Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.20.1

पतितौ हंसडिभिकौ कंसश्च सगणो हतः ।
जरासन्धस्य निधने कालोऽयं समुपागतः ॥ २.२०.१ ॥

哈姆萨与丁菩迦倒下了,羯陈那连同他的随从被杀。耆罗山陀的毁灭之时已经来临。

2.20.2

न शक्योऽसौ रणे जेतुं सर्वैरपि सुरासुरैः ।
प्राणयुद्धेन जेतव्यः स इत्युपलभामहे ॥ २.२०.२ ॥

即使所有天神与阿修罗联合,也无法在战斗中征服他。我们明白,应当以以命相搏之战将他击败。

2.20.3

मयि नीतिर्बलं भीमे रक्षिता चावयोर्जयः ।
मागधं साधयिष्याम इष्टिं त्रय इवाग्नयः ॥ २.२०.३ ॥

我有智谋,毗摩有力量,我们二人相互守护便有胜利。正如三火完成祭祀,我们也将完成对摩揭陀王的诛灭。

2.20.4

त्रिभिरासादितोऽस्माभिर्विजने स नराधिपः ।
न सन्देहो यथा युद्धमेकेनाप्युपयास्यति ॥ २.२०.४ ॥

我们三人在僻静之处接近那位人主时,毫无疑问他会应战,即使只面对我们中的一人。

2.20.5

अवमानाच्च लोभाच्च बाहुवीर्याच्च दर्पितः ।
भीमसेनेन युद्धाय ध्रुवमप्युपयास्यति ॥ २.२०.५ ॥

他因受辱、贪欲以及双臂的力量而自负,必定会与毗摩森那交战。

2.20.6

अलं तस्य महाबाहुर्भीमसेनो महाबलः ।
लोकस्य समुदीर्णस्य निधनायान्तको यथा ॥ २.२०.६ ॥

对付他,有大臂、大力的毗摩森那便足够了,正如死神足以毁灭兴起的世界。

2.20.7

यदि भीमबलं वेत्सि यदि ते प्रत्ययो मयि ।
भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ॥ २.२०.७ ॥

若你知道毗摩的力量,若你信任我,便请速将毗摩先那与阿周那作为寄托交给我。

2.20.8

एवमुक्तो भगवता प्रत्युवाच युधिष्ठिरः ।
भीमार्जुनौ समालोक्य सम्प्रहृष्टमुखौ स्थितौ ॥ २.२०.८ ॥

世尊如此说后,坚战回答,望着站立、面带喜色的毗摩与阿周那。

2.20.9

अच्युताच्युत मामैवं व्याहरामित्रकर्शन ।
पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयम् ॥ २.२०.९ ॥

阿周陀啊,阿周陀啊,不要这样对我说。灭敌者啊,你是般度诸子的主宰,我们依靠于你。

2.20.10

यथा वदसि गोविन्द सर्वं तदुपपद्यते ।
नहि त्वमग्रतस्तेषां येषां लक्ष्मीः पराङ्मुखी ॥ २.२०.१० ॥

哥文陀啊,你所说的都恰当;但那些被吉祥天女背离的人,你不在他们面前。

2.20.11

येषामभिमुखी लक्ष्मीस्तेषां कृष्ण त्वमग्रतः ।
निहतश्च जरासन्धो मोक्षिताश्च महीक्षितः।
राजसूयश्च मे लब्धो निदेशे त्व तिष्ठतः ॥ २.२०.११ ॥

克里希那啊,吉祥天女所眷顾的人,你便站在他们面前。耆罗三陀被杀,诸王得以解脱,我因遵从你的命令而获得了王中祭(罗阇苏耶)。

2.20.12

क्षिप्रमेव यथा त्वेतत्कार्यं समुपपद्यते ।
अप्रमत्तो जगन्नाथ तथा कुरु समुपपद्यते। ॥ २.२०.१२ ॥

请速速使此事成就。世界之主啊,请谨慎行事,使此事得以成就。

2.20.13

त्रिभिर्भवद्भिर्हि विना नाहं जीवितुमुत्सहे ।
धर्मकामार्थरहितो रोगार्त इव दुःखितः ॥ २.२०.१३ ॥

没有你们三人,我不敢活下去;失去法、欲与利,我痛苦得如同身患重病。

2.20.14

न शौरिणा विना पार्थो न शौरिः पाण्डवं विना ।
नाजेयोस्त्यनयोऽर्लोके कृष्णयोरिति मे मतिः ॥ २.२०.१४ ॥

没有Śauri便没有Pārtha,没有Pāṇḍava便没有Śauri;依我之见,世上没有像这两位克里希纳那样不可战胜的人。

2.20.15

अयं च बलिनां श्रेष्ठः श्रीमानपि वृकोदरः ।
युवाभ्यां सहितो वीर किं न कुर्यान्महायशाः ॥ २.२०.१५ ॥

这位狼腹(Vṛkodara)是强者中的翘楚,光辉而享有盛名——英雄啊,与你们二人联手,他还有什么做不到的?

