Mahābhārata · Adhyāya 2.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.19.1
कस्यचित्त्वथ कालस्य पुनरेव महातपाः ।
मगधेषुपजक्राम भगवांश्चण्डकौशिकः ॥ २.१९.१ ॥
After some time, the great ascetic, the venerable Caṇḍakauśika, came again to the land of the Magadhas.
2.19.2
तस्याऽऽगमनसंहृष्टः सामात्यः सपुरः सरः ।
सभार्यः सह पुत्रेण निर्जगाम बृहद्रथः ॥ २.१९.२ ॥
Delighted at his arrival, Bṛhadratha went out with his ministers, the city, the royal household, his wife and his son.
2.19.3
पाद्यार्घ्याचमनीयैस्तमर्चयामास भारत ।
स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत् ॥ २.१९.३ ॥
O Bhārata, the king honored him with water for the feet, the offering and water for sipping, and presented to him his son together with the kingdom.
2.19.4
प्रतिगृह्य च तां पूजां पार्थिवाद्भगवानृषिः ।
उवाच मागधं राजन्प्रहृष्टेनान्तरात्मना ॥ २.१९.४ ॥
Having accepted that honor from the king, the venerable sage spoke to the Magadha king, his inner self gladdened, O king.
2.19.5
सर्वमेतन्मया ज्ञातं राजन्दिव्येन चक्षुषा ।
पुत्रस्तु शृणु राजेन्द्र यादृशोऽयं भविष्यति ॥ २.१९.५ ॥
O king, I have known all this by divine sight. Now hear, O lord of kings, what kind of son this one will be.
2.19.6
अस्य रूपं च सत्वं च बलमूर्जितमेव च ।
एष श्रिया समुदितः पुत्रस्तव न संशयः ॥ २.१९.६ ॥
His form, his nature, and his mighty strength: this son of yours will be endowed with splendor, without doubt.
2.19.7
प्रापयिष्यति तत्सर्वं विक्रमेण समन्वितः ।
अस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः ॥ २.१९.७ ॥
Endowed with valour, he will bring all of this about. The kings will not be able to follow the might of this mighty one.
2.19.8
पततो वैनतेयस्य गतिमन्ये यथा खगाः ।
विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः ॥ २.१९.८ ॥
As other birds cannot withstand the swoop of falling Vainateya (Garuḍa), so those who oppose him will meet destruction.
2.19.9
देवैरपि विसृष्टानि शस्त्राण्यस्य महीपते ।
न रुजं जनयिष्यन्ति गिरेरिव नदीरयाः ॥ २.१९.९ ॥
O lord of the earth, even weapons hurled by the gods will not cause him pain, just as the rushing of rivers does not harm a mountain.
2.19.10
सर्वमूर्धाभिषिक्तानामेव मूर्ध्नि ज्वलिष्यति ।
प्रभाहरोऽयं सर्वेषां ज्योतिषामिव भास्करः ॥ २.१९.१० ॥
Upon the head of every anointed king it will blaze; he is a stealer of splendour among them all, like the sun among all lights.
2.19.11
एनमासाद्य राजानः समृद्धबलवाहनाः ।
विनाशमुपयास्यन्ति शलभा इव पावकम् ॥ २.१९.११ ॥
Kings rich in troops and vehicles, approaching him, will meet destruction like moths that go to the fire.
2.19.12
एष श्रियः समुदिताः सर्वराज्ञां ग्रहीष्यति ।
वर्षास्विवोदीर्णजला नदीर्नदनदीपतिः ॥ २.१९.१२ ॥
He will seize the abundant fortunes of all kings, as the lord of rivers and streams takes in the rivers swollen with rain in the rainy seasons.
2.19.13
एष धारयित सम्यक्चातुर्वर्ण्यं महाबलः ।
शुभां शुभवतीं स्फीतां सर्वसस्यधरां धराम् ॥ २.१९.१३ ॥
This mighty one rightly upholds the fourfold order, and upholds the earth, auspicious and flourishing, bearing every kind of crop.
2.19.14
अस्याज्ञावशगाः सर्वे भविष्यन्ति नराधिपाः ।
सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ॥ २.१९.१४ ॥
All the kings will be subject to his command, as embodied beings are subject to the wind, for he is the self dwelling in all creatures.
2.19.15
एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् ।
सर्वलोकेष्वतिबलः साक्षाद्द्रक्ष्यति मागधः ॥ २.१९.१५ ॥
This mighty Māgadha king shall behold, face to face in all the worlds, Rudra, the great god Hara, destroyer of the three cities.
