摩诃婆罗多 · 章 2.34
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.34.1
सहदेवस्ततो राजा मन्त्रिभिः सह भारत ।
सम्प्रधार्य महाबाहुः सचिवैर्बुद्धिमत्तरैः ॥ २.३४.१ ॥
婆罗多之子啊,于是大臂王萨诃提婆与大臣们以及最有智慧的谋士共同商议。
2.34.2
स विचार्य तदा राजन्सहदेवस्त्वरान्वितः ।
चिन्तयामास राजेन्द्र भ्रातुः पुत्रं घटोत्कचम् ॥ २.३४.२ ॥
国王啊,萨诃提婆经过思量,急切地,诸王之主啊,想起了兄长之子迦托迦恰。
2.34.3
ततश्चिन्तितमात्रे तु राक्षसः प्रत्यदृश्यत ।
अतिदीर्घो महाबाहु सर्वाभरणभूषितः ॥ २.३४.३ ॥
随着他的念想,一位罗刹出现了,身材极高,大臂,装饰着一切饰物。
2.34.4
नीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः ।
विचित्रहारकेयूरः किङ्किणीमणिभूषितः ॥ २.३४.४ ॥
他如同蓝黑色的雷云,戴着炽热的金耳环,佩着斑斓的项链与臂钏,以铃铛和宝石装饰。
2.34.5
हेममाली महादंष्ट्रः किरीटी कुक्षिबन्धनः ।
ताम्रकेशो हरिश्मश्रुर्भीमाङ्गः कटकाङ्गदः ॥ २.३४.५ ॥
他佩戴金花环,獠牙巨大,戴着冠冕,腹部系着腰带,发色如铜,胡须呈黄褐色,形貌可怖,戴着手镯与臂钏。
2.34.6
रक्तचन्दनदिग्धाङ्गः सूक्ष्माम्बरधरो बली ।
बलेन स ययौ तत्र चालयन्निव मेदिनीम् ॥ २.३४.६ ॥
他的肢体涂着红檀香,身穿细软衣裳,这位强壮者以其力量前往那里,仿佛要撼动大地。
2.34.7
ततो दृष्ट्वा जना राजन्नायान्तं पर्वतोपमम् ।
भयाद्धि दुद्रुवुः सर्वे सिंहात्क्षुद्रमृगा यथा ॥ २.३४.७ ॥
国王啊,众人看见他如山岳般走来,都因恐惧而逃散,如同小鹿遇见狮子一般。
2.34.8
आससाद च माद्रेयं पुलस्त्यं रावणो यथा ।
अभिवाद्य ततो राजन्सहदेवं घटोत्कचः ॥ २.३४.८ ॥
如罗波那靠近补罗斯蒂耶一般,瞿陀迦起靠近摩德利之子萨哈德瓦;国王啊,他向他致敬之后,
2.34.9
प्रह्वः कृताञ्जलिस्तस्थौ किं कार्यमिति चाब्रवीत् ।
तं परिष्वज्य बाहुभ्यां मूर्ध्न्युपाघ्राय पाण्डवः ॥ २.३४.९ ॥
他躬身合掌站立,问道:“有何事要做?”般杜之子便以双臂拥抱他,并嗅他的头顶。
2.34.10
तं मेरुशिखराकारमागतं पाण्डुनन्दनः ।
पूजयित्वा सहामात्यः प्रीतो वाक्यमुवाच ह ॥ २.३४.१० ॥
般杜之子与大臣们一起敬待这位如须弥山巅般到来的人,心中欢喜,于是说了这些话。
2.34.11
गच्छ लङ्कां पुरीं वत्स करार्थं मम शासनात्॥ ।
तत्र दृष्ट्वा महात्मानं राक्षसेन्द्रं बिभीषणम् ॥ २.३४.११ ॥
孩子,奉我之命前往楞伽城征收贡物。在那里,见到大德的罗刹王毗卑沙…
2.34.12
रत्नानि राजसूयार्थं विविधानि बहूनि च। ॥ २.३४.१२ ॥
