Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.28.1

एवमुक्तः प्रत्युवाच भगदत्तं धनञ्जयः ।
अनेनैव कृतं सर्वं भविष्यत्यनुजानता ॥ २.२८.१ ॥

被如此说后,财富征服者回答婆伽达多:"在您的允许下,这一切都将由您所完成。"

2.28.2

तं विजित्य महाबाहुः कुन्तीपुत्रो धनञ्जयः ।
प्रययावुत्तरां तस्माद्दिशं धनदपालिताम् ॥ २.२८.२ ॥

征服了他之后,大臂的昆提之子财富征服者便从那里向由财神(俱毗罗)守护的北方出发。

2.28.3

अन्तर्गिरिं च कौन्तेयस्तथैव च बहिर्गिरिम् ।
तथैवोपगिरं चैव विजिग्ये पुरुषर्षभः ॥ २.२८.३ ॥

昆提之子,人中之牛,同样征服了内山、外山以及附属之山。

2.28.4

विजित्य पर्वतान्सर्वान्ये च तत्र नराधिपाः ।
तान्वशे स्थापयित्वा स धनान्यादाय सर्वशः ॥ २.२८.४ ॥

征服了所有山区及当地的诸王,使他们臣服于己,他便取得了各种财富。

2.28.5

तैरेव सहितः सर्वैरनुरज्य च तान्नुपान् ।
उलूकवासिनं राजन्बृहन्तमुपजग्मिवान् ॥ २.२८.५ ॥

与他们全体同行,赢得了那些国王的敬爱,大王,他前往居于乌卢迦之地的布哈塔。

2.28.6

मृदङ्गवरनादेन रथनेमिस्वनेन च ।
हस्तिनां च निनादेन कम्पयन्वसुधामिमाम् ॥ २.२८.६ ॥

以上好的鼓声、车轮的轰鸣和象群的嘶吼,震动着这大地。

2.28.7

ततो बृहन्तस्त्वरितो बलेन चतुरङ्गिणा ।
निष्क्रम्य नगरात्तस्माद्योधयामास फाल्गुनम् ॥ २.२८.७ ॥

于是布利哈塔急忙率四军从那座城中出来,与法尔古那交战。

2.28.8

सुमहान्सन्निपातोऽभूद्धनञ्जयबृहन्तयोः ।
न शशाक बृहन्तस्तु सोढुं पाण्डवविक्रमम् ॥ २.२८.८ ॥

丹阇耶与布利哈塔之间发生了激烈的冲突,但布利哈塔无法承受般度之子的勇力。

2.28.9

सोऽविषह्यतमं मत्वा कौन्तेयं पर्वतेश्वरः ।
उपावर्तत दुर्धर्षो रत्नान्यादाय सर्वशः ॥ २.२८.९ ॥

那位山王认为贡提之子不可抵挡,便取了各种宝物而回转。

2.28.10

स तद्राज्यमवस्थाप्य उलूकसहितो ययौ ।
सेनाबिन्दुमथो राजन्राज्यादाशु समाक्षिपत् ॥ २.२८.१० ॥

他安置好那个王国后,与乌卢迦一同离去;然后,王啊,他迅速将森那滨杜逐出了王国。

2.28.11

मोदापुरं वामवेदं सुदामानं सुसङ्कुलम् ।
उलूकानुत्तरांश्चैव तांश्च राज्ञः समानयत् ॥ २.२८.११ ॥

他将摩陀普罗、婆摩吠陀、人口稠密的苏达玛那、乌卢迦人以及北方人民,还有那些国王,都聚集了起来。

2.28.12

तत्रस्थः पुरुषैरेव धर्मराजस्य शासनात् ।
किरीटी जितवान्राजन्देशान्पञ्चगणांस्ततः ॥ २.२८.१२ ॥

他留在那里,依法王的命令,仅凭部下之力,王啊,那位冠者(阿周那)随后征服了五部族的各地。

2.28.13

स देवप्रस्थमासाद्य सेनाबिन्दोः पुरं प्रति ।
बलेन चतुरङ्गेण निवेशमकरोत्प्रभुः ॥ २.२८.१३ ॥

主君抵达提婆普拉斯塔,以四军之力朝森那宾杜之城扎营。

2.28.14

स तैः परिवृतः सर्वैर्विष्वगश्वं नराधिपम् ।
अभ्यगच्छन्महातेजाः पौरवं पुरुषर्षभ ॥ २.२८.१४ ॥

大光辉者,人中雄牛,被众人围绕,朝着四面皆有马匹的波卢瓦王前进。

2.28.15

विजित्य चाहवे शूरान्पार्वतीयान्महारथान् ।
जिगाय सेनया राजन्पुरं पौरवरक्षितम् ॥ २.२८.१५ ॥

