摩诃婆罗多 · 章 2.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.25.1
भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् ।
बुद्धिमास्थाय विपुलां जरासन्धवधोप्सया ॥ २.२५.१ ॥
于是怖军对欢喜于耶度族的黑天说道,怀着杀死羯罗桑陀的愿望,坚定了宏大的决心。
2.25.2
नायं पापो मया कृष्ण युक्तः स्यादनुरोधितुम् ।
प्रायेण यदुशार्दूल बान्धवक्षयकृत्तव ॥ २.२५.२ ॥
黑天啊,我不应当去劝说这个罪人。耶度族的虎王啊,这通常会导致你亲族的毁灭。
2.25.3
एवमुक्तस्ततः कृष्णः प्रत्युवाच वृकोदरम् ।
त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया ॥ २.२५.३ ॥
黑天这位人中虎王听后回答怖狼腹,急于杀死羯罗桑陀。
2.25.4
यत्ते दैवं परं सत्वं यच्च ते मातरिश्वनः ।
बलं भीमं जरासन्धे दर्शयाशु तदद्य वै ॥ २.२५.४ ॥
你那神圣的至高力量,以及你身中摩多利溯(风神)之力——怖军啊,今日便迅速将此力量施加于羯罗桑陀之上。
2.25.5
तवैष वध्यो दुर्बुद्धिर्जरासन्धो महारथः ।
इत्यन्तरिक्षे त्वश्रौषं यदा वायुरवाप्यते ॥ २.२५.५ ॥
「这个心怀恶念的羯罗桑陀,大战车手,应由你杀死」——我在空中听到这话,当风被获得之时。
2.25.6
गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः ।
बलदेवबलं प्राप्य कोऽन्यो जीवेत्तु मागधात् ॥ २.२५.६ ॥
在最殊胜的哥曼塔山上,此人被谁所释放——得到大力罗摩之力,除他之外,还有谁能从摩揭陀王手中活下来?
2.25.7
तदस्य मृत्युर्विहितस्त्वदृते न महाबल ।
वायुं चिन्त्य महाबाहो जहीमं मगधाधिपम् ॥ २.२५.७ ॥
大力者啊,除你之外,他的死亡并未注定。大臂者啊,思念风神,杀死这位摩揭陀之王吧。
2.25.8
एवमुक्तस्ततो भीमो मनसाऽऽचिन्त्य मारुतम् ।
जनार्दनं नमस्कृत्य परिष्वज्य च फल्गुनम् ॥ २.२५.८ ॥
被如此告知后,怖军在心中思念风神;向阇那陀那礼拜,并拥抱了法尔古那。
2.25.9
प्रभञ्जनबलाविष्टो जरासन्धमरिन्दमः ।
उत्क्षिप्य भ्रामयामास बलवन्तं महाबलः ॥ २.२५.९ ॥
充满风之力量的那位制服敌人的大力者,将强大的遮罗山陀高举起来并使其旋转。
2.25.10
भ्रामयित्वा शतगुणं जानुभ्यां भरतर्षभ ।
बभञ्ज पृष्टं सङ्क्षिप्य निष्पिष्य विननाद च ॥ २.२५.१० ॥
婆罗多之雄牛啊,他将其旋转一百次,在膝上折断其背,将其压缩碾碎,然后怒吼。
2.25.11
करे गृहीत्वा चरणं द्विधा चक्रे महाबलः ।
तस्य निष्पिष्यमाणस्य पाण्डवस्य च गर्जतः ॥ २.२५.११ ॥
那位大力者用手抓住他的一条腿,将其劈成两半,此时他正被碾碎,而般度之子在吼叫。
2.25.12
अभवत्तुमुलो नादः सर्वप्राणिभयङ्करः ।
वित्रेसुर्मागधाः सर्वे स्त्रीणां गर्भाश्च सुस्रुवुः ॥ २.२५.१२ ॥
一阵骚乱的巨响升起,令一切众生惊骇;所有摩揭陀人都惊恐,妇女的胎儿也都堕落了。
2.25.13
भीमसेनस्य नादेन जरासन्धस्य चैव ह ।
किं नु स्याद्धिमवान्भिन्नः किंनुस्विद्दीर्यते मही ॥ २.२५.१३ ॥
是因为毗摩那与阇罗僧伽的吼声,喜马拉雅山裂开了吗?还是大地本身正在崩裂?
