摩诃婆罗多 · 章 2.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.18.1
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी ।
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम् ॥ २.१८.१ ॥
我名叫遮罗(Jarā),是能随意变化形象的罗刹女。愿你吉祥。王中之王啊,我在你的宫中受人敬重,安乐地居住。
2.18.2
गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी ।
गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंम्भुवा ॥ २.१८.२ ॥
作为罗刹女,我常住于每个人的家中。往昔,自生者(Svayaṃbhū)以“家神”(Gṛhadevī)之名创造了我。
2.18.3
दानवानां विनाशाय स्थापिता दिव्यरूपिणी ।
यो मां भक्त्या लिखेत्कुड्ये सपुत्रां यौवनान्विताम् ॥ २.१८.३ ॥
我被设立为神圣之形,用以消灭达那婆。若有人虔诚地将我与诸子一同、青春正盛之姿绘于墙上,
2.18.4
गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात् ।
त्वद्गृहे तिष्ठमानाऽहं पूजिताऽहं सदा विभो ॥ २.१८.४ ॥
在这样的人家中便有兴旺,否则必致衰败。我住在你的家中,常受供奉,啊,大能者。
2.18.5
लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता ।
गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता ॥ २.१८.५ ॥
绘于墙壁之上,被众多子嗣环绕,以香料、花、焚香以及饮食供奉得very好。
2.18.6
साऽहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप ।
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिका। ॥ २.१८.६ ॥
我日夜思量如何报答这份恩情。王啊,我已看见你诸子的这些残骸,有德之人啊。
2.18.7
संश्लिषिते मया दैवात्कुमारः समपद्यत ।
तव भाग्यान्महाराज हेतुमात्रमहं त्विह ॥ २.१८.७ ॥
我凭天意将它们合拢时,那位王子便成形了。大王,由于您的福运,我在此不过是一个缘由。
2.18.8
मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् ।
गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव ॥ २.१८.८ ॥
我连须弥山都能吞下,何况你的孩子呢?因家中所受的款待而欢喜,我已将他归还给你。
2.18.9
मम नाम्ना च लोकेऽस्मिन्ख्यात एव भविष्यति ।
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत।
स सङ्गृह्य कुमारं तं प्रविवेश गृहं नृपः ॥ २.१८.९ ॥
他将因我的名字而在此世间闻名。大王,她说完这话便在那里消失了。大王抱起那位王子,走进了宫室。
2.18.10
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा ।
आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम् ॥ २.१८.१० ॥
当时国王为那孩子举行了所有应行的仪式,并依罗刹女之言,在摩揭陀人中下令举行盛大的庆典。
2.18.11
तस्य नामाकरोच्चैव पितामहसमः पिता ।
जरया सन्धितो यस्माज्जरासन्धो भवत्वयम् ॥ २.१८.११ ॥
与祖父相当的父亲也为他取了名字:因为他是由Jarā接合而成,就让他叫做Jarāsandha(jarāsandha,以“聚合”为名)吧。
2.18.12
सोऽवर्धत महातेजा मागधाधिपतेः सुतः ।
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः ॥ २.१८.१२ ॥
那位摩揭陀之主的大光辉之子成长起来,身材高大,力量充沛,如同被供奉的祭火。
2.18.13
एवं स ववृधे राजन्कुमारः पुष्करेक्षणः ।
लेन महता चापि यौवनस्थो बभूव ह
मातापित्रोर्नन्दकरः शुक्लपक्षे यथा शशी ॥ २.१८.१३ ॥
如是,大王,这位莲花眼的王子随时光成长,长成青年,成为父母的喜悦,如同白半月的月亮。