摩诃婆罗多 · 章 2.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.40.1
नायमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु ।
महीपतिषु कौरव्य राजवत्पार्थिवार्हणम् ॥ २.४०.१ ॥
俱卢之子啊!当这些大德与地上的君主都站在此处时,这位筏尔施尼耶并不配享有国王应得的尊崇。
2.40.2
नायं युक्तः समाचारः पाण्डवेषु महात्मसु ।
यत्कामाद्देवकीपुत्रं पाण्डवार्चितवानसि ॥ २.४०.२ ॥
对待伟大的般度之子,这样的行为并不妥当;你出于私欲而礼敬了提婆吉之子。
2.40.3
बाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः ।
अयं तत्राभ्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः ॥ २.४०.३ ॥
你们还是孩童,并不知晓;法(达摩)是精微的,般度之子们啊。在这件事上,目光短浅的恒河之子阿帕该耶已经越过了界限。
2.40.4
त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया ।
भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ॥ २.४०.४ ॥
即使如你这般具足法(达摩)的人,若出于讨好之心行事,也会走向过度;在世间,毗湿摩被善人所鄙视。
2.40.5
कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् ।
अर्हणामर्हति तथा यथा युष्माभिरर्चितः ॥ २.४०.५ ॥
这位并非国王的达沙尔哈,在所有地上君主之中,怎能配得上你们对他的礼敬?
2.40.6
अथवा मन्यसे कृष्णं स्थविरं कुरुपुङ्गवः ।
वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ॥ २.४०.६ ॥
或者,俱卢族的雄牛啊,你认为克里希纳年长吗?年迈的婆蹉提婆尚在,他的儿子怎配得上这尊崇?
2.40.7
अथवा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् ।
द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ॥ २.४०.७ ॥
或者婆苏提婆也为讨好而随从。德鲁波陀在场,摩陀婆如何配受礼敬?
2.40.8
आचार्यं मन्यसे कृष्णमथवा कुरुनन्दन ।
द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ॥ २.४०.८ ॥
库鲁之喜,你是否以克里希纳为师?德罗纳在场,你为何礼敬伐尔什涅亚?
2.40.9
ऋत्विजं मन्यसे कृष्णमथवा कुरुनन्दन ।
द्वौपायने स्थिते वृद्धे कथं कृष्णोऽर्चितस्त्वया ॥ २.४०.९ ॥
库鲁之喜,你是否以克里希纳为祭司?年迈的德瓦伊帕亚纳在场,你如何礼敬了克里希纳?
2.40.10
भीष्मे शान्तनवे राजन्स्थिते पुरुषसत्तमे ।
स्वच्छन्दमृत्युके राजन्कथं कृष्णोऽर्चितस्त्वया ॥ २.४०.१० ॥
国王啊,施ān图之子毗湿摩在场——人中之最,能自主死亡——你如何礼敬了克里希纳?
2.40.11
अश्वत्थाम्नि स्थिते वीरे सर्वशास्त्रविशारदे ।
कथं कृष्णस्त्वया राजन्नर्चितः कुरुनन्दन ॥ २.४०.११ ॥
英雄阿湿婆摩之,精通诸学,在场,你这库鲁之喜、国王,如何礼敬了克里希纳?
2.40.12
दुर्योधने च राजेन्द्रे स्थिते पुरुषसत्तमे ।
कृपे च भारताचार्ये कथं कृष्णस्त्वयाऽर्चितः ॥ २.४०.१२ ॥
王中之王难敌与婆罗多的导师克利巴皆在,人中之最也在场,你如何礼敬了克里希纳?
2.40.13
द्रुमं कम्पुरुषाचार्यमतिक्रम्य तथाऽर्चितः ।
भीष्मके चैव दुर्धर्षे पाण्डुवत्कृतलक्षणे ॥ २.४०.१३ ॥
你越过德鲁马和坎普鲁沙的师尊,同样尊崇了不可战胜、具有般度之相的毗湿摩迦。
2.40.14
नृपे च रुक्मिणि श्रेष्ठे एकलव्ये तथैव च ।
शल्ये मद्राधिपे चैव कथं कृष्णस्त्वयार्चितः ॥ २.४०.१४ ॥
既有国王鲁克民、优秀的伊迦拉维耶,以及摩德罗王沙利耶在场,你为何独独尊崇黑天?
2.40.15
अयं च सर्वराज्ञां वै बलश्लाघी महाबलः ।
जामदग्न्यस्य दयितः शिष्यो विप्रस्य भारत ॥ २.४०.१५ ॥
他在一切国王中以武力自夸,是大力者,是那位婆罗门、耶摩陀格尼(帕拉舒罗摩)所宠爱的弟子,婆罗多啊。
2.40.16
येनात्मबलमाश्रित्य राजानो युधि निर्जिताः ।
तं च कर्णमतिक्रम्य कथं कृष्णस्त्वयार्चितः ॥ २.४०.१६ ॥
你越过了凭借自身力量在战斗中征服诸王的迦尔纳,又如何尊崇了黑天?