2.25.14
इति वै मागधा जज्ञुर्भीमसेनस्य निखनात् ।
ततस्तु भगवान्कृष्णो जरासन्धजिघांसया ॥ २.२५.१४ ॥
如此,摩揭陀人以为那是毗摩那的击打声。于是世尊克里希那,想要杀死阇罗僧伽,
2.25.15
भीमसेनं समालोक्य नलं जग्राह पाणिना ।
द्विधा चिच्छेद वै तत्तु जरासन्धवधं प्रति ॥ २.२५.१५ ॥
他看着毗摩那,用手拿起一根芦苇,将其劈成两半,以示阇罗僧伽将被杀死。
2.25.16
ततस्त्वाज्ञाय तस्यैव पादमुत्क्षिप्य मारुतिः ।
द्विधा बभञ्ज तद्गात्रं प्राक्षिपद्विननाद च ॥ २.२५.१६ ॥
于是,摩嘞帝(毗摩)领会此意,抬起脚,将其身体折为两段,抛掷而去,并发出吼声。
2.25.17
पुनः सन्धाय तु तदा जरान्धः प्रतापवान् ।
भीमेन च समागम्य बाहुयुद्धं चकार ह ॥ २.२५.१७ ॥
此时,威猛的阇罗僧伽重新接合,与毗摩相遇,展开了臂力之战。
2.25.18
तयोः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
सर्वलोकक्षयकरं सर्वभूतभयावहम् ॥ २.२५.१८ ॥
二人之间爆发了一场激烈而令人毛骨悚然的战斗,毁灭一切世界,令一切众生恐惧。
2.25.19
पुनः कृष्णस्तमिरिणं द्विधा विच्छिद्य माधवः ।
व्यत्यस्य प्राक्षिपत्तत्तु जरासन्धवधेप्सया ॥ २.२५.१९ ॥
随后,摩图之后裔黑天将那个伊利那一劈为二,并为了杀死遮罗山陀,将两半交叉抛出。
2.25.20
भीमसेनस्तदा ज्ञात्वा निर्बिभेद च मागधम् ।
द्विधा व्यत्यस्य पादेन प्राक्षिपच्च ननाद ह ॥ २.२५.२० ॥
于是毗摩森那明白了此事,撕裂了摩揭陀王,将他劈为两半,用脚交叉踢开,并发出吼声。
2.25.21
शुष्कमांसास्थिमेदस्त्वग्भिन्नमस्तिष्कपिण्डकटः ।
शवभूतस्तदा राजन्पिण्डीकृत इवाबबौ ॥ २.२५.२१ ॥
他干枯的肉、骨、脂与皮,头骨和脑团都已破碎,成了一具尸体;大王啊,那时他看起来仿佛被捏成了一团。
2.25.22
ततो राज्ञः कुलद्वारि प्रसुप्तमिव तं नृपम् ।
रात्रौ गतासुमुत्सृज्य निश्चक्रमुररिन्दमाः ॥ २.२५.२२ ॥
随后,那些制伏敌人的英雄离开了那位王——他像睡着一般躺在王宫门口,却在夜里已经气绝——便走了出去。
2.25.23
जरासन्धरथं कृष्णो योजयित्वा पताकिनम् ।
आरोप्य भ्रातरौ चैव मोक्षयामास बान्धवान् ॥ २.२५.२३ ॥
黑天套上遮罗山陀那辆悬挂旗幡的战车,让两位兄弟登上,并释放了亲族。
2.25.24
ते वै रत्नुभुजं कृष्णं रत्नार्हं पृथिवीश्वराः ।
राजानं चक्ररासाद्य मोक्षिता महतो भयात् ॥ २.२५.२४ ॥
那些大地之主摆脱了巨大的恐惧,走近了臂饰珠宝、配得珠宝的黑天,并拥立他为王。
2.25.25
अक्षतः शस्त्रसम्पन्नो जितारिः सह राजभिः ।
रथमास्थाय तं दिव्यं निर्जगाम गिरिव्रजात् ॥ २.२५.२५ ॥
