Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.24.1

ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः ।
उवाच वाग्मी राजानं जरासन्धमधोक्षजः ॥ २.२४.१ ॥

于是决心应战的国王迦罗桑陀,被善辩的、雅度之喜(黑天)阿陀克沙遮所对答。

2.24.2

त्रयाणां केन ते राजन्योद्धुमुत्सहते मनः ।
अस्मदन्यतमेनेह सज्जीभवतु को युधि ॥ २.२४.२ ॥

国王啊,你的心愿与我们三人中的哪一个交战?让我们之中的某一人在此准备好战斗吧。

2.24.3

एवमुक्तः स नृपतिर्युद्धं वव्रे महाद्युतिः ।
जरासन्धस्ततो राजा भीमसेनेन मागधः ॥ २.२४.३ ॥

被如此询问后,那位大光辉的国王、摩揭陀人迦罗桑陀,选择了与毗摩先那交战。

2.24.4

धारयन्तं गदां दिव्यां बलं श्रुत्वा च निर्वृतः ।
अर्जुन वासुदेवं च वजर्यित्वा स मागधः ॥ २.२४.४ ॥

那位手持神杖、听闻自身力量而心满意足的摩揭陀王,排除了阿周那与婆苏提婆。

2.24.5

मत्वा देवं गोप इति बालोऽर्जुन इति स्म ह ।
आदाय रोजनां माल्यं मङ्गल्यान्यपराणि च ॥ २.२४.५ ॥

他把神当作牧牛人,把阿周那当作少年,于是拿起了罗遮那花环和其他吉祥之物。

2.24.6

धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च ।
उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ॥ २.२४.६ ॥

家族祭司手持主要的山岳、安宁与吠陀,走近渴望战斗的迦罗桑陀。

2.24.7

कृतस्वस्त्ययनो राजा ब्राह्मणेन यशस्विना ।
समनह्यज्जरासन्धः क्षात्रं धर्ममनुस्मरन् ॥ २.२४.७ ॥

国王遍陀(Jarāsandha)在著名婆罗门主持吉祥仪式后,记起刹帝利之法,便披甲备战。

2.24.8

अवमुच्य किरीटं स केशान्समनुमृज्य च ।
दतिष्ठज्जरासन्धो वेलातिग इवार्णवः ॥ २.२४.८ ॥

遍陀取下王冠,理顺头发,屹立如越过岸边的大海。

2.24.9

उवाच मतिमान्राजा भीमं भीमपराक्रमः ।
भीम योत्स्ये त्वया सार्धं श्रेयसा निर्जितं वरम् ॥ २.२४.९ ॥

智慧而勇猛的国王对婆罗门(按上下文应为对)毗摩说:“毗摩,我将与你交战;为了福祉,获胜最为可贵。”

2.24.10

एवमुक्त्वा जरासन्धो भीमसेनमरिन्दमः ।
प्रत्युद्ययौ महातेजाः शक्रं बल इवासुरः ॥ २.२४.१० ॥

说罢,制敌而大有光辉的遍陀向毗摩塞那迎去,如同阿修罗钵罗迎战因陀罗。

2.24.11

ततः संमन्त्र्य कृष्णेन कृतस्वस्त्ययनो बली ।
भीमसेनो जरासन्धमाससाद युयुत्सया ॥ २.२४.११ ॥

随后,毗摩塞那与黑天商议,行吉祥仪式后,怀着战斗之心走向遍陀。

2.24.12

ततस्तौ नरशार्दूलौ बाहुशस्त्रौ समीयतुः ।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥ २.२४.१२ ॥

于是,这两位以双臂为武器的人中猛虎,英雄们满怀喜悦,各自渴望战胜对方,便相遇交锋。

2.24.13

करग्रहणपूर्वं तु कृत्वा पादाभिवन्दनम् ।
कक्षैः कक्षां विधुन्वानावास्फोटं तत्र चक्रतुः ॥ २.२४.१३ ॥

二人先执手,互拜足,然后腋下相抵摇动,在那里击掌。

2.24.14

स्कन्धे दोर्भ्यां समाहत्य निहत्य च मुहुर्मुहुः ।
अङ्गमङ्गैः समाश्लिष्य पुनरास्फालनं च चक्रतुः। ॥ २.२४.१४ ॥