为拉贾苏耶祭祀取来种类繁多的大量宝物。
2.34.13
पाण्डवेनैवमुक्तस्तु मुदा युक्तो घटोत्कचः ।
तथेत्युक्त्वा महाराज प्रतस्ये दक्षिणां दिशम् ॥ २.३४.१३ ॥
般度之子如此吩咐后,郭托迦欣然说“就这样吧”,大王啊,他便向南方出发了。
2.34.14
प्रययौ दक्षिणं कृत्वा सहदेवं घटोत्कचः ।
लङ्कामभिमुको राजन्समुद्रं स व्यलोकयत् ॥ २.३४.१४ ॥
郭托迦带着萨哈德瓦在右侧前行;大王啊,他面向楞伽,望见了大海。
2.34.15
कूर्मग्राहझषाकीर्णं मीननक्रैस्तथाऽऽकुलम् ।
शुक्तिव्रातसमाकीर्णं शङ्कानां निचयाकुलम् ॥ २.३४.१५ ॥
大海布满龟、鲨与鱼,满是鱼与鳄鱼,聚集着成群的牡蛎,堆满了海螺。
2.34.16
स दृष्ट्वा रामसेतुं च चिन्तयन्रामविक्रमम् ।
गत्वा पारं समुद्रस्य दक्षिणं स घटोत्कचः ॥ २.३४.१६ ॥
他看见罗摩之桥,思念罗摩的勇武,便渡过大海,到达南岸——郭托迦。
2.34.17
ददर्श लङ्कां राजेन्द्र नाकपृष्ठोपमां शुभाम् ।
प्राकारेणावृतां रम्यां शुभद्वारैश्च शोभिताम् ॥ २.३४.१७ ॥
王中之王啊,他望见楞伽:美如天界之背,四周围着城墙,令人喜悦,并以吉祥的城门为装饰。
2.34.18
प्रासादैर्बहुसाहस्रैः श्वेतरक्तैश्च सङ्कुलाम् ।
दिव्यदुन्दुभिनिर्ह्रादामुद्यानवनशोभिताम् ॥ २.३४.१८ ॥
密集着成千上万座白色与红色的宫殿,回荡着天界鼓的轰鸣,并以园林和树林为装饰。
2.34.19
सर्वकालफलैर्वृक्षैः पुष्पितैरुपशोभिताम् ।
पुष्पगन्धैश्च सङ्कीर्णां रमणीयमहारथाम् ॥ २.३४.१९ ॥
装饰着四季结果、繁花盛开的树木,充满花香,令人喜悦,聚集着大战车武士。
2.34.20
नानारत्नैश्च सम्पूर्णामिन्द्रस्येवामरावतीम् ।
विवेश स पुरीं लङ्कां राक्षसैश्च निषेविताम् ॥ २.३४.२० ॥
他进入了那座楞伽城,城中充满各种珠宝,如同因陀罗的阿摩罗婆提,为罗刹所居住。
2.34.21
उपादाय च सर्वाणि प्रत्यागच्छ महाबल ।
ददर्श स पुरीं लङ्कां राक्षसैश्च निषेविताम्
नानावेषधरान्दक्षान्नारीश्च प्रियदर्शनाः ॥ २.३४.२१ ॥
(他说)拿上一切,回去吧,大力者;他看见了为罗刹所居住的楞伽城,城中有身着各式服饰的能干男子和容貌可爱的女子。
2.34.22
दिव्यमाल्याम्बरधरा दिव्यभूषणभूषिताः ।
मदरक्तान्तनयनाः पीनश्रोणिपयोधराः ॥ २.३४.२२ ॥
身穿天神花环与衣裳,佩戴天界的饰物,因醉意眼角泛红,腰臀丰满,乳房饱满。
2.34.23
भैमसेनिं ततो दृष्ट्वा हृष्टास्ते विस्मयं गताः ।
आससाद गृहं राज्ञ इन्द्रस्य सदनोपमम् ॥ २.३४.२३ ॥
于是,他们看见了毗摩森之子,既欢喜又惊奇,走近了那座如同因陀罗居所的王宫。
2.34.24
स द्वारपालमासाद्य वाक्यमेतदुवाच ह। ॥ २.३४.२४ ॥
他走近守门人,说了这些话。