2.40.17
नैवर्त्विङ्नैव चाचार्यो न राजा मधुसूदनः ।
अर्चितश्च कुरुश्रेष्ठ किमन्यत्प्रियकाम्यया ॥ २.४०.१७ ॥
摩豆苏陀那既非祭司,也非师长,更非国王,却仍受尊崇。婆罗多之最,除了想要讨好之心,还能有什么缘故?
2.40.18
अथवाऽभ्यर्चनीयोऽयं युष्माकं मधुसूदनः ।
किं राजभिरिहानीतैरवमानाय भारत ॥ २.४०.१८ ॥
或许这位摩豆苏陀那正是你们所应敬拜之人。婆罗多啊,那些被带到这里只为受辱的国王,又有何用?
2.40.19
वयं तु न भयादस्य कौन्तेयस्य महात्मनः ।
प्रयच्छामः करान्सर्वे न लोभान्न च सान्त्वनात् ॥ २.४०.१९ ॥
我们都不是因为畏惧这位大德的贡提之子而纳贡,也不是出于贪婪,也不是出于安抚。
2.40.20
अस्य धर्मप्रवृत्तस्य पार्थिवत्वं चिकीर्षतः ।
करानस्मै प्रयच्छामः सोऽयमस्मान्न मन्यते ॥ २.४०.२० ॥
我们向这位遵行法度、想要成为国王的人纳贡,他却不把我们放在眼里。
2.40.21
किमन्यदवमनानाद्धे यदेनं राजसंसदि ।
अप्राप्तलक्षणं कृष्णमर्घ्येणार्चितवानसि ॥ २.४०.२१ ॥
在诸王的集会上,以供水(arghya)礼敬缺乏德行标志的黑天,还有什么比这更大的侮辱呢?
2.40.22
अकस्माद्धर्मपुत्रस्य धर्मात्मेति यशो गतम् ।
को हि धर्मच्युते पूजामेवं युक्तां नियोजयेत् ॥ २.४०.२२ ॥
法之子“善法之魂”的名声突然消失了。谁会向背离法度的人给予如此适宜的礼敬呢?
2.40.23
योयं वृष्णिकुले जातो राजानं हतवान्पुरा ।
जरासन्धं महात्मानमन्यायेन दुरात्मवान् ॥ २.४०.२३ ॥
这个生于毗瑟尼族的人,从前不义地杀害了大德之王迦罗桑陀,心怀恶意。
2.40.24
अद्य धर्मात्मता चैव व्यपकृष्टा युधिष्ठिरात् ।
दर्शितं कृपणत्वं च कृष्णेऽर्घ्यस्य निवेदनात् ॥ २.४०.२४ ॥
今日,坚战的善法之魂也被夺去了;向黑天献上供水,也显露了他的卑怯。
2.40.25
यदि भीताश्च कौन्तेयाः कृपणाश्च तपस्विनः ।
ननु त्वयाऽपि बोद्धव्यं यां पूजां माधवार्हसि ॥ २.४०.२५ ॥
若贡蒂之子胆怯、可怜且苦修,那么摩陀婆啊,你也应当知道自己所配得的敬奉。
2.40.26
अथवा कृपणैरेतामुपनीतां जनार्दन ।
पूजामनर्हः कस्मात्त्वमभ्यनुज्ञातवानसि ॥ २.४०.२६ ॥
或者,闍那陀那啊,你既不配受这些可怜人所献的敬奉,为何竟允许了?
2.40.27
अयुक्तामात्मनः पूजां त्वं पुनर्बहुमन्यसे ।
हविषः प्राप्य निष्यन्दं प्राशिता श्वेव निर्जने ॥ २.४०.२७ ॥
你不当之敬奉,反而又十分看重,就像狗在荒野中得到祭祀滴落的残液而舔食一般。
2.40.28
न त्वं पार्थिवेन्द्राणामपमानः प्रयुज्यते ।
त्वामेव कुरवो व्यक्तं प्रलम्भन्ते जनार्दन ॥ २.४०.२८ ॥
闍那陀那啊,在诸王之主中,并无人轻慢你;显然是库鲁人在欺骗你。
2.40.29
क्लीबे दारक्रिया यादृगन्धे वा रूपदर्शनम् ।
अराज्ञो राजवत्पूजा तथा ते मधुसूदन ॥ २.४०.२९ ॥
如同与阉人行婚礼,或向盲人展示形象一般,摩杜苏陀那啊,你并非国王,却如国王般受敬奉,也是如此。
2.40.30
दृष्टो युधिष्ठिरो राजा दृष्टो भीष्मश्च यादृशः ।
वासुदेवोऽप्ययं दृष्टः सर्वमेतद्यथातथम् ॥ २.४०.३० ॥
我见过国王坚战,见过如此的毗湿摩,也见过这位婆苏提婆;这一切都如实如此。
2.40.31
इत्युक्त्वा शिशुपालस्तानुत्थाय परमासनात् ।
निर्ययौ सदसस्तस्मात्सहितो राजभिस्तदा ॥ २.४०.३१ ॥
说完这话,始苏跋罗从那尊贵的座位上站起,当即与诸王一同离开了大会。