以双臂击打肩膀,一次又一次地击倒,身体相拥,又再次拍击手臂。

2.24.15

चित्रहस्तादिकं कृत्वा सस्फुलिङ्गेन चाशनिम् ।
गलगण्डाभिघातेन सस्फुलिङ्गेन चाशनिम् ॥ २.२४.१५ ॥

施展精巧的手法等,如带火花的雷霆,击打咽喉与面颊,又如带火花的雷霆。

2.24.16

बाहुपाशादिकं कृत्वा पादाहतशिरावुभौ ।
उरोहस्तं ततश्चक्रे पूर्णकुम्भौ प्रयुज्य तौ ॥ २.२४.१६ ॥

施展臂索等技,二人头部被脚踢中,然后施展胸前与手的擒拿,二人如盛满的瓮。

2.24.17

करसम्पीडनं कृत्वा गर्जन्तौ वारणाविव ।
नर्दन्तौ मेघसङ्काशौ बाहुप्रहरणावुभौ ॥ २.२४.१७ ॥

以手施压,二人如二象咆哮,如云般轰鸣,以双臂为武器。

2.24.18

तलेनाहन्यमानौ तु अन्योन्यं कृतवीक्षणौ ।
सिंहाविव सुसंङ्क्रुद्धावाकृष्याकृष्य युध्यताम् ॥ २.२४.१८ ॥

被掌击,彼此对视,如两头极度愤怒的狮子,一次又一次地拖拽着搏斗。

2.24.19

अङ्गेनाङ्गं समापीड्य बाहुभ्यामुभयोरपि ।
आवृत्य बाहुभिश्चापि उदरं च प्रचक्रतुः ॥ २.२४.१९ ॥

二人以自己的肢体紧压对方的肢体,各以双臂环抱对方,也紧紧缠住了腹部。

2.24.20

उभौ कट्यां सुपार्श्वे तु तक्षवन्तौ च शिक्षितौ ।
अधो हस्तं स्वकण्ठे तूदरस्योरसि चाक्षिपत् ॥ २.२४.२० ॥

二人皆受过训练且技艺娴熟,在腰部和两侧抓握;一人从下方伸手压向自己的颈项,又从腹部向胸口发出一击。

2.24.21

सर्वातिक्रान्तमर्यादं पृष्ठभङ्गं च चक्रतुः ।
सम्पूर्णमूर्च्छां बाहुभ्यां पूर्णकुम्भं प्रचक्रतुः ॥ २.२४.२१ ॥

二人打破一切规矩,施展折背之技;以双臂施展完全昏厥之技与满瓮之技。

2.24.22

तृणपीडं यथाकामं पूर्णयोगं समुष्टिकम् ।
एवमादीनि युद्धानि प्रकुर्वन्तौ परस्परम् ॥ २.२४.२२ ॥

碾草之技、随意之技、完全相接之技,并以拳击;如此等类的其他搏斗之技,二人彼此施展。

2.24.23

तयोर्युद्धं ततो द्रष्टुं समेताः पुरवासिनाः ।
ब्राह्मणा वणिजश्चैव क्षत्रियाश्च सहस्रशः ॥ २.२४.२३ ॥

于是城中百姓相聚观看他们的搏斗:婆罗门、商人与刹帝利,成千上万。

2.24.24

शूद्राश्च नरशार्दूल स्त्रियो वृद्धाश्च सर्वशः ।
निरन्तरमभूत्तत्र जनौघैरभिसंवृतम् ॥ २.२४.२४ ॥

人中之虎啊!首陀罗、妇女与老人,各色人等也都来了;那地方被人群密密围住,毫无空隙。

2.24.25

तयोरथ भुजाघातान्निग्रहप्रग्रहात्तथा ।
आसीत्सुभीमसम्पातो वज्रपर्वतयोरिव ॥ २.२४.२५ ॥

随后,二人以臂膀相击,相互抓持拉扯,发生了如雷杵撞击山岳般的可怖冲突。

2.24.26

उभौ परमसंहृष्टौ बलेन बलिनां वरौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥ २.२४.२६ ॥

二人都极为振奋,是强者中的翘楚,彼此寻找破绽,都想战胜对方。

2.24.27

शिरोभिरिव तौ मेषौ वृक्षैरिव निशाचरौ ।
पदैरिव शुभावश्वौ तुण्डाभ्यां तित्तिरी इव ॥ २.२४.२७ ॥

