摩诃婆罗多 · 章 2.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.26.1
ऋषेस्तद्वचनं स्मृत्वा निशश्वास युधिष्ठिरः ।
धर्म धर्मभृतां श्रेष्ठः कर्तुमिच्छन्परन्तपः। ॥ २.२६.१ ॥
想起仙人的话语,持法者中最优秀、令敌人痛苦的坚战深深叹息,想要履行法。
2.26.2
तस्येङ्गितज्ञो बीभत्सुः सर्वशस्त्रभृतां वरः ।
संविवर्तयिषुः कामं पावकात्पाकशासनिः ॥ २.२६.२ ॥
精通一切兵器的最优秀者毗婆特苏(阿周那)理解了他的暗示,想要实现从火神处得到的愿望,因陀罗之子(上前)。
2.26.3
प्राप्तं प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी ।
रथं ध्वजं सभां चैव युधिष्ठिरमभाषत ॥ २.२६.३ ॥
他获得了殊胜的弓、两个取之不尽的大箭囊、战车、旗帜和议事厅后,便对坚战说道。
2.26.4
धनुरस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् ।
प्राप्तमेतन्मया राजन्दुष्प्रापं यदभीप्सितम् ॥ २.२६.४ ॥
弓、兵器、箭、勇力、援助、土地、名声与力量——大王啊,那难以获得而所求之物,我都已得到。
2.26.5
तस्य कृत्यमहं मन्ये कोशस्य परिवर्धनम् ।
करमाहारयिष्यामि राज्ञः सर्वान्नृपोत्तम ॥ २.२६.५ ॥
我认为其责任在于充实国库;王中最优秀者啊,我将从所有国王那里取来贡赋。
2.26.6
विजयाय प्रयास्यामि दिशं धनदपालिताम् ।
तिथावथ मुहूर्ते च नक्षत्रे चाभिपूजिते ॥ २.२६.६ ॥
为了胜利,我将在吉祥的太阴日、良辰与尊奉的星宿之下,前往财神(俱毗罗)所护佑的方向。
2.26.7
धनञ्जयवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।
स्निग्धगम्भीरनादिन्यां तं गिरा प्रत्यभाषत ॥ २.२६.७ ॥
法王坚战听了阿周那的话,以温和深沉的声音回答他。
2.26.8
स्वस्ति वाच्यार्हतो विप्रान्प्रयाहि भरतर्षभ ।
दुर्हृदामप्रहर्षाय सुहृदां नन्दनाय च ॥ २.२६.८ ॥
婆罗多中的雄牛啊,为有德的婆罗门祝福“吉祥”后启程吧,使敌人沮丧,使朋友欢喜。
2.26.9
विजयस्ते ध्रुवं पार्थ प्रियं काममवाप्स्यसि ।
इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः ॥ २.२६.९ ॥
普利塔之子啊,胜利必定属于你,你将得到你所爱的心愿。如此说完,普利塔之子在大军的簇拥下出发了。
2.26.10
अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ।
तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ ॥ २.२६.१० ॥
阿周那乘着火神所赠、行事奇妙的神车出发;同样,毗摩森和两位孪生兄弟——人中雄牛——也出发了。
2.26.11
ससैन्याः प्रययुः सर्वे धर्मराजेन पूजिताः ।
दिशं धनपतेरिष्टामजयत्पाकशासनिः ॥ २.२६.११ ॥
在法王的尊敬下,众人各自率领军队出发;因陀罗之子(阿周那)征服了财神俱毗罗所喜爱的方向。
2.26.12
भीमसेनस्तथा प्राचीं सहदेवस्तु दक्षिणाम् ।
प्रतीचीं नकुलो राजन्दिशं व्यजयतास्त्रवित् ॥ २.२६.१२ ॥
毗摩森征服了东方,偕提婆征服了南方;大王啊,精通武艺的那库拉征服了西方。
2.26.13
खाण्डवप्रस्थमध्यस्थो धर्मराजो युधिष्ठिरः ।
आसीत्परमया लक्ष्म्या सुहृद्गणवृतः प्रभुः ॥ २.२६.१३ ॥
居于祭陀瓦普拉斯塔中心的法王坚战,拥有至高的荣耀,被众多友人环绕,是那位主宰者。