他毫发无伤、武器齐备,战胜了敌人,与诸王一同登上那辆神车,从吉里伐罗阇城驶出。
2.25.26
यः स सोदर्यवान्नाम द्वियोधी कृष्णसारथिः ।
अभ्यासघाती सन्दृश्यो दुर्जयः सर्वराजभिः ॥ २.२५.२६ ॥
此人名为索达利耶梵,能与二人同时作战,以黑天为御者,近身击打,显赫醒目,为诸王所不可战胜。
2.25.27
भीमार्जुनाभ्यां योधाभ्यामास्थितः कृष्णसारथिः ।
शुशुभे रथवर्योऽसौ दुर्जयः सर्वधन्विभिः ॥ २.२५.२७ ॥
那辆最上乘的战车,由两位勇士毗摩与阿周那乘坐,黑天为御者,光彩夺目,为诸弓手所不可战胜。
2.25.28
शक्रविष्णू हि सङ्ग्रामे चेरतुस्तारकामये ।
रथेन तेन वै कृष्ण उपारुह्य ययौ तदा ॥ २.२५.२८ ॥
因陀罗与毗湿奴确曾在与塔拉卡的战斗中驰骋;黑天登上那辆战车,便随即向前驶去。
2.25.29
एवमेतौ महाबाहू तदा दुष्करकारिणौ ।
कृष्णप्रणीतौ लोकेऽस्मिन्नथे को द्रष्टुमर्हति ॥ २.२५.२९ ॥
如此,那两位大臂英雄当时行了难以做到的事;在此世间,被黑天引领的他们,谁能正视?
2.25.30
इत्यवोचन्व्रजन्तं तं जरासन्धपुरालयाः ।
वासुदेवं नरश्रेष्ठं युक्तं वातजवैर्हयैः ॥ २.२५.३० ॥
于是,耆罗僧陀城的居民谈论着那位人中之最、瓦苏提婆,他正启程,驾着疾如风的骏马。
2.25.31
तप्तचामीकराभेण किङ्किणीजालमालिना ।
मेघनिर्घोषनादेन जैत्रेणामित्रघातिना ॥ २.२५.३१ ॥
闪耀如熔金,系着叮当铃网,声如雷鸣的云层,胜利而摧毁敌人。
2.25.32
येन शक्रो दानवानां जघान नवतीर्नव ।
तं प्राप्य समहृष्यन्त रथं ते पुरुषर्थभाः ॥ २.२५.३२ ॥
因慧于此车,因陀罗曾杀死九十九个檀那婆;得到此车,那些人中雄牛大为欢喜。
2.25.33
ततः कृष्णं महाबाहुं भ्रातृभ्यां सहितं तदा ।
रथस्थं मागधा दृष्ट्वा समपद्यन्त विस्मिताः ॥ २.२५.३३ ॥
那时,摩揭陀人看见大臂的黑天与两位兄弟站在车上,都感到惊异。
2.25.34
हयैर्दिव्यैः समायुक्तो रथो वायुसमो जवे ।
अधिष्ठितः स शुशुभे कृष्णेनातीव भारत ॥ २.२५.३४ ॥
这辆车以神马驾御,速度如风,黑天立于其上,极为光耀,婆罗多之子啊。
2.25.35
असङ्गो देवविहितस्तस्मिन्रथवरे ध्वजः ।
योजनाद्ददृशे श्रीमानिन्द्रायुधसमप्रभः ॥ २.२५.३५ ॥
在这辆殊胜的车上,由诸神所设、无所阻碍的光耀旗帜,如因陀罗弓般闪耀,从一由旬之外便可望见。
2.25.36
चिन्तयामास कृष्णोऽथ गरुत्मन्तं स चाभ्ययात् ।
क्षणे तस्मिन्स तेनासीच्चैत्यवृक्ष इवोत्थितः ॥ २.२५.३६ ॥
于是黑天想起迦卢达,他便来到;刹那间他立于那旗幡之上,仿佛神圣的支提树从上面生长而起。
2.25.37
व्यादितास्यैर्महानादैः सह भूतैर्ध्वजालयैः ।
तस्मिन्रथवरे तस्थौ गुरुत्मान्पन्नगाशनः ॥ २.२५.३७ ॥
