Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.35.1

नकुलस्य तु वक्ष्यामि कर्माणि विजयं तथा ।
वासुदेवजितामाशां यथाऽसावजयत्प्रभुः ॥ २.३५.१ ॥

我将讲述那罗的功绩与胜利,以及那位英勇者如何征服了婆苏提婆所征服的方位。

2.35.2

निर्याय खाण्डवप्रस्थात्प्रतीचीमभितो दिशम् ।
उद्दिश्य मतिमान्प्रायान्महत्या सेनया सह ॥ २.३५.२ ॥

智慧的他从坎达瓦普拉斯塔出发,率大军朝西方而去。

2.35.3

सिंहनादेन महता योधानां गर्जितेन च ।
रथनेमिनिनादैश्च कम्पयन्वसुधामिमाम् ॥ २.३५.३ ॥

他以狮吼、战士的大声呼喊和战车轮辋的轰鸣,震动着这片大地而前进。

2.35.4

ततो बहु धनं रम्यं गावाढ्यं धनधान्यवत् ।
कार्तिकेयस्य दयितं रोहीतकुपाद्रवत् ॥ २.३५.४ ॥

随后他进攻了罗希塔卡——那是迦尔提开耶所钟爱之地,富饶美丽,牛群、财富与谷物丰足。

2.35.5

तत्र युद्धं महच्चासीच्छूरैर्मत्तमयूरकैः ।
मरुभूमिं स कार्त्स्न्येन तथैव बहुधान्यकम् ॥ २.३५.५ ॥

在那里与英勇的摩多·孔雀族发生了大战;他完全征服了沙漠之地,也同样征服了巴呼达尼雅卡。

2.35.6

शैरीषकं महेत्थं च वशे चक्रे महाद्युतिः ।
आक्रोशं चैव राजर्षि तेन युद्धमभून्महत् ॥ २.३५.६ ॥

这位大放光辉者使舍利沙迦及大地区臣服于己;他又与王仙阿克罗莎展开了大战。

2.35.7

तान्दशार्णान्स जित्वा च प्रतस्थे पाण्डुनन्दनः ।
शिबींस्त्रिगर्तानम्बष्ठान्मालवान्पञ्च कर्पटान् ॥ २.३५.७ ॥

征服十罗国之后,般度之子向尸毗、三伽多、盎跋利、摩罗婆及五个迦波陀出发。

2.35.8

तथा मध्यमकेयांश्च वाटधानान्द्विजानथ ।
पुनश्च परिवृत्याथ पुष्करारण्यवासिनः ॥ २.३५.८ ॥

同样地,征服了中国人、瓦塔达那人与婆罗门;然后又折返,征服了普什卡罗森林的居民。

2.35.9

गणानुत्सवसङ्केतान्व्यजयत्पुरुषर्षभः ।
सिन्धुकूलाश्रिता ये च ग्रामणीया महाबलाः ॥ २.३५.९ ॥

人中之牛征服了以节庆为标志的部族,以及居住在信度河岸的强大村长们。

2.35.10

शूराऽऽभीरगणाश्चैव ये चाश्रित्य सरस्वतीम् ।
वर्तयन्ति च ये मत्स्यैर्ये च पर्वतवासिनः ॥ २.३५.१० ॥

依靠萨拉斯瓦蒂河而居、与摩蹉人共同生活的英勇阿毗罗人,以及山居之人。

2.35.11

कत्स्नं पञ्चनन्दं चैव तथैवामरपर्वतम् ।
उत्तरज्योतिषं चैव तथा दिव्यकटं पुरम् ॥ २.३५.११ ॥

整个五河地区,还有阿摩罗山、北方光明和神圣的迪维亚卡塔城。

2.35.12

द्वारपालं च तरसा वशे चक्रे महाद्युतिः ।
रामठान्हारहूणांश्च प्रतीच्याश्चैव ये नृपाः ॥ २.३५.१२ ॥

这位大光辉者也以力量征服了守门人,以及罗摩陀人、哈罗人、匈奴人,和西方的诸王。

2.35.13

तान्सर्वान्स वशे चक्रे शासनादेव पाण्डवः ।
तत्रस्थः प्रेषयामास वासुदेवाय भारत ॥ २.३५.१३ ॥

他仅凭号令便使他们全部臣服。婆罗多啊,pāṇḍava在那里停留,派遣使者前往婆苏提婆。

2.35.14

स चास्य गतभी राजन्प्रतिजग्राह शासनम् ।
ततः शाकलमभ्येत्य मद्राणां पुटभेदनम् ॥ २.३५.१४ ॥

他无所畏惧地接受了其命令。国王啊,随后他来到沙迦罗,摧毁了摩德罗人的城防。

2.35.15

मातुलं प्रीतिपूर्वेण शल्यं चक्रे वशे बली ।
स तेन सत्कृतो राज्ञा सत्कारार्हो विशाम्पते ॥ २.३५.१५ ॥

这位强者以深情使其舅父沙利耶臣服。人民之主啊,他受到那位国王的尊敬,是值得尊敬的人。

2.35.16

रत्नानि भूरीण्यादाय सम्प्रतस्थे युधां पतिः ।
ततः सागरकुक्षिस्थान्म्लेच्छान्परमदारुणान् ॥ २.३५.१६ ॥

携带大量珍宝,武士之主出发了;随后前往居于大海深处、极其凶残的蛮族。

2.35.17

पह्लवान्वर्बरांश्चैव किरातान्यवनाञ्शकान् ।
ततो रत्नान्यपादाय वशे कृत्वा च पार्थिवान्।
न्यवर्तत कुरुश्रेष्ठो नकुलश्चित्रमार्गवित् ॥ २.३५.१७ ॥

还有帕拉瓦人、蛮族、基拉塔人、耶verse人和塞种人。随后,他取了珍宝,使诸王臣服,精通奇妙路径的俱卢之最——那古罗便折返了。

2.35.18

करमाणां सहस्राणि कोशं तस्य महात्मनः ।
ऊहर्दश महाराज कृच्छ्रादिव महाधनम् ॥ २.३५.१८ ॥

大王啊,那位大德的宝库——数以千计的贡赋,一万——仿佛艰难地搬运着那巨大的财富。

2.35.19

इन्द्रप्रस्थगतं वीरमभ्येत्य स युधिष्ठिरम्। ॥ २.३५.१९ ॥

那位英雄来到因陀罗普拉斯塔,走近了坚战。

2.35.20

एवं विजित्य नकुलो दिशं वरुणपालिताम् ।
प्रतीचीं वासुदेवेन निर्जितां भरतर्षभ ॥ २.३५.२० ॥

如此,无种征服了由伐楼那守护的西方,那方曾被筏素提婆征服,婆罗多的雄牛啊。

2.35.29

ततो माद्रीसुतः श्रीमान्धनं तस्मै न्यवेदयत् ॥ २.३५.२९ ॥

于是玛德利之子、那位尊贵者将那笔财富呈献给了他(坚战)。