2.34.26
द्रष्टुमिच्छामि राजेनद्रं त्वं क्षिप्रं मां निवेदय ।
तस्य तद्वचनं श्रुत्वा द्वारपालो महीपते ॥ २.३४.२६ ॥
“我想见王中之王;请速速通报我。”守门人听到他的这番话,啊,大地之主,
2.34.27
तथेत्युक्त्वा विवेशाथ भवनं स निवेदकः ।
प्राञ्जलिः स्रवमाचष्ट स्रवां दूतगिरं तदा ॥ २.३४.२७ ॥
他说了“好”,便进入宫殿,合掌向国王转达了使者的话。
2.34.28
द्वारपालवचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।
उवाच वाक्यं धर्मात्मा समीपं मे प्रवेश्यताम् ॥ २.३४.२८ ॥
守门人的话听罢,行法的罗刹王毗భీ沙那说:“让他来到我面前。”
2.34.29
एवमुक्तस्तु राज्ञा स धर्मज्ञेन महात्मना ।
अथनिष्कम्य सम्भ्रान्तो द्वार्स्थोहैडिम्बमब्रवीत् ॥ २.३४.२९ ॥
知法的大德国王如此吩咐,守门人惊慌地出来,对希迪姆巴之子说道。
2.34.30
एहि दूत नृपं द्रष्टुं क्षिप्रं प्रविश च स्वयम् ।
द्वारपालवचः श्रुत्वा प्रविवेश घटोत्कचः ॥ २.३४.३० ॥
“来吧,使者,快亲自进去见国王。”听了守门人的话,迦托德迦恰进入了。
2.34.31
स प्रविश्य ददर्शाथ राक्षसेन्द्रस्य मन्दिरम् ।
ततः कैलाससङ्काशं तत्पकाञ्चनतोरणम् ॥ २.३४.३१ ॥
他进入后,看见了罗刹王的宫殿。它如同吉罗山,门楼全是精炼的黄金。
2.34.32
प्राकारेण परिक्षिप्तं गोपुरैश्चापि शोभितम् ।
हर्म्यप्रासादसम्बाधं नानारत्नोपशोभितम् ॥ २.३४.३२ ॥
它被城墙环绕,以门楼装饰,布满殿堂与宫苑,并以各色宝石点缀。
2.34.33
काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैरपि ।
वज्रवैडूर्यजुष्टैश्च स्तम्भैश्च सुमनोहरैः ॥ २.३४.३३ ॥
它有金柱、精金柱、水晶柱与银柱,镶嵌金刚石与琉璃,极其华美。
2.34.34
नानाध्वजपताकाभिर्युक्तं मणिविचित्रितम् ।
चित्रमाल्यावृतं रम्यं तप्तकाञ्चनवेदिकम् ॥ २.३४.३४ ॥
它饰有众多旗幡与飘带,镶嵌宝石而斑斓,覆以鲜艳花环,秀美可爱,并有精金祭坛。
2.34.35
स दृष्ट्वा तत्र सर्वं च भैमसेनिर्मनोहरम् ।
प्रविशन्नेव हैडिम्बः शुश्राव मधुरस्वरम् ॥ २.३४.३५ ॥
薄那森之子、希丁巴之子见到那里一切美好之物,刚一进入便听到了悦耳的声音。
2.34.36
तन्त्रीगीतसमाकीर्णं समतालमिताक्षरम् ।
दिव्यदुन्दुभिनिर्ह्रादं वादित्रसततं शुभम् ॥ २.३४.३६ ॥
它充满弦乐的歌唱,合乎节拍与音调、音节有度,回响着天界鼓声,乐器不断奏鸣,吉祥无比。
2.34.37
स श्रुत्वा मधुरं शब्दं प्रीतिमानभवत्तदा ।
ततो विगाह्य हैडिम्बो बहुकक्ष्यां मनोरमाम् ॥ २.३४.३७ ॥