张开大口、发出巨响的、栖居于旗帜中的众生与之同在,食蛇者迦鲁达立于那辆殊胜的战车之上。
2.25.38
दुर्निरीक्ष्यो हि भूतानां तेजसाऽऽभ्याधिकं बभौ ।
आदित्य इव मध्याह्ने सहस्रकिरणावृतः ॥ २.२५.३८ ॥
众生难以逼视,它以光辉格外闪耀,如正午被千道光芒环绕的太阳。
2.25.39
न सज्जति वृक्षेषु शस्त्रैश्चापि न रिष्यते ।
दिव्यो ध्वजवरो राजन्दृश्यते चेह मानुषैः ॥ २.२५.३९ ॥
它不挂于树木,亦不因兵器而受损。大王啊,此神圣殊胜的旗帜在此为人所见。
2.25.40
तमास्थाय रथं दिव्यं पर्जन्यसमनिः स्वनम् ।
निर्ययौ पुरुषव्याघ्रः पाण्डवाभ्यां सहाच्युतः ॥ २.२५.४० ॥
他登上那雷鸣般轰响的神圣战车,人中猛虎阿求陀与两位般度子一同出发。
2.25.41
यं लेभे वासवाद्राजा वसुस्तस्माद्बृहद्रथः ।
बृहद्रथात्क्रमेणैव प्राप्तो बार्हद्रथो रथम् ॥ २.२५.४१ ॥
国王婆苏从因陀罗(Vāsava)处所得之车,由他传给Bṛhadratha,再从Bṛhadratha依次传给Bṛhadratha之子,得此战车。
2.25.42
स निर्याय महाबाहुः पुण्डरीकेक्षणस्ततः ।
गिरिव्रजाद्बहिस्तस्थौ समदेशे महायशाः ॥ २.२५.४२ ॥
他从那里出发,这位大臂、莲花眼、大名声者,站在Girivraja之外的一处平地上。
2.25.43
तत्रैनं नागराः सर्वे सत्कारेणाभ्ययुस्तदा ।
ब्राह्मणप्रमुखा राजन्विधिदृष्टेन कर्मणा ॥ २.२५.४३ ॥
城中所有居民,以婆罗门为首,那时便怀着敬意前来迎接他,大王,依照规定的仪礼而行。
2.25.44
बन्धनाद्विप्रमुक्ताश्च राजानो मधुसूदनम् ।
पूजयामासुरूचुश्च स्तुतिपूर्वमिदं वचः ॥ २.२५.४४ ॥
从囚禁中获释的诸王礼敬摩图苏陀那,并以赞颂开头说出了这些话。
2.25.45
नैतच्चित्रं महाबाहो त्वयि देवकिनन्दने ।
भीमार्जुनबलोपेते धर्मस्य प्रतिपालनम् ॥ २.२५.४५ ॥
大臂者啊,提婆吉之子,你具有毗摩与阿周那的力量,守护正法——这在你身上并不奇怪。
2.25.46
जरासन्धह्रदे घोरे दुःखपङ्के निमज्जताम् ।
राज्ञां समभ्युद्धरमं यदिदं कृतमद्य वै ॥ २.२५.४६ ॥
从耆罗山陀的可怕湖泊中,从悲苦的泥淖中沉没的诸王得到了完全的拯救——这确实今天已经完成。
2.25.47
विष्णो समवसन्नानां गिरिदुर्गे सुदारुणे ।
दिष्ट्या मोक्षाद्यशो दीप्तमाप्तं ते यदुनन्दन ॥ २.२५.४७ ॥
毗湿奴啊,因解救了困于那可怕山城中的人们,耶度之子啊,你幸运地获得了光辉的名声。
2.25.48
किं कर्मः पुरुषव्याघ्र शाधि नः प्रणतिस्थितान् ।
कृतमित्येव तद्विद्वि नृपैर्ययद्यपि दुष्करम् ॥ २.२५.४८ ॥
人中之虎啊,请命令我们这些恭敬站立者,还有何事要做;请知道此事已经完成,尽管对诸王而言这是困难的。
2.25.49
तानुवाच हृम्पीकेशः समाश्चास्य महामनाः ।
