摩诃婆罗多 · 章 2.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.30.1
एतस्मिन्नेव काले तु भीमसेनोऽपि वीर्यवान् ।
धर्मराजमनुज्ञाप्य ययौ प्राचीं दिशं प्रति ॥ २.३०.१ ॥
与此同时,勇猛的怖军也向法王告辞,朝东方出发了。
2.30.2
महता बलचक्रेण परराष्ट्रावमर्दिना ।
हस्त्यश्वरथपूर्णेन दंशितेन प्रतापवान्। ॥ २.३०.२ ॥
率领庞大的军队——它能摧毁敌国,满载象、马与战车——身披铠甲的勇士出发了。
2.30.3
वृतो भरतशार्दूलो द्विषच्छोकविवर्धनः ।
स गत्वा नरशार्दूलः पञ्चालानां पुरं महत् ॥ २.३०.३ ॥
被众人簇拥的婆罗多族之虎、令敌人悲伤倍增的人中之雄,前往般遮罗的大城。
2.30.4
पञ्चालान्विविधोपायैः सान्त्वयामास पाण्डवः ।
किञ्चित्करं समादाय विदेहानां पुरं ययौ
ततः स गण्डकाञ्शूरो विदेहान्भरतर्षभः ॥ २.३०.४ ॥
般度之子以种种方法安抚般遮罗人,收取少量贡物,前往毗提诃人的城市。随后,这位婆罗多族中的雄牛英雄又前往甘达卡人与毗提诃人之地。
2.30.5
विजित्याल्पेन कालेन दशार्णानजयत्प्रभुः ।
तत्र दाशार्णको राजा सुधर्मा रोमहर्षणम्।
कृतवान्भीमसेनेम महद्युद्धं निरायुधम्। ॥ २.३०.५ ॥
这位统帅不久便取胜,征服了十河人。在那里,十河国王苏达尔摩与怖军展开了一场令人毛骨悚然的大战,双方都未持兵器。
2.30.6
भीमसेनस्तु तद्दृष्ट्वा तस्य कर्म महात्मनः ।
अधिसेनापतिं चक्रे सुधर्माणं महाबलम् ॥ २.३०.६ ॥
怖军见那位大德者的功绩,便任命强大的苏达尔摩为总司令。
2.30.7
ततः प्राचीं दिशं भीमो ययौ भीमपराक्रमः ।
सैन्येन महता राजन्कम्पयन्निव मेदिनीम् ॥ २.३०.७ ॥
于是以威武勇猛著称的怖军向东方前进,大王啊,他率领庞大的军队,仿佛要震动大地。
2.30.8
सोऽश्वमेधेश्वरं राजन्रोचमानं सहानुगम् ।
जिगाय समरे वीरो बलेन बलिनां वरः ॥ २.३०.८ ॥
大王啊,那位英雄,强者中的翘楚,在战场上以力量战胜了光辉的马祭主宰及其随从。
2.30.9
स तं निर्जित्य कौन्तेयो नातितीव्रेण कर्मणा ।
पूर्वदेशं महावीर्यं विजिग्ये कुरनन्दनः ॥ २.३०.९ ॥
战胜他之后,贡蒂之子,俱卢族的欢喜者,大力者,不用过于严厉的手段,征服了东方之地。
2.30.10
ततो दक्षिणमागम्य पुलिन्दनगरं महत् ।
सुकुमारं वशे चक्रे सुमित्रं च नराधिपम् ॥ २.३०.१० ॥
随后向南而行,他将强大的补林陀城置于控制之下,并且征服了苏库玛拉与人主苏弥特罗。
2.30.11
ततस्तु धर्मराजस्य शासनाद्भरतर्षभः ।
शिशुपालं महावीर्यमभ्यगाज्जनमेजय ॥ २.३०.११ ॥
于是,依法王之命,婆罗多中的雄牛向大力的希苏帕拉进发,啊,阇那梅阇耶。
2.30.12
चेदिराजोऽपि तच्छ्रुत्वा पाण्डवस्य चिकीर्षितम् ।
उपनिष्कम्य नगरात्प्रत्यगृह्णात्परन्तप ॥ २.३०.१२ ॥
闻知般度子的意图,车底王也走出城外,以礼相迎,啊,敌人的征服者。
2.30.13
तौ समेत्य महाराज कुरुचेदिवृषौ तदा ।
उभयोरात्मकुलयोः कौशलं पर्यपृच्छताम् ॥ २.३०.१३ ॥
大王啊,那时库卢与切第两位雄牛相遇,互相询问彼此家族的安好。
2.30.14
ततो निवेद्य तद्राष्ट्रं चेदिराजो विशाम्पते ।
उवाच भीमं प्रहसन्किमिदं कुरुषेऽनघ। ॥ २.३०.१४ ॥
随后,众生之主啊,切第王献出了自己的国土,笑着对毗摩说:“无垢者啊,你这是在做什么?”
2.30.15
तस्य भीमस्तदाचख्यौ धर्मराजचिकीर्षितम् ।
स च तं प्रतिगृह्यैव तथा चक्रे नराधिपः ॥ २.३०.१५ ॥
于是毗摩向他宣告了法王的心愿,那位人主接受后便照此去做了。
2.30.16
ततो भीमस्तत्र राजन्निषित्वा त्रिदशाः क्षपाः ।
सत्कृतः शिशुपालेन ययौ सबलवाहनः ॥ २.३०.१६ ॥
随后,大王啊,毗摩在那里停留了三十个夜晚,受到尸首波罗的盛情款待,然后带着军队和车骑离去。