听到那甜美的声音,他随即欣喜。于是希丁巴之子深入那座布满众多厅室的美妙宫殿,
2.34.38
स ददर्श महात्मानं द्वार्स्थेन सह भारत ।
तं विभीषणमासीनं काञ्चने परमासने ॥ २.३४.३८ ॥
婆罗多啊,他与守门人一同看见那位伟大的灵魂——维毗沙那坐在金制的至尊宝座上。
2.34.39
दिवि भास्करसङ्काशं मुक्तामणिविभूषितम् ।
दिव्याभरणचित्राङ्गं दिव्यरूपधरं विभुम् ॥ २.३४.३९ ॥
如天空中的太阳般光辉,饰有珍珠与宝石,肢体因天界饰物而璀璨,身具天界之形——那位威力无比者。
2.34.40
दिव्यमाल्याम्बरधरं दिव्यगन्धोक्षितं शुभम् ।
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम् ॥ २.३४.४० ॥
身着天界花环与衣袍,洒有天界香气,吉祥,身形光辉,具有日与火之光明。
2.34.41
उपोपविष्टं सचिवैर्देवैरिव शतक्रतुम् ।
यक्षैर्महात्मभिर्दिव्यनारीभिर्हृद्यकान्तिभिः ॥ २.३४.४१ ॥
与大臣们同坐于侧,如因陀罗被诸天环绕;周围是伟大的夜叉与容光迷人的天界女子。
2.34.42
गीतैर्मङ्गलयुक्तैश्च पूज्यमानं यथा दिवि ।
चामरे व्यजने चाग्र्ये हेमदण्डे महाधने ॥ २.३४.४२ ॥
如同在天界一般,受吉祥歌声礼敬;其上摇动着金柄的上好、极为珍贵的拂尘与扇子。
2.34.43
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।
अर्चिष्मन्तं श्रिया जुष्टं कुबेरवरुणोपमम् ॥ २.३४.४३ ॥
由两位上佳女子执持,头顶有扇风,光辉灿烂,具足威仪,如同俱毗罗与伐楼那。
2.34.44
धर्मे चैव स्थितं नित्यमद्भुतं राक्षसेस्वरम् ।
राममिक्ष्वाकुनाथं वै स्मरन्तं मनसा सदा ॥ २.३४.४४ ॥
始终安住于达摩的、奇妙的罗刹之主,常以心念想念伊刹婆库之主罗摩。
2.34.45
दृष्ट्वा घटोत्कचो राजन्ववन्दे तं कृताञ्जलिः ।
प्रह्वस्तस्थौ महावीर्यः शक्रं चित्ररथो यथा ॥ २.३४.४५ ॥
大王啊,迦陀迦在见到他后合掌致敬;这位大勇者恭敬地站立,如同持国天在因陀罗面前站立。
2.34.46
तं दूतमागतं दृष्ट्वा राक्षसेन्द्रो विभीषणः ।
पूजयित्वा यथान्यायं सान्त्वपूर्वं वचोऽब्रवीत् ॥ २.३४.४६ ॥
罗刹之主毗比沙那见到前来的使者,依礼款待他,并温和地说了这些话。
2.34.47
कस्य वंशे स सञ्जातः करमिच्छन्महीपतिः ।
तस्यानुजान्समस्तांश्च पुरं देशं च तस्य वै ॥ २.३४.४७ ॥
那位想要索取贡品的君王出生于哪个世系?请告诉我他所有的弟弟,以及他的城市和国家。
2.34.48
त्वां च कार्यं च तत्सर्वं श्रोतुमिच्छामि तत्वतः ।
विस्तरेण मम ब्रूहि सर्वानेतान्पृथक्पृथक् ॥ २.३४.४८ ॥
我想如实听闻你的来历和整件使命。请你将这些一一详细地告诉我。
2.34.49
एवमुक्तस्तु हैडिम्बः पौलस्त्येन महात्मना ।
