकस्थला ॥ २.१०.११ ॥

ミシュラケーシーとランバー、清らかな微笑のチトラセーナー、美しい目のグリタチー、メナカーとプンジカスタラー。

2.10.12

विश्वाची सहजन्या च प्रम्लोचा उर्वशी ॥ २.१०.१२ ॥

ヴィシュヴァーチー、サハジャニャー、プラムローチャー、ウルヴァシー。

2.10.13

वर्गा च सौरभेयी च समीची बुद्बुदा लता ।
एताः सहस्रशश्चान्या नृत्तगीतविशारदाः ॥ २.१०.१३ ॥

ヴァルガー、サウラベーイー、サミーチー、ブドブダー、ラター、これらと数千の他のアプサラスたちは、舞踊と歌に秀でている。

2.10.14

उपतिष्ठन्ति धनदं गन्धर्वाप्सरसां गणाः ।
अनिशं दिव्यवादित्रैर्नृत्तगीतैश्च स सभा ॥ २.१०.१४ ॥

ガンダルヴァとアプサラスの群れは、神聖な楽器と舞踊と歌をもって、富を与える者クベーラに絶えず仕える。その集会はそのようである。

2.10.15

अशून्या रुचिरा भाति गन्धर्वाप्सरसां गणैः ।
किन्नरा नाम गन्धर्वा नरा नाम तथाऽपरे ॥ २.१०.१५ ॥

ガンダルヴァとアプサラスの群れによって決して空になることのない、その麗しい集会は輝いている。そこにはキンナラと呼ばれるガンダルヴァ、ナラと呼ばれるガンダルヴァ、そして他の者たちもいる。

2.10.16

माणिभद्रोऽथ धनदः श्वेतभद्रश्च गुह्यकः ।
कशेरको गण्डकण्डूः प्रद्योतश्च महाबलः ॥ २.१०.१६ ॥

マニバドラ、次にダナダ(クベーラ)、シュヴェータバドラとグフヤカ、カシェーラカ、ガンダカンドゥ、そして大力のプラディョータ。

2.10.17

कुस्तम्बरुः पिशाचश्च गजकर्णो विशालकः ।
वराहकर्णस्ताम्रौष्ठः फलकक्षः फलोदकः ॥ २.१०.१७ ॥

クスタンバル、ピシャーチャ、ガジャカルナ、ヴィシャーラカ、ヴァラーハカルナ、タームラウシュタ、パラカクシャ、パラオダカ。

2.10.18

हंसचूडः शइखावर्तो हेमनेत्रो विभीषणः ।
पुष्पाननः पिङ्गलकः शोणितोदः प्रवालकः ॥ २.१०.१८ ॥

ハンサチューダ、シャンカーヴァルタ、ヘーマネートラ、ヴィビーシャナ、プシュパーナナ、ピンガラカ、シォニトーダ、プラヴァーラカ。

2.10.19

वृक्षवास्यनिकेतश्च चीरवासाश्च भारत ।
एते चान्ये च बहवो यक्षाः शतसहस्रशः ॥ २.१०.१९ ॥

木に住み、樹皮の衣をまとう者たちよ、バーラタよ、これらと他の多くのヤクシャが数十万もいる。

2.10.20

सदा भगवती लक्ष्मीस्तत्रैव नलकूबरः ।
अहं च बहुशस्तस्यां भवन्त्यन्ये च मद्विधाः ॥ २.१०.२० ॥

そこには常に尊きラクシュミーがおり、そこにはナラクーバラもいる。私もそこに度々いるし、私のような他の者たちもいる。

2.10.21

ब्रह्मर्षयो भवन्त्यत्र तथा देवर्षयोऽपरे ।
क्रव्यादाश्च तथैवान्ये गन्धर्वाश्च महाबलाः ॥ २.१०.२१ ॥

ここにはブラーフマナの聖仙たちがおり、同じく他の天仙、肉食の羅刹たちやその他、そして大力のガンダルヴァたちもいる。

2.10.22

उपासते महात्मानं तस्यां धनदमीश्वरम् ।
भगवान्भूतसङ्घैश्च वृतः शतसहस्रशः ॥ २.१०.२२ ॥

そこでは、富を与える偉大な主、クベーラに仕えている。尊き主も、数十万の精霊の群れに囲まれている。

2.10.23

उमापतिः पशुपतिः शूलभृद्भगनेत्रहा ।
त्र्यम्बको राजशार्दूल देवी च विगतक्लमा ॥ २.१०.२३ ॥

ウマーの主、生き物の主、三叉戟を持つ者、バガの眼を砕いた者、三眼の主。王の中の虎よ、女神もまた疲れを知らず(そこにいる)。

2.10.24

वामनैर्विकटैः कुब्जैः क्षतजाक्षैर्महारवैः ।
मेदोमांसाशनैरुग्रैरुग्रधन्वा महाबलः ॥ २.१०.२४ ॥

小人、醜怪な者、せむし、血走った目の者、大声で吠える者、脂肪と肉を食らう凶暴な者たちとともに。猛弓の大力者もそこにいる。

2.10.25

नानाप्रहरणैरुग्रैर्वातैरिव महाजवैः ।
वृतः सखायमन्वास्ते सदैव धनदं नृप ॥ २.१०.२५ ॥

多くの種類の恐ろしい武器と、風のように素早い従者に囲まれて、彼は常に友なる富の与え主(クベーラ)に仕えている、王よ。

2.10.26

प्रहृष्टाः शतशश्चान्ये बहुशः सपरिच्छदाः ।
गन्धर्वाणां च पतयो विश्वावसुर्हहा हुहूः ॥ २.१०.२६ ॥