2.20.16

सुप्रणीतो बलौघो हि कुरुते कार्यमुत्तमम् ।
अन्धं बलं जडं प्राहुः प्रणेतव्यं विचक्षणैः ॥ २.२०.१६ ॥

善加统率的军队确能成就最佳之事;人们说,盲目而迟钝的力量须由智者引导。

2.20.17

यतो हि निम्नं भवति नयन्ति हि ततो जलम् ।
यतश्छिद्रं ततश्चापि नयन्ते धीवरा जलम् ॥ २.२०.१७ ॥

哪里低洼,人们便把水引到哪里;哪里有缺口,渔夫也把水引向那里。

2.20.18

तस्मान्नयविधानज्ञं पुरुषं लोकविश्रुतम् ।
वयमाश्रित्य गोविन्दं यतामः कार्यसिद्धये ॥ २.२०.१८ ॥

因此,让我们依托精通治国之术、名闻天下的哥文达,为成就大事而努力。

2.20.19

एवं प्रज्ञानयबलं क्रियोपायसमन्वितम् ।
पुरस्कृर्वीत कार्येषु कृष्णकार्यार्थसिद्धये ॥ २.२०.१९ ॥

如此,应将具备智慧、策略、力量、行动与方法的人置于事务之首,以成就黑天之事。

2.20.20

एवमेव यदुश्रेष्ठ यावत्कार्याथिसिद्धये ।
अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम्।
नयो जयो बलं चैव विक्रमे सिद्धिमेष्यति ॥ २.२०.२० ॥

啊,耶杜之最,如此直到事业成就之前,阿周那应跟随黑天,毗摩应跟随财胜。以策略、胜利、力量与勇武,成功必将到来。

2.20.21

एवमुक्तास्ततः सर्वे भ्रातरो विपुलौजसः ।
वार्ष्णेयः पाण्डवेयौ च प्रतस्थुर्मागधं प्रति ॥ २.२०.२१ ॥

如此说完之后,众位光辉广大的兄弟,以及瓦尔什涅耶(黑天)与般度的两个儿子,便向摩揭陀出发了。

2.20.22

वर्चस्विनां ब्राह्मणानां स्नातकानां परिच्छदैः ।
आच्छाद्य सुहृदां वाक्यैर्मनोज्ञैरभिनन्दिताः ॥ २.२०.२२ ॥

被光辉的婆罗门与学成的毗陀弟子们及其随从所围护,又受到亲友悦耳话语的祝福,他们启程了。

2.20.23

माधवः पाण्डवेयौ च प्रतस्थुर्व्रतधारिणः ।
अमर्षादभितप्तानां ज्ञात्यर्थं मुख्यतेजसाम्।
रविसोमाग्निवपुषां दीप्तमासीत्तदा वपुः ॥ २.२०.२३ ॥

摩陀婆与般度的两个儿子持誓启程。他们因愤怒而灼热,为了亲族,具有最上的光辉,身体如日、月、火,那时他们的身躯光焰熊熊。

2.20.24

इतं मेने जरासन्धं दृष्ट्वा भीमपुरोगमौ ।
एककार्यसमुद्यन्तौ कृष्णौ युद्धेऽपराजितौ ॥ २.२०.२४ ॥

看到以毗摩为首、一心同任一事、在战斗中不可战胜的两位黑天,摩揭陀王(王中)认为此事已成。

2.20.25

ईशौ हितौ महात्मानौ सर्वकार्यप्रवर्तिनौ ।
धर्मकामार्थलोकानां कार्याणां च प्रवर्तकौ ॥ २.२०.२५ ॥

这两位主宰心怀善意、品德高尚,是一切事业的发起者,是法、欲、利诸世界及诸事务的推动者。

2.20.26

कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् ।
रम्यं पद्मसरो गत्वा कालकूडमतीत्य च ॥ २.२०.२६ ॥

他们从库鲁地区出发,穿过库鲁荒原中部,到达可爱的莲花湖,又越过了迦罗古陀。

2.20.27

गण्डकीं च महाशोणं सदानीरां तथैव च ।
एकपर्वतके नद्यः क्रमेणैत्याव्रजन्त ते ॥ २.२०.२७ ॥

他们依次渡过甘达吉河、大舍那河和萨达尼罗河,以及一山地区的诸河。

2.20.28

उत्तीर्य सरयूं रम्यां दृष्ट्वा पूर्वांश्च कोसलान् ।
अतीत्य जग्मुर्मिथिलां मालां चर्मण्वतीं नदीम् ॥ २.२०.२८ ॥

他们渡过美丽的萨罗由河,看到东部的憍萨罗人,便前往弥提拉,越过了摩罗河和金佩瓦提河。

2.20.29

अतीत्य गङ्गां शोणं च त्रयस्ते प्राङ्मुखास्तदा ।
कुशचीरच्छदा जग्मुर्मागधं क्षेत्रमच्युताः ॥ २.२०.२९ ॥

他们渡过恒河和舍那河,三人面向东方,身着吉祥草与树皮衣,于是前往摩揭陀地区,这三位不动摇者。

2.20.30

ते शश्वद्गोधनाकीर्णमम्बुमन्तं शुभद्रुमम् ।
गोरथं गिरिमासाद्य ददृशुर्मागधं पुरम् ॥ २.२०.३० ॥

他们来到常有牛群聚集、水源丰沛、树木秀美的牛车山,看见了摩揭陀的城市。