कृताञ्जलिरुवाचाथ समर्थमिदमुत्तरम् ॥ २.३४.४९ ॥
当大度的波罗斯底耶(毗比沙那)如此询问时,海迪波(迦陀迦)合掌给出了这个恰当的回答。
2.34.50
सोमवंशोद्भवो राजा पाण्डुर्नाम महाबलः ।
पाण्डोश्च पुत्राः पञ्चासञ्छक्रतुल्यपराक्रमाः ॥ २.३४.५० ॥
出生于月亮族的国王般度(Pāṇḍu)是大力之人。般度有五个儿子,其勇力可与因陀罗相比。
2.34.51
तेषां ज्येष्ठस्तु नाम्ना वै युधिष्ठिर इति श्रुतः ।
अजातशत्रुर्धर्मात्मा धर्मो विग्रहवानिव ॥ २.३४.५१ ॥
他们中的长子名叫坚战(Yudhiṣṭhira),被称为无敌之人(Ajātaśatru),心怀正法,仿佛正法本身具有了形体。
2.34.52
ततो युधिष्ठिरो राजा प्राप्य राज्यमकारयत् ।
गङ्गाया दक्षिणे तीरे नगरे नागसाह्वये ॥ २.३४.५२ ॥
此后,国王坚战获得王国,在恒河南岸名为那伽萨婆耶(Nāgasāhvaya)的城市中治理。
2.34.53
तद्दत्वा धृतराष्ट्राय शक्रप्रस्थं ययौ ततः ।
भ्रातृभिः सह राजेन्द्र शक्रप्रस्थेऽन्वमोदत ॥ २.३४.५३ ॥
他将那王国交给持国(Dhṛtarāṣṭra),王中之王啊,然后与兄弟们一同前往因陀罗普拉斯塔(Indraprastha),在那里欢喜度日。
2.34.54
गङ्गायमुनयोर्मध्ये ते उभे नगरोत्तमे ।
नित्यं धर्मे स्थितो राजा शक्रप्रस्थे प्रशास्ति नः ॥ २.३४.५४ ॥
在恒河与阎牟那河之间,有那两座殊胜的城市。永恒安住于正法的国王,在因陀罗普拉斯塔治理我们。
2.34.55
तस्यानुजो महाबाहुर्भीमसेन इति श्रुतः ।
महातेजा महाकीर्तिः शक्रतुल्यपराक्रमः ॥ २.३४.५५ ॥
他的幼弟名叫大臂的怖军(Bhīmasena),光辉赫赫,名声显赫,其勇力可与因陀罗相比。
2.34.56
दशनागसहस्राणां बले तुल्यः स पाण्डवः ।
तस्यानुजोऽर्जुनो नाम महाबलपराक्रमः ॥ २.३४.५६ ॥
那位般度之子的力量等同于一万头象。他的幼弟名叫阿周那,具有大力与大勇。
2.34.57
सुकुमारो महासत्वो लोके वीर्येण विश्रुतः ।
कार्तवीर्यसमो वीर्ये सागरप्रतिमो बले ॥ २.३४.५७ ॥
他虽然柔和,却有大勇之心,以其威力闻名于世;在威力上与迦尔达维里耶相等,在力量上如大海。
2.34.58
जामदग्न्यसमश्चास्त्रे सङ्ख्ये रामसमोऽर्जुनः ।
रूपे शक्रसमः पार्थस्तेजसा भास्करोपमः ॥ २.३४.५८ ॥
在兵器上他与雅摩陀祢之子相等,在战斗中阿周那与罗摩相等。在容貌上,普利塔之子与因陀罗相等;在光辉上如太阳。
2.34.59
देवदानवगन्धर्वैः पिशाचोरगराक्षसैः ।
मानुषैश्च समस्तैस्तु अजेयः फल्गुनो रणे ॥ २.३४.५९ ॥
即使诸天、檀那婆、乾闼婆、毕舍遮、龙蛇、罗刹以及所有人类合力,在战场上也无法战胜富那。
2.34.60
तेन तत्खण्डवं दावं तर्पितं जातवेदसे ।
विजित्य तरसा शक्रं युधि देवगणैः सह ॥ २.३४.६० ॥