喜びに満ちた数百の他の者たちが従者と共に、そしてガンダルヴァの主であるヴィシュヴァーヴァス、ハーハー、フーフーたちが。

2.10.27

तुम्बुरुः प्रवतश्चैव शैलूषश्च तथाऽपरः ।
चित्रसेनश्च गीतज्ञस्तथा चित्ररथोपि च ॥ २.१०.२७ ॥

トゥンブル、プラヴァタ、シャイルーシャ、そして別の者;歌の知者チトラセーナ、そしてチトララタもまた。

2.10.28

एते चान्ये च गन्धर्वा धनेश्वरमुपासते ।
विद्याधराधिपश्चैव चक्रधर्मा सहानुजैः ॥ २.१०.२८ ॥

彼らと他のガンダルヴァたちは富の主に仕えている;そしてヴィディヤーダラの主チャクラダルマーも弟たちと共に。

2.10.29

उपाचरति तत्र स्म धनानामीश्वरं प्रभुम् ।
किन्नराः शतशस्तत्र धनानामीश्वरं प्रभुम् ॥ २.१०.२९ ॥

そこで彼は富の主である主君に仕える;そこでは数百のキンナラもまた富の主である主君に仕えている。

2.10.30

आसते चापि राजानो भगदत्तपुरोगमाः ।
द्रुमः किम्पुरुषेशश्च उपास्ते धनदेश्वरम् ॥ २.१०.३० ॥

バガダッタを筆頭とする王たちもそこに座している;またキンプルシャの主ドゥルマも富を与える者の主に仕えている。

2.10.31

राक्षसाधिपतिश्चैव महेन्द्रो गन्धमादनः ।
सह यक्षैः सगन्धर्वैः सह सर्वैर्निशाचरैः ॥ २.१०.३१ ॥

羅刹の主、マヘーンドラとガンダマーダナ、ヤクシャ、ガンダルヴァ、そして一切の夜行者たちと共に。

2.10.32

विभीषणश्च धर्मिष्ठ उपास्ते भ्रातरं प्रभुम् ।
हिमवान्पारियात्रश्च विन्ध्यकैलासमन्दराः ॥ २.१०.३२ ॥

最も正しいヴィビーシャナは兄なる主に仕える。ヒマヴァット、パーリヤートラ、ヴィンディヤ、カイラーサ、マンダラも。

2.10.33

मलयो दर्दुरश्चैव महेन्द्रो गन्धमादनः ।
इन्द्रकीलः सुनाभश्च तथा दिव्यौ च पर्वतौ ॥ २.१०.३३ ॥

マラヤ、ダルドゥラ、マヘーンドラ、ガンダマーダナ、インドラキーラ、スナーバ、そして二つの神聖な山々も。

2.10.34

एते चान्ये च बहवः सर्वे मेरुपुरोगमाः ।
उपासते महात्मानं धनानामीश्वरं प्रभुम् ॥ २.१०.३४ ॥

これらと他の多くの者たち、メールを先頭とする者すべてが、偉大な魂の富の主に仕える。

2.10.35

नन्दीश्वरश्च भगवान्महाकालस्तथैव च ।
शङ्कुकर्णमुखाः सर्वे दिव्याः पारिषदास्तथा ॥ २.१०.३५ ॥

ナンディーシュヴァラと尊き主マハーカーラ、同様に、シャンクカルナを筆頭とする神聖な随行者たちすべて。

2.10.36

काष्ठः कुटी मुखो दन्ती विजयश्च तपोधिकः ।
श्वेतश्च वृषभस्तत्र नर्दन्नास्ते महाबलः ॥ २.१०.३६ ॥

カーシュタ、クティー、ムカ、ダンティー、ヴィジャヤ、タポーディカ、シュヴェータ、ヴリシャバ——そこで吠えながら坐す大力者。

2.10.37

धनदं राक्षसाश्चान्ये पिशाचाश्च उपासते ।
पारिषदैः परिवृतमुपायान्तं महेश्वरम् ॥ २.१०.३७ ॥

羅刹や他の者たち、そしてピシャーチャらは財神に仕える。従者たちに囲まれて近づいて来る大自在天に。

2.10.38

सदा हि देवदेवेशं शिवं त्रैलोक्यभावनम् ।
प्रणम्य मूर्ध्ना पौलस्त्यो बहुरूपमुमापतिम् ॥ २.१०.३८ ॥

プラスティヤの息子(クベーラ)は常に、神々の神にして三界を生み出すシヴァ、多様な姿のウマーの夫に頭を垂れて礼拝する。

2.10.39

ततोऽभ्यनुज्ञां सम्प्राप्य महादेवाद्धनेश्वरः ।
आस्ते कदाचिद्भगवान्भवो धनपतेः सखा ॥ २.१०.३९ ॥

その後、マハーデーヴァの許しを得て、財神は時にそこに住む。財神の友である世尊バヴァもまたそこに住む。

2.10.40

निधिप्रवरमुख्यौ च शङ्खपद्मौ धनेश्वरौ ।
सर्वान्निधीन्प्रगृह्याथ उपास्तां वै धनेश्वरम् ॥ २.१०.४० ॥

最上の宝蔵たる二人の財神シャンカとパドマは、すべての宝蔵を携え、財神に仕えた。

2.10.41

सा सभा तादृशी रम्या मया दृष्टान्तरिक्षगा ।
पितामहसभां राजन्कीर्तयिष्ये निबोध ताम् ॥ २.१०.४१ ॥

その集会は同じく麗しく、私は空を移動するのを見た。王よ、祖父(ブラフマー)の集会を語ろう。それを聞け。