यिधिष्ठिरो राजसूयं क्रतुमार्हतुमिच्छति ॥ २.२५.४९ ॥
大心的渊主(黑力西盖莎)安慰他们后说道:坚战想要举行王祭(拉贾苏耶)。
2.25.50
तस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।
सर्वैर्भवद्भिर्विज्ञाय साहाय्यं क्रियतामिति ॥ २.२५.५० ॥
你们都应知道,他遵行法(达摩),想要成就王权,应当给予帮助。
2.25.51
ततः सुप्रीतमनसस्ते नृपा नृपसत्तम ।
तथेत्येवाब्रुवन्सर्वे प्रतिगृह्यास्य तां गिरम् ॥ २.२५.५१ ॥
于是,那些心中欢喜的诸王,王中最优秀者啊,接受了他的话,都说:就这样吧。
2.25.52
रत्नभाजं च दाशार्हं चक्रुस्ते पृथिवीश्वराः ।
कृच्छ्राञ्जग्राह गोविन्दस्तेषां तदनुकम्पया ॥ २.२५.५२ ॥
那些地上的王者让达沙尔哈分享珍宝,而戈温达出于对他们的怜悯,勉强接受了。
2.25.53
जरासन्धात्मजश्चैव सहदेवो महामनाः ।
निर्ययौ सजनामात्यः पुरस्कृत्य पुरोहितम् ॥ २.२५.५३ ॥
大心的沙诃提婆(Sahadeva),即苏罗迦散之子,与他的随从和大臣一起出发,让祭司走在前面。
2.25.54
स नीचैः प्रणतो भूत्वा बहुरत्नपुरोगमः ।
सहदेवो नृणां देवं वासुदेवमुपस्थितः ॥ २.२५.५४ ॥
他低首致敬,将许多珍宝置于面前,来到人中之神婆苏提婆(Vāsudeva)跟前——沙诃提婆。
2.25.55
भयार्ताय ततस्तस्मै कृष्णो दत्त्वाऽभयं तदा ।
आददेऽस्य महार्हाणि रत्नानि पुरुषोत्तमः ॥ २.२५.५५ ॥
于是,黑天赐予这个惊恐者安全,取走了他极为珍贵的宝石,那位人中至尊。
2.25.56
यत्कृतं पुरुषव्याघ्र मम पित्रा जनार्दन ।
तत्ते हृदि महाबाहो न कार्यं पुरुषोत्तम ॥ २.२५.५६ ॥
人中之虎,生主啊,我父所为,大臂者、人中至尊啊,请勿放在心上。
2.25.57
त्वां प्रपन्नोऽस्मि गोविन्द प्रासदं कुरु मे प्रभो ।
पितुरिच्छामि संस्कारं कर्तुं देवकिनन्दन ॥ २.२५.५७ ॥
瞿频陀,我已投靠你。主啊,请赐恩于我。提婆吉之子,我想为父亲举行葬礼。
2.25.58
त्वत्तोऽभ्यनुज्ञां सम्प्राप्य भीमसेनात्तथार्जुनात् ।
निर्भयो विचरिष्यामि यथाकामं यथासुखम् ॥ २.२५.५८ ॥
得到你以及毗摩娑那和阿周那的许可后,我将无畏地漫游,随心所欲,安乐自在。
2.25.59
एवं विज्ञाप्यमानस्य सहदेवस्य मारिष ।
प्रहृष्टो देवकीपुत्रः पाण्डवै च महारथौ ॥ २.२५.५९ ॥
尊者啊,当偕提婆如此请求时,提婆吉之子欢喜,与般度子们一起,那两位大车战士也欢喜。
2.25.60
क्रियतां संस्क्रिया राजन्पितुस्त इति चाब्रुवन् ।
तच्छ्रुत्वा वासुदेवस्य पार्थयोश्च स मागधः ॥ २.२५.६० ॥
他们说:“请为你的父亲举行葬礼吧,大王。”摩揭陀王听到黑天与二位普利塔之子的这番话后。
2.25.61
प्रविश्य नगरं तूर्णं सह मन्त्रिभिरप्युत ।