大王啊,他在战中击败了山居的英雄大车将,又以军队攻取了由波卢瓦人守卫的城市。

2.28.16

पौरवं युधि निर्जित्य दस्यून्पर्वतवासिनः ।
गणानुत्सवसङ्केतानजयत्सप्त पाण्डवः ॥ २.२८.१६ ॥

般度之子在战中击败波卢瓦人后,又征服了以节庆为信号的七个山居盗匪部族。

2.28.17

ततः काश्मीरकान्वीरान्क्षत्रियान्क्षत्रियर्षभः ।
व्यजयल्लोहितं चैव मण्डलैर्दशभिः सह ॥ २.२८.१७ ॥

随后,刹帝利中的雄牛征服了克什米尔的勇猛刹帝利,又连同十个同盟圈征服了罗希塔人。

2.28.18

ततस्त्रिगर्ताः कौन्तेयं दार्वाः कोकनदास्तथा ।
क्षत्रिया बहवो राजन्नुपावर्तन्त सर्वशः ॥ २.२८.१८ ॥

大王啊,随后三伽尔塔、达尔瓦、科迦那达以及众多刹帝利从四面八方向贡蒂之子臣服。

2.28.19

अभिसारीं ततो रम्यां विजिग्ये कुरुनन्दनः ।
उरगावासिनं रम्यं रोचमानं रणेऽजयत् ॥ २.२८.१९ ॥

随后,俱卢族的喜悦者征服了可爱的阿毗沙利;在战斗中,他征服了光辉可爱的、居于蛇界的罗遮摩那。

2.28.20

ततः सिंहपुरं रम्यं चित्रायुधसुरक्षितम् ।
प्राधमद्बलमास्थाय पाकशासनिराहवे ॥ २.२८.२० ॥

随后,因陀罗之子率军在战斗中袭击了由支陀罗遮陀罗守护的可爱城市狮城。

2.28.21

ततः सुह्यांश्च चोलांश्च किरीटी पाण्डवर्षभः ।
सहितः सर्वसैन्येन प्रामथत्कुरुनन्दनः ॥ २.२८.२१ ॥

随后,般度族中的雄牛、俱卢族的喜悦者基利提,率全军摧毁了苏希耶人与朱罗人。

2.28.22

ततः परमविक्रान्तो बाह्लीकान्पाकशासनिः ।
महता परिमर्देन वशे चक्रे दुरासदान् ॥ २.२८.२२ ॥

随后,极为勇猛的因陀罗之子以巨大的碾压之力,将难以接近的巴利迦人降服于己。

2.28.23

गृहीत्वा तु बलं सारं फल्गुनः पाण्डुनन्दनः ।
दरदान्सहकाम्भोजैरजयत्पाकशासनिः ॥ २.२८.२३ ॥

取军中精锐,般度之子法尔古那(阿周那),因陀罗之子,与甘菩阇人一同征服了达罗陀人。

2.28.24

प्रागुत्तरं दिशं ये च वसन्त्याश्रित्य दस्यवः ।
निवसन्ति वने ये च तान्सर्वानजयत्प्रभुः ॥ २.२८.२४ ॥

凡居于东北方并依托之而居的达修人,以及居于森林中的人,主人将他们全部征服。

2.28.25

लोहान्परमकाम्भोजानृषिकानुत्तरानपि ।
सहितांस्तान्महाराज व्यजयत्पाकशासनिः ॥ २.२८.२५ ॥

大王啊,帝释之子(阿周那)将洛诃人、至上的迦operator部落、利西迦人以及北方的其他民族一并征服了。

2.28.26

ऋषिकेष्वपि सङ्ग्रामे बभूवातिभयङ्करः ।
तारकामयसङ्काशः परस्त्वृषिकपार्थयोः ॥ २.२८.२६ ॥

与利西迦人的战斗中,他也变得极为可怖;如同摧毁性的铁制武器,在利西迦人与帕尔塔人之间,他最为恐怖。

2.28.27

स विजित्य ततो राजन्नृषिकान्रणमूर्धनि ।
शुकोदरसमांस्तत्र हयानष्टौ समानयत् ॥ २.२८.२७ ॥

大王啊,他在阵前战胜利西迦人后,从那里带回了八匹如同舒科达拉的马。

2.28.28

मयूरसदृशानन्यानुत्तरानपरानपि ।
जवनानाशुगांश्चैव करार्थं समुपानयत् ॥ २.२८.२८ ॥

他还作为贡品带来了其他如孔雀般的马、北方的其他马,以及迅捷快跑的马匹。

2.28.29

स विनिर्जित्य सङ्ग्रामे हिमवन्तं सनिष्कृटम् ।
श्वेतपर्वतमासाद्य न्यविशत्पुरुषर्षभः ॥ २.२८.२९ ॥

那位人中雄牛在战斗中彻底取胜后,抵达了带有峰顶的喜马拉雅,并进入了白山。