二人用头犹如公羊相抵,用树木犹如夜游罗刹,用脚犹如骏马,用喙犹如鹧鸪。

2.24.28

तद्भीममुत्सार्य जनं युद्धमासीदुपप्लवे ।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥ २.२४.२८ ॥

大王,于是驱散可怖的人群,在混乱之中,这二位强者的搏斗如同伐咤罗与婆娑婆(因陀罗)之战。

2.24.29

प्रकर्षणाकर्षणाभ्यामनुकर्षविकर्षणैः ।
आचकर्षतुरन्योन्यं जानुभिश्चावजघ्नतुः ॥ २.२४.२९ ॥

二人相互猛拽、牵扯、来回拖拉,并以膝盖撞击对方。

2.24.30

ततः शब्देन महता भर्त्सयन्तौ परस्परम् ।
पाषाणसङ्घातनिभैः प्रहारैरभिजघ्नतुः ॥ २.२४.३० ॥

随后,在巨响之中相互辱骂,以如石堆般的重击互相攻击。

2.24.31

ततो भीमं जरासन्धो जघानोरसि मुष्टिना ।
भीमोषि तं जरासन्धं वक्षस्यभिजघान ह ॥ २.२४.३१ ॥

于是遮罗桑陀以拳击中毗摩的胸膛。毗摩也击中了遮罗桑陀的胸膛。

2.24.32

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
बाहुभिः समसज्जोतामायसैः परिघैरिव ॥ २.२४.३२ ॥

二人胸膛宽阔、双臂修长,都精于摔跤,以手臂相撞,如同铁棒相击。

2.24.33

कार्तिकस्य तु मासस्य प्रवृत्तं प्रथमेऽहनि ।
तदा तद्युद्धमभवद्दिनानि दश पञ्च च।
अनाहारं दिवारात्रमविश्रान्तमवर्तत ॥ २.२४.३३ ॥

迦尔提迦月的第一天,战斗开始了。那场战斗持续了十五天,日夜不停,没有食物,也没有休息。

2.24.34

तद्वृत्तं तु त्रयोदश्यां समवेतं महात्मनोः ।
चतुर्दश्यां निशायां तु निवृत्तो मागधः क्लमात् ॥ २.२४.३४ ॥

两位伟大灵魂的那场搏斗一直持续到第十三天。第十四天夜里,摩揭陀王因疲惫而退下。

2.24.35

तं राजानं तथा क्लान्तं दृष्ट्वा राजञ्जनार्दनः ।
उवाच भीमकर्माणं भीमं सम्बोधयन्निव ॥ २.२४.३५ ॥

大王啊!克里希纳见那国王如此疲惫,便对行事可怖的毗摩说话,仿佛要唤醒他。

2.24.36

क्लान्तः शत्रुर्हि कौन्तेय शक्यः पीडयितुं रणे ।
पीड्यमानो हि कार्त्स्न्येन जह्याज्जीवितमात्मनः ॥ २.२४.३६ ॥

贡蒂之子啊,疲惫的敌人在战斗中确实可以被逼迫;若被完全逼迫,他会舍弃自己的性命。

2.24.37

तस्मात्तेऽद्यैव कौन्तेय पीडनीयो जनाधिपः ।
सममेतेन युध्यस्व बाहुभ्यां भरतर्षभ ॥ २.२४.३७ ॥

因此,昆蒂之子啊,你今日就应当压制这位君王。婆罗多族的雄牛啊,请与他势均力敌地用你的双臂作战。

2.24.38

एवमुक्तःस कृष्णेन पाण्डवः परवीरहा ।
जरासन्दस्य तद्रन्ध्रं ज्ञात्वा चक्रे मतिं वधे ॥ २.२४.३८ ॥

克里希那如此说后,那位斩杀敌方英雄的般度子知道了耆罗散陀的那个弱点,便决意将他诛杀。

2.24.39

ततस्तमजितं जेतुं जरासन्दं वृकोदरः ।
संरम्भाद्बलिनां श्रेष्ठो जग्राह कुरुनन्दनः ॥ २.२४.३९ ॥

于是,为了战胜那位不可战胜的耆罗散陀,强者中的翘楚、库鲁之喜的狼腹(比玛)愤怒地将他抓住。