Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.12.1

प्रायशो राजलोकस्ते कथितो वदतां वर ।
वैवस्वतसभायां तु यथा वदसि मे प्रभो ॥ २.१२.१ ॥

言者中最優秀者啊,您大多向我講述了王者的世界;但是尊主啊,請將您所說的毗婆娑陀之集會告訴我。

2.12.2

वरुणस्य सभायां तु नागास्ते कथिता विभो ।
दैत्येन्द्राश्चापि भूयिष्ठाः सरितः सागरास्तथा ॥ २.१२.२ ॥

在伐樓那之集會中,哦,大能者,您描述了龍(那伽);大多數阿修羅之王,以及河流與大海,也是如此。

2.12.3

तथा धनपतेर्यक्षा गुह्यका राक्षसास्तथा ।
गन्धर्वाप्सरसश्चैव भगवांश्च वृषध्वजः ॥ २.१२.३ ॥

同樣,財神的夜叉、伏藏者與羅剎;還有乾闥婆與阿普薩拉絲,以及以牛旗為標誌的世尊。

2.12.4

पितामहसभायां तु कथितास्ते महर्षभः ।
सर्वे देवनिकायाश्च सर्वशास्त्राणि वैव ह ॥ २.१२.४ ॥

在祖父的集會中,哦,聖者中的大牛,您描述了一切天神之類,確實也描述了一切經典。

2.12.5

शक्रस्य तु सभायां तु देवाः सङ्कीर्तिता मुने ।
उद्देशतश्च गन्धर्वा विविधाश्च महर्षयः ॥ २.१२.५ ॥

在帝釋之集會中,哦,牟尼,諸天被述說;大略而言,乾闥婆與各種大仙也是如此。

2.12.6

एक एव तु राजर्षिर्हरिश्चन्द्रो महामुने ।
कथितस्ते सभायां वै देवेन्द्रस्य महात्मनः ॥ २.१२.६ ॥

哦,大牟尼,您在大德天神之主帝釋的集會中,只描述了王仙哈利什昌陀羅一人。

2.12.7

किं कर्म तेनाचरितं तपो वा नियतव्रत ।
येनासौ सह शक्रेण स्पर्धदे सुमहायशाः ॥ २.१२.७ ॥

他做了什么业,或修了何种苦行,坚守誓言的人啊,使这位大名之人竟与因陀罗相争?

2.12.8

पितृलोकगतश्चैव त्वया विप्र पिता मम ।
दृष्टः पाण्डुर्महाभागः कथं वाऽपि समागतः ॥ २.१२.८ ॥

婆罗门啊,您是否见过已往生祖界的我父亲、大福的般度?他是如何与您相遇的?

2.12.9

किमुक्तवांश्च भगवंस्तन्ममाचक्ष्व सुव्रत ।
त्वत्तः श्रोतुं सर्वमिदं परं कौतूहलं हि मे ॥ २.१२.९ ॥

尊者啊,他说了什么?善誓者啊,请把那一切告诉我。从您那里听闻这一切,我心中极为渴望。

2.12.10

यन्मां पृच्छसि राजेन्द्र हरिश्चन्द्रं प्रति प्रभो ।
तत्तेऽहं सम्प्रवक्ष्यामि माहात्म्यं तस्य धीमतः ॥ २.१२.१० ॥

诸王之王啊,主啊,关于那位智者哈里什坎德拉,您向我询问的,我将把他的伟大完整地告诉您。

2.12.11

इक्ष्वाकूणां कुले जातस्त्रिशङ्कुर्नाम पार्थिवः ।
अयोध्याधिपतिर्वीरो विश्वामित्रेण संस्थितः ॥ २.१२.११ ॥

在甘蔗王族中诞生了一位名叫特里商库的国王,他是阿约迪亚的英雄之主,由毗首密多罗使他得以确立。

2.12.12

तस्य सत्यवती नाम पत्नी केकयवंशजा ।
तस्यां गर्भः समभवद्धर्मेण कुरुनन्दन ॥ २.१२.१२ ॥

他的妻子名叫萨提亚瓦蒂,出生于迦迦耶王族;在她之中,俱卢之喜啊,由法而生起了胎。

2.12.13

सा च काले महाभागा राजन्मासं प्रविश्य च ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम्।
स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः ॥ २.१२.१३ ॥

时至,大王,那位极有福分的女子满足月份,生下了一位无瑕的儿子,名为哈里什坎德拉。这位哈里什坎德拉王被称为特莱尚库之子。

2.12.14

स राजा बलवानासीत्सम्राट् सर्वमहीक्षिताम् ।
तस्य सर्वे महीपालाः शासनावनताः स्थिताः ॥ २.१२.१४ ॥