चितां चन्दनकाष्ठैश्च कालेयसरलैस्तथा ॥ २.२५.६१ ॥
与大臣们一同迅速进入城中,用檀香木以及迦利耶木和萨罗罗木堆起了柴堆。
2.25.62
कालागरुसुनगन्धैश्च तैलैश्च विविधैरपि ।
घृतधाराशतैश्चैव सुमनोभिश्च भारत ॥ २.२५.६२ ॥
婆罗多啊,用名贵的沉香与各种香料、多种油脂、数百道酥油之流,也用美丽的花朵。
2.25.63
समन्तादेव कीर्यन्तोऽदहन्त मगधाधिपम् ।
उदकं तस्य चक्रेऽथ सहदेवः सहानुजः ॥ २.२५.६३ ॥
他们从四面八方撒下柴火,焚烧了摩揭陀之主;随后,偕同幼弟的萨诃提婆为他举行了献水之礼。
2.25.64
कृत्वा पितुः स्वर्गगतिं निर्ययौ यत्र केशवः ।
पाण्डवौ च महाभागौ भीमसेनार्जुनावुभौ ॥ २.२५.६४ ॥
为父亲完成升天之礼后,他们前往克沙瓦所在之处;大福的般度五子,怖军与阿周那二人也一同前往。
2.25.65
स प्रह्वः प्राञ्जलिर्भूत्वा व्यज्ञापयत माधवम् ।
इमे रत्नानि भूरिणी गोजाविमहिषादयः ॥ २.२५.६५ ॥
他恭敬地合掌向摩陀婆禀告:“这些宝物,大量的牛、山羊、绵羊、水牛等等。”
2.25.66
हस्तिनोऽश्वाश्च गोविन्द वासांसि विविधानि च ।
दीयतां धर्मराजाय यथा वा मन्यते भवान् ॥ २.२५.६६ ॥
象、马,以及各种衣物,啊,戈文达;请把它们交给法王,或者按您认为恰当的方式处理。
2.25.67
भयार्ताय ततस्तस्मै कृत्वा कृष्णोऽभयं तदा ।
अभ्यषिञ्चत राजानं सहदेवं जनार्दनः ॥ २.२५.६७ ॥
于是,克里希那·遮那陀那赐予这位惊惧之人无畏,随即为萨诃提婆行灌顶,立他为王。
2.25.68
मागधानां महीपालं जरासन्धात्मजं तदा ।
आददे च महार्हाणि रत्नानि पुरुषोत्तमः ॥ २.२५.६८ ॥
于是,人中至尊接受了摩揭陀的守护王、阇罗桑陀之子所献的贵重珠宝。
2.25.69
गत्वैकत्वं स कृष्णेन पार्थाभ्यां चापि सत्कृतः ।
विवेश मतिमान्त्राजा पुनर्बार्हद्रथं पुरम् ॥ २.२५.६९ ॥
这位明智的国王与克里希那及普利塔的两个儿子结盟,并受到他们的尊敬,随后重新进入了巴尔哈德拉塔的城市。
2.25.70
पार्थाभायं सहितः कृष्णः सर्वैश्च वसुधाधिपैः ।
यथावयः समागम्य विससर्ज नराधिपान् ॥ २.२५.७० ॥
克里希那与阿周那及所有大地之主会合,依年长次序聚集众王,然后将他们遣散。
2.25.71
विसृज्य सर्वान्नृपतीन्राजसूये महात्मभिः ।
आगन्तव्यं भवद्भिश्च धर्मराजप्रियेप्सुभिः। ॥ २.२५.७१ ॥
诸位大德遣散所有国王后说道:“你们这些希望得到法王欢心的人,务必前来参加拉贾苏雅祭。”
2.25.72
एवमुक्ता माधवेन सर्वे ते वसुधाधिपाः ।
एवमस्त्विति चाप्युक्त्वा समेताः परया मुदा ॥ २.२५.७२ ॥
摩陀婆如此说后,所有大地之主都说:“就这样吧。”便满怀至上的喜悦聚集而来。
2.25.73
भीमार्जुनहृषीकेशैः प्रहृष्टाः प्रययुस्तदा ।