他以此满足了迦陀婆,即火神,将那片檀陀婆林的火焚尽奉献;他在战场上迅速战胜了因陀罗及诸天众。
2.34.61
लब्धान्यस्त्राणि दिव्यानि तर्पयित्वा हुताशनम् ।
तेन लब्धा महाराज दुर्लभा दैवतैरपि ॥ २.३४.६१ ॥
他以满足火神阿耆尼之功,获得了神圣的武器。大王啊,他所获得的,即使诸神也难以得到。
2.34.62
वासुदेवस्य भगिनी सुभद्रा नाम विश्रुता ।
अर्जुनस्यानुजो राजन्नकुलश्चेति विश्रुतः ॥ २.३४.६२ ॥
婆苏提婆之妹名叫苏跋德拉,远近闻名;王啊,阿周那的幼弟那古拉也同样闻名。
2.34.63
दर्शनीयतमो लोके मूर्तिमानिव मन्मथः ।
तस्यानुजो महातेजाः सहदेव इति श्रुतः ॥ २.३४.६३ ॥
世间最可爱的人,仿佛化身的爱神;他的幼弟大光明的偕天,同样闻名。
2.34.64
तेनाहं प्रेषितो राजन्कुमारेण समो रणे ।
अहं घटोत्कचो नाम भीमसेनसुतो बली ॥ २.३४.६४ ॥
王啊,我是受那位在战场上与他并驾齐驱的王子所派遣的。我名叫迦陀迦查,是跋摩西那的有力之子。
2.34.65
मम माता महाभागा हिडिम्बा नाम राक्षसी ।
पार्थानामुपकारार्थं चरामि पृथिवीमिमाम् ॥ २.३४.६५ ॥
我的母亲是名叫希丁巴的大福之罗刹女;为了帮助普利塔的儿子们,我在这大地上游历。
2.34.66
आसीत्पृथिव्याः सर्वस्या महीपालो युधिष्ठिरः ।
राजसूयं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे ॥ २.३४.६६ ॥
坚战是整个大地的守护者;他着手举行最殊胜的祭祀——王祭(罗阇苏耶)。
2.34.67
सन्दिदेश च स भ्रातृन्करार्थं सर्वतोदिशम् ।
वृष्णिवीरेण सहितः सन्दिदेशानुजान्नृपः ॥ २.३४.६७ ॥
那位王为征收贡赋,向四方的兄弟们传送消息;他与伐利什尼的英雄一同,向幼弟们发出了命令。
2.34.68
उदीचीमर्जुनस्तूर्णं गत्वा मेरोरथोत्तमः ।
गत्वा शतसहस्राणि योजनानि महाबलः ॥ २.३४.६८ ॥
阿周那迅速向北而去,乃英雄中最优秀者,力量强大。越过须弥山,他行进了数十万由旬。
2.34.69
त्वा सर्वान्नृपान्युद्धे हत्वा च तरसा वशी ।
स्वर्गद्वारमुपागम्य रत्नान्यादाय वै भृशम् ॥ २.३४.६९ ॥
自制的阿周那在战斗中以力量击败了所有国王,抵达天门,取得了大量珍宝。
2.34.70
अश्वांश्च विविधान्दिव्यान्सर्वानादाय फल्गुनः ।
धनं बहुविधं राजन्धर्मपुत्राय वै ददौ ॥ २.३४.७० ॥
大王,阿周那取走所有各种神马,将多种财物献给法之子。
2.34.71
भीमसेनो हि राजेन्द्र जित्वा प्राचीं दिशं बलात् ।
वशे कृत्वा महीपालान्पाण्डवाय धनं ददौ ॥ २.३४.७१ ॥
众王之主啊,怖军以力量征服东方,使诸王臣服,将财物献给般度之子。
2.34.72
दिशं प्रतीचीं नकुलः करार्थं प्रययौ तथा ।
सहदेवो दिशं याम्यां जित्वा सर्वान्महीक्षितः ॥ २.३४.७२ ॥