那位国王强大,是全地诸侯的皇帝。他的所有诸侯都在他的命令前俯首站立。

2.12.15

तेनैकं रथमास्थाय जैत्रं हेमविभूषितम् ।
शस्त्रप्रतापेन जिता द्वीपाः सप्त जनेश्वर ॥ २.१२.१५ ॥

他乘坐一辆饰以黄金的凯旋战车,以兵器之威征服了七大洲,啊人主。

2.12.16

स निर्जित्य महीं कृत्स्नां सशैलवनकाननाम् ।
आजहार महाराज राजसूयं महाक्रतुम् ॥ २.१२.१६ ॥

他征服了包括山岳、森林与园林在内的全部大地,啊大王,举行了名为王祭的大祭祀。

2.12.17

तस्य सर्वे महीपाला धनान्याजह्रुराज्ञया ।
द्विजानां परिवेष्टारस्तस्मिन्यज्ञे च तेऽभवन् ॥ २.१२.१७ ॥

在他的命令下,他的所有诸侯都奉上财富;在那次祭祀中,他们成为给婆罗门布施饮食的侍者。

2.12.18

समाप्तयज्ञो विधिवद्धरिश्चन्द्रः प्रतापवान् ।
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिपः ॥ २.१२.१८ ॥

依法完成祭祀后,威严的哈里什坎德拉受封帝国主权,作为人主而光辉闪耀。

2.12.19

राजसूयेऽभिषिक्तश्च समाप्तवरदक्षिणे ॥ २.१२.१९ ॥

在王祭(罗阇苏耶)中受灌顶,殊胜的布施与祭礼已经圆满。

2.12.20

प्रादाच्च द्रविणं प्रीत्या याचकानां नरेश्वरः ।
यथोक्तवन्तस्ते तस्मिंस्ततः पञ्चगुणाधिकम् ॥ २.१२.२० ॥

人主欣然将财物施予乞求者,比他们所求的多出五倍。

2.12.21

अतर्पयच्च विविधैर्वसुभिर्ब्राह्मणांस्तदा ।
प्रसर्पकाले सम्प्राप्ते नानादिग्भ्यः समागतान् ॥ २.१२.२१ ॥

于是他以种种财物使婆罗门满足,也使在节庆散去之时从四方聚集而来的人们满足。

2.12.22

भक्ष्यभोज्यैश्च विविधैर्यथाकामपुरस्कृतैः ।
रत्नौघतर्पितैस्तुष्टैर्द्विजैश्च समुदाहृतम्।
तेजस्वी च यशस्वी च नृपेभ्योऽभ्यधिकोऽभवत् । ॥ २.१२.२२ ॥

再生者们以各式饮食(依各人所愿而备)和成堆的珍宝得到满足与欢喜,并宣告此事;他变得光耀而有名,比其他国王更为尊贵。

2.12.23

एतस्मात्कारणाद्राजन्हरिश्चन्द्रो विराजते ।
तेभ्यो राजसहस्रेभ्यस्तद्विद्वि भरतर्षभ ॥ २.१२.२३ ॥

因此,大王,哈利什旃陀罗胜过那千百位国王而光耀;婆罗多之雄,请知此理。

2.12.24

समाप्य च हरिश्चन्द्रो महायज्ञं प्रतापवान् ।
अभिषिक्तश्च शुशुभे साम्राज्येन नराधिप ॥ २.१२.२४ ॥

大祭既毕,威势赫赫的哈利什旃陀罗受无上王权灌顶,光耀四方,啊,人主。

2.12.25

ये चान्ये च महीपाला राजसूयं महाक्रतुम् ।
यजन्ते ते सहेन्द्रेण मोदन्ते भरतर्षभ। ॥ २.१२.२५ ॥

其他行大王祭(罗阇苏耶)的国王,与因陀罗一同欢喜,婆罗多之牛啊。

2.12.26

ये चापि नि नं प्राप्ताः सङ्ग्रामेष्वपलायिनः ।
ते तत्सदनम् ताद्य मोन्दते भरतर्षभ ॥ २.१२.२६ ॥

在战斗中不逃避而抵达那处居所的人,也在那里欢喜,婆罗多之牛啊。(原文部分不可辨读。)

2.12.27

तपसा ये च तीव्रेण त्यजन्तीह कलेवरम् ।
ते तत्स्थानं समासाद्य श्रीमन्तो भान्ति नित्यशः ॥ २.१२.२७ ॥