रत्नान्यादाय भूरीणी ज्वलन्तो रिपुसूदनाः ॥ २.२५.७३ ॥
在毗摩、阿周那和黑氏(克里希那)的欢喜中,他们当时启程,带着许多珍宝,是敌人的毁灭者,光芒闪耀。
2.25.74
कृष्णस्तु सह पार्थाभ्यां श्रिया परमया युतः ।
रत्नान्यादाय भूरिणी प्रययौ पुरुषर्षभः ॥ २.२५.७४ ॥
至上光辉的人中之杰克里希那,与普利塔之子同行,带着许多珍宝出发。
2.25.75
इन्द्रप्रस्थमुपागम्य पाण्डवाभ्यां सहाच्युतः ।
समेत्य धर्मराजानं प्रीयमाणोऽभ्यभाषत ॥ २.२५.७५ ॥
与般度之子一同抵达因陀罗普拉斯塔,不朽者会见了法王,欢喜地对他说道。
2.25.76
दिष्ट्या भीमेन बलवाञ्जरासन्धो निपातितः ।
राजानो मोक्षिताश्चेमे बन्धनान्नृपसत्तम ॥ २.२५.७६ ॥
幸运的是,强大的摩伽陀王遭毗摩击倒,这些国王从囚禁中获释,哦,诸王中最优秀者。
2.25.77
दिष्ट्या कुशलिनौ चेमौ भीमसेनधनञ्जयौ ।
पुनः स्वनगरं प्राप्तावक्षताविति भारत ॥ २.२५.७७ ॥
幸运的是,这两位毗摩森那与达那闍耶安然无恙、毫发无伤地回到了自己的城市,哦,婆罗多之子。
2.25.78
ततो युधिष्ठिरः कृष्णं पूजयित्वा यथार्हतः ।
भीमसेनार्जुनौ चैव प्रहृष्टः परिषस्वजे ॥ २.२५.७८ ॥
于是坚战按照礼数尊敬克里希那,并欢喜地拥抱了毗摩森那与阿周那。
2.25.79
ततः क्षीणे जरासन्धे भ्रातृभ्यां विहितं जयम् ।
अजातशत्रुरासाद्य मुमुदे भ्रातृभिः सह ॥ २.२५.७९ ॥
于是,檀荼(耆罗三德)被消灭后,无敌者坚战获得了两位兄弟所成就的胜利,与兄弟们一同欢喜。
2.25.80
हृष्टश्च धर्मराड्वाक्यं जनार्दनमभाषत ।
त्वां प्राप्य पुरुषव्याघ्र भीमसेनेन पातितः ॥ २.२५.८० ॥
法王欢喜地对生主(克里希那)说:“人中之虎啊,正是因为得到了你,怖军才将他击倒。”
2.25.81
मागधोऽसौ बलोन्मत्तो जरासन्धः प्रतापवान् ।
राजसूयं क्रतुश्रेष्ठं प्राप्स्यामि विगतज्वरः ॥ २.२५.८१ ॥
那位摩揭陀王耆罗三德(Jarāsandha)因力量而狂妄、威势显赫,如今已不在;我将无忧无虑,获得最殊胜的祭祀——王祭(Rājasūya)。
2.25.82
त्वद्बुद्धिबलमाश्रित्य यागार्होऽस्मि जनार्दन ।
पीतं पृथिव्याः क्रुद्धेन यशस्ते पुरुषोत्तम ॥ २.२५.८२ ॥
依靠你的智慧与力量,我已配得上祭祀,啊生主(Janārdana)。啊人中最尊贵者,你的名声——那愤怒者曾饮尽大地的名声——
2.25.83
जरासन्धवधेनैव प्राप्तास्ते विपुलाः श्रियः ।
एवं सम्भाष्य कौन्तेयः प्रादाद्रथवरं प्रभोः ॥ २.२५.८३ ॥
正因诛杀了耆罗三德,你才获得了广大的福德与财富。”说罢,昆提之子将一辆殊胜的战车赠予了主(克里希那)。
2.25.84
प्रतिगृह्य तु गोविन्दो जरासन्धस्य तं रथम् ॥ २.२५.८४ ॥
坚持在接受耆罗三德的那辆战车之后——