无种前往西方征收贡物,同样,偕天前往南方,征服了所有国王。
2.34.73
मां सन्दिदेश राजेन्द्र करार्थमिह सत्कृतः ।
पार्थानां चरितं तुभ्यं सङ्क्षेपात्समुदाहृतम् ॥ २.३४.७३ ॥
众王之主啊,他们在此受到礼遇,派我来征收贡物。我已将般度子孙的事迹简要告诉你了。
2.34.74
तमवेक्ष्य महाराज धर्मराजं युधिष्ठिरम् ।
पावनं राजसूयं च भगवन्तं हरिं प्रभुम्।
एतानवेक्ष्य धर्मज्ञ करं दातुमिहार्हसि ॥ २.३४.७४ ॥
大王啊,凝视法王坚战、清净的王祭以及世尊主神哈里之后,知法者啊,你应当在此纳贡。
2.34.75
तेन तद्भाषितं श्रुत्वा राक्षसेन्द्रो बिभीषणः ।
शासनं प्रतिजग्राह धर्मात्मा राक्षसैः सह ॥ २.३४.७५ ॥
闻其所言,罗刹之主、法心之人毗跋纳,与罗刹们一同接受了这一命令。
2.34.76
तच्च कृष्णकृतं धीमानित्यमन्यत स प्रभुः ।
ततो ददौ विचित्राणि कम्बलानि कुथानि च ॥ २.३४.७६ ॥
那位智慧的主认为此事是克里希纳所为;随后他赠送了各式毛毯与地毯。
2.34.77
दान्तकाञ्चनपर्यङ्कान्मणिहेमविचित्रितान् ।
भूषणानि महार्हाणि प्रवालानि मणींश्च सः ॥ २.३४.७७ ॥
象牙与金制的床榻,以宝石和金饰装点,珍贵的饰物,珊瑚与宝石——他也都赠予了。
2.34.78
काञ्चनानि च भाण्डनि कलशानि घटानि च ।
कटाहानि विचित्रानि द्रोण्यश्चैव सहस्रशः ॥ २.३४.७८ ॥
金制的器皿、水瓶、缸罐、各式大锅,以及成千的木槽。
2.34.79
राजतानि च भाण्डानि रत्नगर्भांश्च कुण्डलान् ।
हेमपुष्पानि चान्यानि रुक्ममुख्यानि चापरान्। ॥ २.३४.७९ ॥
银制的器皿、镶满宝石的耳环、金花,以及其他以金为主的物件。
2.34.80
शङ्खांश्च चन्द्रसङ्काशांश्चित्रावर्तविचित्रितान् ।
यज्ञस्य तोरणे युक्तान्ददौ तालांश्चतुर्दश ॥ २.३४.८० ॥
他又给了如月般洁白、饰有旋涡纹的海螺,以及十四把适于安置在祭祀门楼上的棕榈叶扇。
2.34.81
रुक्मपङ्कजपुष्पाणि शिबिका मणिभूषिताः ।
मुकुटानि महार्हाणि रत्नगर्भांश्च कङ्कणान् ॥ २.३४.८१ ॥
金色莲花、饰以宝珠的轿子、极为贵重的王冠,以及镶满宝石的手镯。
2.34.82
चन्दनानि च मुख्यानि वासांसि विविधानि च ।
स ददौ सहदेवाय तदा राजा विभीषणाः ॥ २.३४.८२ ॥
上好的檀香和种种衣物——那时国王把这些交给了令人畏惧的(使者)给了萨哈德瓦。
2.34.83
तानि सर्वाणि रत्नानि आजह्रुस्ते निशाचराः ।
अष्टाशीतिसहस्राणि समदा रक्तलोचनाः ॥ २.३४.८३ ॥
这些珍宝都由那些夜行者搬来——共八万八千,醉意醺醺、双眼通红。
2.34.84
रत्नान्यादाय सर्वाणि प्रतस्थे स घटोत्कचः ।
विभीषणं च राजानमभिवाद्य कृताञ्जलिः ॥ २.३४.८४ ॥
瓦托特迦取了所有珍宝便动身出发;他合掌向国王毗毗沙那致敬。