那些在此以严苛苦行舍弃身体的人,抵达那处之后,永远光辉灿烂。

2.12.28

पिता च त्वाऽऽह कौन्तेय पाण्डुः कौरवनन्दन ।
हरिश्चन्द्रे श्रियं दृष्ट्वा नृपतौ जातविस्मयः ॥ २.१२.२८ ॥

你的父亲般度也曾对你说,贡蒂之子,俱卢之喜,他见到国王哈里什昌德罗的光荣而心生惊叹。

2.12.29

विज्ञाय मानुषं लोकमायान्तं मां नराधिप ।
प्रोवाच प्रणतो भूत्वा वदेथास्त्वं युधिष्ठिरम् ॥ २.१२.२९ ॥

他知道我将前往人间,人主啊,便恭敬地说:“你应当告诉坚战。”

2.12.30

समर्थोऽसि महीं जेतुं भ्रातरस्ते स्थिता वशे ।
राजसूयं क्रतुश्रेष्ठमहारस्वेति भारत ॥ २.१२.३० ॥

你有能力征服大地,你的兄弟们都听从你的号令。婆罗多啊,请举行诸祭中最殊胜的罗阇苏耶,他如此说。(原文一处读法不确定。)

2.12.31

त्वयीष्टवति पुत्रेऽहं हरिश्चन्द्रवदाशु वै ।
मोदिष्ये बहुलाः शश्वत्समाः शक्रस्य संसदि ॥ २.१२.३१ ॥

待你的儿子完成祭祀,我将如哈里ścandra一般,很快在因陀罗的集会中长久欢喜,岁月无尽。

2.12.32

एवं भवतु वक्ष्येऽहं तव पुत्रं नराधिपम् ।
भूलोकं यदि गच्छेयमिति पाण्डुमथाब्रुवम् ॥ २.१२.३२ ॥

就这样吧。若我前往凡间,我将告诉你的儿子,那位人主——我对般度如此说道。

2.12.33

तस्य त्वं पुरुषव्याघ्र सङ्कल्पं कुरु पाण्डव ।
गन्तासित्वं महेन्द्रस्य पूर्वैः सह सलोकताम् ॥ २.१२.३३ ॥

人中虎啊,般度之子,为此立下决心吧。你将与你的祖先一同前往摩亨德拉的世界。

2.12.34

बहुविघ्नश्च नृपते क्रतुरेष स्मृतो महान् ।
छिद्राण्यस्य वाञ्छन्ति यज्ञघ्ना ब्रह्मराक्षसाः ॥ २.१२.३४ ॥

大王啊,此大祭祀被认为障碍众多;毁坏祭祀的梵罗刹们想在其中寻找漏洞。

2.12.35

युद्धं च क्षत्रशमनं पृथिवीक्षयकारणम् ।
किञ्चिदेव निमित्तं च भवत्यत्र क्षयावहम् ॥ २.१२.३५ ॥

战争是刹帝利的毁灭,也是大地衰亡的起因;在此,即使一个小小的机缘也会带来毁灭。

2.12.36

एतत्सञ्चिन्त्य राजेन्द्र यत्क्षमं तत्समाचर ।
अप्रमत्तोत्थितो नित्यं चातुर्वर्ण्यस्य रक्षणे ॥ २.१२.३६ ॥

诸王之王啊,细思此事之后,做应当做的事。时常警觉振作,守护四种姓。

2.12.37

भव एधस्व मोदस्व धनैस्तर्पय च द्विजान् ।
एतत्ते विस्तरेणोक्तं यन्मां त्वं परिपृच्छसि।
आपृच्छे त्वां गमिष्यामि दाशार्हनगरीं प्रति ॥ २.१२.३७ ॥

愿你兴旺、昌盛、欢喜,并以财富使婆罗门满足。你所问的,我已详细告诉你了。现在我向你告辞,将前往达沙尔哈人的城市。

2.12.38

एवमाख्याय पार्थेभ्यो नारदो जनमेजय ।
जगाम तैर्वृतो राजन्नृषिभिर्यैः समागतः ॥ २.१२.३८ ॥

如此对般度之子说完,那罗陀便离去了,嗨,阁下(阇那密阇耶)。大王啊,他被与他同来的仙人们簇拥着离开了。

2.12.39

गते तु नारदे पार्थो भ्रातृभिः सह कौरवः ।
राजसूयं क्रतुश्रेष्ठं चिन्तयामास पार्थिवः ॥ २.१२.३९ ॥

那罗陀离去之后,俱卢之子帕尔塔(坚战)与兄弟们一同开始思量最殊胜的祭祀——王祭(Rājasūya)。