2.25.85
प्रहृष्टस्तस्य मुमुदे फल्गुनेन जनार्दनः ।
प्रीतिमानभवद्राजन्धर्मराजपुरस्कृतः ॥ २.२५.८५ ॥
遮那陀那与法尔古那同欢喜。大王啊,他受法王尊敬,心中充满了慈爱。
2.25.86
यथावयः समागम्य भ्रातृभिः सह पाण्डवः ।
सत्कृत्य पूजयित्वा च विससर्ज नराधिपान् ॥ २.२५.८६ ॥
般度之子依年长幼与诸弟相会,尊敬并供养诸王,然后遣散了这些人主。
2.25.87
युधिष्ठिराभ्यनुज्ञातास्ते नृपा हृष्टमानसाः ।
जग्मुः स्वदेशांस्त्वरिता यानैरुच्चावचैस्ततः ॥ २.२५.८७ ॥
得到坚战的允许后,那些国王心怀喜悦,急速乘坐各式车乘返回了自己的国土。
2.25.88
एवं पुरुषशार्दूलो महाबुद्धिर्जनार्दनः ।
पाण्डवैर्घातयामास जरासन्धमरिं तदा ॥ २.२५.८८ ॥
如此,大智的人中猛虎遮那陀那,便让般度诸子杀死了敌人那罗桑陀。
2.25.89
घातयित्वा जरासन्धं बुद्धिपूर्वमरिन्दमः ।
धर्मराजमनुज्ञाप्य पृथां कृष्णां च भारत ॥ २.२५.८९ ॥
婆罗多之裔啊,遮那陀那故意使罗桑陀被杀,然后征得法王同意,并向贡蒂与黑公主告辞。
2.25.90
सुभद्रां भीमसेनं च फाल्गुनं यमजौ तथा ।
धौम्यमामन्त्रयित्वा च प्रययौ स्वां पुरीं प्रति ॥ २.२५.९० ॥
他又向妙贤、怖军、法尔古那、阎摩之双生子及陀摩多别,然后启程奔向自己的城市。
2.25.91
पाण्डवैरनुधावद्भिर्युधिष्ठिरपुरोगमैः ।
हर्षेण महता युक्तः प्राप्य चानुत्तमं यशः।
जगाम हृष्टः कृष्णस्तु पुनर्द्वारवतीं पुरीम् ॥ २.२५.९१ ॥
般度五子在坚战率领下随后相送,克里希那心怀大喜,获得了无上的荣誉,欢欣地再次前往德瓦拉瓦蒂城。
2.25.92
तेनैव रथमुख्येन मनसस्तुल्यगामिना ।
धर्मराजविसृष्टेन दिव्येनानादयन्दिशः ॥ २.२५.९२ ॥
乘着那辆如意念般迅疾、由法王派遣的殊胜神车,震响四方。
2.25.93
ततो युधिष्ठिरमुखाः पाण्डवा भरतर्षभ ।
प्रदक्षिणमकुर्वन्त कृष्णमक्लिष्टकारिणम् ॥ २.२५.९३ ॥
于是,婆罗多族的雄牛啊,般度五子在坚战率领下绕行右旋,礼敬那不费力而行事的克里希那。
2.25.94
ततो गते भगवति कृष्णे देवकिनन्दने ।
जयं लब्ध्वा सुविपुलं राज्ञां दत्त्वाऽभयं तदा ॥ २.२५.९४ ॥
此后,尊贵的德瓦基之子克里希那离去,他获得了极大的胜利,并当时赐予诸王无畏。
2.25.95
संवर्धितं यशो भूयः कर्मणा तेन भारत ।
द्रौपद्याः पाण्डवा राजन्परां प्रीतिमवर्धयन् ॥ २.२५.९५ ॥
因那件事业,名声再度增长,婆罗多啊;大王,般度五子对德罗波蒂的深情也更加浓厚。
2.25.96
तस्मिन्काले तु यद्युक्तं धर्मकामार्थसंहितम् ।
तद्राजा धर्मतश्चक्रे प्रजापालनकीर्तनम् ॥ २.२५.९६ ॥
彼时,凡合乎法、欲与利的,国王依法而行,宣扬保护百姓的美名。