2.34.85
प्रदक्षिणं परीत्यैव निर्जगाम घटोत्कचः ।
ततो रत्नान्युपादाय हैडिम्बो राक्षसैः सह ॥ २.३४.८५ ॥
他绕行右侧致敬后便退出;随后,希迪姆巴之子取了珍宝,与罗刹们一同离去。
2.34.86
जगाम तूर्णं लङ्कायाः सहदेवपदं प्रति ।
आसेदुः पाण्डवं सर्वे लङ्घयित्वा महोदधिम् ॥ २.३४.८६ ॥
他们迅速从楞伽出发,前往偕天所在之处。越过大海,众人都来到了般度之子面前。
2.34.87
सहदेवो ददर्शाथ रत्नाहारान्निशाचरान् ।
आगतान्भीमसङ्काशान्हैडिम्बं च तथा नृप ॥ २.३४.८७ ॥
国王啊,于是偕天看见了带着宝物前来的夜行者,他们与比摩相似,还有海蒂姆巴。
2.34.88
द्रमिला नैऋतान्दृष्ट्वा दुद्रुवुस्ते भयार्दिताः ।
भैमसेनिस्ततो गत्वा मार्देयं प्राञ्जलिः स्थितः ॥ २.३४.८८ ॥
德罗弥罗人见到那些涅利陀,因恐惧而逃散。随后,比摩之子走到摩提之子(偕天)面前,合掌而立。
2.34.89
प्रीतिमानभवद्दृष्ट्वा रत्नौधं तं च पाण्डवः ।
तं परिष्वज्य पाणिभ्यां दृष्ट्वा तान्प्रीतिमानभूत् ॥ २.३४.८९ ॥
般度之子见到那堆宝物和他,心中欢喜。以双手拥抱他,又见到众人,他更加欢喜。
2.34.90
विसृज्य द्रविडान्सर्वान्गमनायोपचक्रमे ।
न्यवर्तम ततो धीमान्सहदेवो नराधिपः ॥ २.३४.९० ॥
送别了所有德罗毗荼人之后,他们开始启程。随后,智慧的偕天,人主,折返而回。
2.34.91
एवं विजित्य तरसा सान्त्वेन विजयेन च ।
करदान्पार्थिवान्कृत्वा प्रत्यागच्छदरिन्दमः ॥ २.३४.९१ ॥
如此,以武力、怀柔与胜利征服了诸王,使诸王纳贡,这位降伏敌人者便回来了。
2.34.92
रत्नसालमुपादाय ययौ सहनिशाचरः ।
इन्द्रप्रस्थं विवेशाथ कम्पयन्निव मेदिनीम् ॥ २.३४.९२ ॥
他取了珍贵的礼物ratna-sāla,与夜行者同行,进入因陀罗普拉斯塔,仿佛使大地震颤。
2.34.93
दृष्ट्वा युधिष्ठिरं राजन्सहदेवः कृताञ्जलिः ।
प्रह्वोऽभिवाद्य तस्थौ स पूजितश्चापि तेन वै ॥ २.३४.९३ ॥
大王啊,萨哈德瓦见到坚战,合掌躬身致敬后站立;他也受到了坚战的尊敬。
2.34.94
लङ्काप्राप्तान्धनौघांश्च दृष्ट्वा तान्दुर्लभान्बहून् ।
प्रीतिमानभवद्राजा विस्मयं परमं ययौ ॥ २.३४.९४ ॥
国王看到从楞伽运来的许多珍稀财富,心中欢喜,又感到极度惊异。
2.34.95
धर्मराजाय तत्सर्वं निवेद्य भरतर्षभ ।
कोटीसहस्रमधिकं हिरण्यस्य महात्मने ॥ २.३४.९५ ॥
婆罗多族的雄牛啊,他将这一切禀告法王之后,向这位大德者献上了超过千亿的黄金。
2.34.96
विविधानि च रत्नानि गोजाविमहिषांस्तथा ।
कृतकर्मा सुखं राजन्नुवास जनमेजय ॥ २.३४.९६ ॥
又有各种珍宝,以及牛、山羊、绵羊和水牛。周耶之啊,他完成了使命,安乐地居住着。