マハーバーラタ · 章 2.45
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.45.1
प्रादुर्भावसहस्राणि समतीतान्यनेकशः ।
यथाशक्ति तु वक्ष्यामि शृणु तान्कुरुनन्दन ॥ २.४५.१ ॥
クルの喜びよ、幾千もの顕現が幾度も過ぎ去った。私の力の及ぶ限り、それらを語ろう。聞け。
2.45.2
पुरा कमलनाभस्य स्वपतः सागराम्भसि ।
पुष्करे यत्र सम्भूता देवा ऋषिगणैः सह ॥ २.४५.२ ॥
昔、蓮の臍を持つ者が海の水中で眠っていたとき、プシュカラにて神々が聖仙の群れとともに生まれた。
2.45.3
एष पौष्करिको नाम प्रादुर्भावः प्रकीर्तितः ।
पुराणैः कथ्यते यत्र वेदश्रुतिसमाहितः ॥ २.४५.३ ॥
この顕現はパウシュカリカと名づけられ称えられる。プラーナにおいてヴェーダと聖典に専心する者たちによって語られる。
2.45.4
वाराहस्तु श्रुतिसुखः प्रादुर्भावो महात्मनः ।
यत्र विष्णुः सुरश्रेष्ठो वाराहं रूपमास्थितः ॥ २.४५.४ ॥
猪の顕現は聞いて心地よい。そこで偉大な魂、神々の最上のヴィシュヌは猪の姿をとった。
2.45.5
उज्जहार महीं तोयात्सशैलवनकाननाम् ।
वेदपादो यूपदंष्ट्रः क्रतुर्दन्तश्चितीमुखः ॥ २.४५.५ ॥
彼は水から山々・森・園林とともに大地を持ち上げた。ヴェーダは足、祭柱は牙、祭祀は歯、祭火壇は顔であった。
2.45.6
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ।
अहोरात्रेक्षणो दिव्यो वेदाङ्गः श्रुतिभूषणः ॥ २.४५.६ ॥
火を舌とし、吉祥草を毛とし、ヴェーダを頭とする。偉大な苦行者、神聖なる者、昼と夜を両目とし、ヴェーダを肢体とし、聖典で飾られた者である。
2.45.7
आज्यनासः स्रुवं तुण्डं सामघोषस्वनो महान् ।
धर्मसत्यमयः श्रीमान्कर्मविक्रमसत्कृतः ॥ २.४५.७ ॥
酥油は彼の鼻、スルヴァは彼の口、サーマ歌の大いなる響きは彼の声である。彼は法と真実でできており、輝かしく、行いの勇猛さによって尊ばれている。
2.45.8
प्रायश्चित्तमुखो धीरः पशुजानुर्महावृषः ।
औद्गात्रहोमलिङ्गोऽसौ पशुबीजमहौषधिः ॥ २.४५.८ ॥
贖罪が彼の顔であり、彼は堅固で、家畜を膝とする偉大な雄牛である。ウドガートリ祭官の供犠が彼の印であり、彼は家畜の種であり偉大な薬草である。
2.45.9
बाह्यन्तरात्मा मन्त्रास्थिविकृतः सौम्यदर्शनः ।
वेदिस्कन्धो हविर्गन्धो हव्यकव्याभिवेगवान् ॥ २.४५.९ ॥
外と内の自我は一つであり、マントラは変容した彼の骨、その姿は穏やかである。祭壇が彼の肩、供物の香りが彼の匂いであり、神々と祖霊への供物へと素早く向かう。
2.45.10
प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरूर्जितः ।
दक्षिणाहृदयो योगी महाशास्त्रमयो महान् ॥ २.४५.१० ॥
東方の祭殿が彼の身体であり、彼は輝き、様々な灌頂によって力強い。祭礼の謝礼が彼の心であり、彼はヨーガ行者、偉大な聖典からなる偉大な存在である。
2.45.11
उपाकर्मोष्ठरुचकः प्रावर्ग्यावर्तभूषणः ।
शालापत्नीसहायो वै मणिशृङ्गसमुच्छ्रितः ॥ २.४५.११ ॥
ウパーカルマの儀礼が彼の唇の輝きであり、プラーヴァルギヤの旋回の儀礼が彼の装飾である。祭堂と妻が彼の助け手であり、彼は宝石の峰に高く掲げられている。
2.45.12
एवं यज्ञवराहो वै भूत्वा विष्णुः सनातनः ।
महीं सागरपर्यन्तां सशैलवनकाननाम् ॥ २.४५.१२ ॥
このようにして、永遠のヴィシュヌ自らが供犠の猪となり、海に囲まれ、山々・森・林を擁する大地を持ち上げた。
2.45.13
कार्णवजले भ्रष्टामेकार्णवगतः प्रभुः ।
मज्जन्तीं सलिले तस्मिन्स्वदेवीं पृथिवीं तदा ॥ २.४५.१३ ॥
唯一の原初の大海にいた主は、そのとき水の中に落ちて沈みゆく自らの女神なる大地を見た。
2.45.14
उज्जहार विषाणेन मार्गण्डेयस्य पश्यतः ।
शृङ्गेण यः समुद्धृत्य लोकानां हितकाम्यया ॥ २.४५.१४ ॥
マールカンデーヤが見ている前で、彼は牙でそれを持ち上げた。諸世界の利益を願い、角でそれを引き上げたのである。
2.45.15
सहस्रशीर्षो देवेशो निर्ममे जगतीं प्रभुः ।
एवं यज्ञवराहेण भूतभव्यभवात्मना ॥ २.४५.१५ ॥
千の頭を持つ神々の主たる主が世界を造った。このように、過去・未来・現在を自らの本性とする供犠の猪によって(これは成された)。
2.45.16
उद्धृता पृथिवी देवी पूज्या वै सागराम्बरा ।
निहता दानवाः सर्वे देवदेवेन विष्णुना ॥ २.४५.१६ ॥
海を衣とする尊ぶべき女神なる大地は引き上げられた。神々の神ヴィシュヌによって、すべてのダーナヴァは殺された。
2.45.17
वाराहः कथितो ह्येष नारसिंहमतो शृणु ।
यत्र भूत्वा मृगेन्द्रेण हिरण्यकशिपुर्हतः ॥ २.४५.१७ ॥
これは猪の姿として語られた。次に人獅子の姿について聞け。その姿において、獣の王となってヒラニヤカシプは殺されたのである。