Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.38.1

पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः ।
अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ॥ २.३८.१ ॥

坚战迎上前去,恭敬地向祖父和师尊致礼,然后,大王,说出了这番话。

2.38.2

भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ।
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः ॥ २.३८.२ ॥

毗湿摩、德罗纳、克里巴、德罗纳之子、难敌与毗辛沙提啊,愿你们在此祭祀中全面地眷顾我。

2.38.3

इदं वः सुमहच्चैव यदिहास्ति धनं मम ।
प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रितः ॥ २.३८.३ ॥

我在此拥有的这些巨额财富,全都属于你们。请按你们的意愿从我这里取用吧。

2.38.4

एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः ।
युयोज स यथायोगमधिकारेष्वनन्तरम् ॥ २.३८.४ ॥

说完这番话,已受戒的般度诸子之长,依次按各人才能,将他们全部安排到相应的职位上。

2.38.5

पङ्क्त्यारोपणकार्ये च उच्छिष्टापनये पुनः ।
भोजनावेक्षणे चैव युयुत्सुं समयोजयत् ॥ २.३८.५ ॥

他又任命悠悠苏负责安排排座、收拾残余,并监督膳食。

2.38.6

भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् ।
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान्। ॥ २.३८.६ ॥

他任命难降负责饮食之事,并命马嘶子负责接受婆罗门的布施。

2.38.7

राज्ञां तु प्रतिपूजार्थं सञ्जयं न्ययोजयत् ।
कृताकृतपरिज्ञाने भीष्णद्रोणौ महामती ॥ २.३८.७ ॥

为了礼待诸王,他任命了桑闍耶;为了掌握已办与未办之事,他任命了大智的毗湿摩与德罗纳。

2.38.8

हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे ।
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत् ॥ २.३८.८ ॥

为监管黄金、金币与珠宝,以及分发布施的达克希纳,国王任命了克利巴。

2.38.9

तथाऽऽन्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् ।
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः।
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ॥ २.३८.९ ॥

同样,他也将其他人中的虎杰任命到各种职位上。巴利迦、持国、索摩达塔与胜车,由无种引来,在那里像主人一样欢欣。

2.38.10

क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् ।
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ॥ २.३८.१० ॥

通晓一切法的毗杜罗任刹帝里(管家)兼支出总管,而难敌则各方面接受各种敬献之礼。

2.38.11

कुन्ती साध्वी च गान्धारी स्त्रीणां कुर्वन्ति चार्चनम् ।
अन्याः सर्वाः स्नुषास्तासां सन्देशं यान्तु माचिरम्।
तिष्ठेत्कृष्णान्तिके सोयमर्जुनः कार्यसिद्धये ॥ २.३८.११ ॥

贤德的贡提与甘陀利供奉诸女眷;其余诸媳应即刻前往她们处传达讯息。为成就此事,愿这位阿周那侍立于黑天身旁。

2.38.12

चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत् ।
सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम् ॥ २.३८.१२ ॥

克里希那亲自为婆罗门洗脚,被众人环绕,希望以此取悦他们,以求最高的果报。

2.38.13

द्रष्टुकामः सभां चैव धर्मराजं यधिष्ठिरम् ।
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् ॥ २.३८.१३ ॥

那里没有人向想要观看议事厅的法王坚战献上价值不足千枚的礼物。

2.38.14

रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् ।
कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात् ॥ २.३८.१४ ॥

那里,法王以许多珍宝受到尊崇。然而,我的俱卢子孙如何能以施舍珍宝与他相比?

2.38.15

यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ।
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः ॥ २.३८.१५ ॥

仿佛为了祭祀一般,诸王竞相赠予财富:高耸如天宫的殿宇、能带来长久收益的产业,并附有军队。

2.38.16

लोकराजविमानैश्च ब्राह्मणावसथैः सह ।
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा ॥ २.३८.१६ ॥

有如世界诸王天车般的宫殿,还有婆罗门的住所,以及仿照天车建造的神圣居所。

2.38.17

विचित्रै रत्ववद्भिश्च ऋद्ध्या परमया युतैः ।
राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः।
अशोभत सदो राजन्कौन्तेयस्य महात्मनः ॥ २.३८.१७ ॥

装饰着奇妙的珍宝,拥有至高的繁荣,被诸王环绕,充满极盛的光辉与富足。大王啊,这位伟大灵魂的昆提之子的议事厅光彩夺目。

2.38.18

ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः ।
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता ॥ २.३८.१८ ॥

尤地什提罗以荣耀与神祇伐楼那竞相比美,以六火之主的祭祀并附厚重的布施礼敬他。

2.38.19

सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् ।
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः।
रत्नोपहारसम्पन्नो बभूव स समागमः ॥ २.३८.१९ ॥

他以圆满的一切欲愿使众人尽皆满足。那集会食物丰盛、佳肴众多,人群环绕,并充满宝石的供奉。

2.38.20

इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः ।
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः ॥ २.३८.२० ॥

以酥油供奉伊达的祭献,由精通咒语教导的大仙们进行,诸神在那场盛大的祭祀中确已得到满足。

2.38.21

यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः ।
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदाऽन्विताः ॥ २.३८.२१ ॥

诸神得到满足,婆罗门也以布施、食物与大量财富而满足;那场祭祀中,充满欢喜的一切种姓也都得到了满足。