2.19.16
एवं ब्रुवन्नेव मुनिः स्वकार्यमिव चिन्तयन् ।
विसर्जयामास नृपं बृहद्रथमथारिहन् ॥ २.१९.१६ ॥
Speaking thus, the sage, as though pondering his own purpose, dismissed King Bṛhadratha, the slayer of foes.
2.19.17
प्रविश्य नगरीं चापि ज्ञातिसम्बन्धिभिर्वृतः ।
अभिषिच्य जरासन्धं मगधाधिपतिस्तदा ॥ २.१९.१७ ॥
Entering the city, surrounded by kinsmen and relatives, the lord of Magadha then anointed Jarāsandha.
2.19.18
बृहद्रथो नरपतिः परां निर्वृतिमाययौ ।
अभिषिक्ते जरासन्धे तदा राजा बृहद्रथः।
पत्नीद्वयेनानुगतस्तपोवनचरोऽभवत् ॥ २.१९.१८ ॥
King Bṛhadratha attained supreme peace. When Jarāsandha had been anointed, King Bṛhadratha, accompanied by his two wives, went to live as a dweller in the hermitage forest.
2.19.19
ततो वनस्थे पितरि मातृभ्यां सह भारत ।
जरासन्धः स्ववीर्येण पार्थिवानकरोद्वशे ॥ २.१९.१९ ॥
Then, when their father had gone to live in the forest, O Bhārata, Jarāsandha by his own valour brought the kings under his sway.
2.19.20
अथ दीर्घस्य कालस्य तपोवनचरो नृपः ।
सभार्यः स्वर्गमगमत्तपस्तप्त्वा बृहद्रथः ॥ २.१९.२० ॥
And after a long time, King Bṛhadratha, who dwelt in the ascetic forest, performed austerities and went to heaven together with his wives.
2.19.21
जरासन्धोऽपि नृपतिर्यथोक्तं कौशिकेन तत् ।
वरप्रदानमखिलं प्राप्य राज्यमपालयत् ॥ २.१९.२१ ॥
And King Jarāsandha too, having obtained the complete boon granted as declared by Kauśika, ruled the kingdom.
2.19.22
हते चैव मया कंसे सहंसडिभिके तदा ।
जरासन्धस्य दुहिता रोदते पार्श्वतः पितुः।
जातो वै वैरनिर्बन्धो मयासीत्तत्र भारत ॥ २.१९.२२ ॥
When I had slain Kaṃsa together with Haṃsa and Ḍimbhaka, Jarāsandha's daughter wept beside her father; and then, O Bhārata, a bond of enmity with me arose there.
2.19.23
भ्रामयित्वा शतगुणमेकोनं येन भारत ।
गदा क्षिप्ता बलवता मागधेन गिरिव्रजात् ॥ २.१९.२३ ॥
O Bhārata, the mighty Māgadha, having whirled it ninety-nine times, hurled the mace from Girivraja.
2.19.24
तिष्ठतो मथुरायां वै कुत्स्नस्याद्भुतकर्मणः ।
एकोनयोजनशते सा पपात गदा शुभा ॥ २.१९.२४ ॥
While I, the one of marvellous deeds, was standing in Mathurā, that auspicious mace fell at a distance of ninety-nine yojanas.
2.19.25
दृष्ट्वा पौरैस्तदा सम्यग्गदा चैव निवेदिता ।
गदावसानं तत्ख्यातं मथुरायाः समीपतः ॥ २.१९.२५ ॥
Then the citizens, having seen it, duly reported the mace; that end of the mace became famous near Mathurā.
2.19.26
तस्यास्तां हंसडिभिकावशस्त्रनिधनावुभौ ।
मन्त्रे मतिमतां श्रेष्ठौ नीतिशास्त्रे विशारदौ ॥ २.१९.२६ ॥
By that mace both Haṃsa and Ḍimbhaka were slain without weapons; they were the best of the wise, skilled in counsel and in the science of policy.
2.19.27
यौ तौ मया ते कथितौ पूर्वमेव महाबलौ ।
त्रयस्त्रयाणां लोकानां पर्याप्ता इति मे मतिः ॥ २.१९.२७ ॥
Those two mighty ones I told you of before — in my view they were sufficient for all three worlds.
2.19.28
एवमेष तदा वीर बलिभिः कुकुरान्धकैः ।
वृष्णिभिश्च महाराज नीतिहेतोरुपेक्षितः ॥ २.१९.२८ ॥
Thus, O hero, it was then neglected by the mighty Kukuras, Andhakas and Vṛṣṇis, O great king, for reasons of policy.