摩诃婆罗多 · 章 2.49
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.49.1
तथा भृगुकुले जन्म यदर्थं च महात्मनः ।
जामदग्न्य इति ख्यातः प्रादुर्भावश्च वैष्णवः ॥ २.४९.१ ॥
如此,在婆利古族中诞生了这位大灵魂者;他以补玛达格尼之子闻名的化现,乃是毗湿奴的化身。
2.49.2
जमदग्निसुतो राजन्त्रामो नाम स वीर्यवान् ।
हेहयान्तकरो राजन्स रामो बलिनां वरः ॥ २.४९.२ ॥
补玛达格尼之子,大王啊,是名为罗摩的威力者;大王啊,那位消灭黑耶人的罗摩,是强者中的最佳者。
2.49.3
कार्तावीर्यो महावीर्यो बलेनाप्रतिमस्तदा ।
रामेण जामदग्न्येन हतो विषममाचरन् ॥ २.४९.३ ॥
大力的迦尔塔维里耶当时力量无与伦比;然而他行事不义,被补玛达格尼之子罗摩杀死。
2.49.4
तं कार्तवीर्यं राजानं हेहयानामरिन्दमम् ।
रथस्थं पार्थिवं रामः पातयित्वाऽवधीद्रणे ॥ २.४९.४ ॥
罗摩将那位稳立于战车上、征服敌人的黑耶王迦尔塔维里耶击倒,在战场上将其杀死。
2.49.5
जम्भस्य यज्ञं हत्वा स ऋत्विजश्चैव संस्तरे ।
जम्भस्य मूर्ध्नि भेत्ता च हन्ता च शतदुन्दुभेः ॥ २.४९.५ ॥
他毁坏了阇婆的祭祀,也杀了祭坛上的祭司;他是劈开阇婆头颅、杀死百鼓者的人。
2.49.6
स एष कृष्णो गोविन्दो जातो भृगुषु वीर्यवान् ।
सहस्रबाहुमुद्धर्तुं सहस्रजितमाहवे ॥ २.४९.६ ॥
正是这位克里希那·哥文达,作为英勇者诞生于婆利古族,以便在战场上拔除那千臂、战胜千人的人。
2.49.7
क्षत्रियाणां चतुष्पष्टिमयुतानि महायशाः ।
सरस्वत्यां समेतानि एष वै धनुषाऽजयत् ॥ २.४९.७ ॥
这位大名鼎鼎者以弓箭击败了聚集在萨拉斯瓦蒂河边的六十四阿尤塔刹帝利。
2.49.8
ब्रह्मद्विषां धे तस्मिन्महस्राणि चतुर्दश ।
पुनर्जघान शूराणामतिक्रूरो रथर्षभः ॥ २.४९.८ ॥
那时,这位最残酷的战车群雄之牛又杀死了十四千名敌视婆罗门的勇士……
2.49.9
ततो राज्ञां सहस्रं स भङ्क्ता पूर्वमरिन्दमः ।
सहस्रं मुसलेनाहन्सहस्रमुदकृन्तत ॥ २.४९.९ ॥
然后,这位曾经击碎敌人的降敌者用铁杵击杀了一千位国王,又斩断了一千位。
2.49.10
चतुर्दशसहस्राणि कृणदूममपाययत् ।
शिष्टान्ब्रह्मद्विषो जित्वा ततोऽस्नायत भार्गवः ॥ २.४९.१० ॥
他使一万四千人血流成河,又战胜了其余敌视婆罗门的人,然后这位婆利古之裔便去沐浴了。
2.49.11
रामरामेत्यमिक्रुष्टो ब्राह्मणैः क्षत्रियार्दितैः ।
निघ्नञ्शतसहस्राणि रामः परशुनाभिभूः ॥ २.४९.११ ॥
受刹帝利折磨的婆罗门高呼“罗摩,罗摩!”,持斧的罗摩征服者杀死了数十万人。
2.49.12
न ह्यमृष्यत तां वाचमार्तैर्भृशमुदीरिताम् ।
भृगो रामाभिधावेति यदाऽक्रन्दन्द्विजातयः ॥ २.४९.१२ ॥
当再生族高呼“婆利古啊,罗摩啊,快跑来!”时,受苦者大声发出的那声呼喊,他无法忍受。
2.49.13
काश्मीरान्दरदान्कुन्तीन्क्षुद्रकान्मालवाञ्छवान् ।
चेदिकाशिकरूशांश्च ऋषिकान्क्रथकैशिकान् ॥ २.४९.१३ ॥
迦湿弥罗人、达罗陀人、俱卢提人、刹陀罗人、摩罗婆人、奢婆人、遮提人、迦尸人、羯卢沙人、利系迦人、羯罗陀人和迦奢迦人。
2.49.14
अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् ।
रात्रायणान्वीतिहोत्रान्किरातान्कार्तिकावतान् ॥ २.४९.१४ ॥
盎伽人、梵伽人、羯陵伽人、摩揭陀人、迦尸人与憍萨罗人、罗特拉耶那人、毗提诃特罗人、吉拉多人和迦提卡瓦塔人。
2.49.15
एतानन्यांश्च राजन्यान्देशेदेशे सहस्रशः ।
निकृत्य निशितैर्बाणैः सम्प्रदाय विवस्वते ॥ २.४९.१५ ॥
他在各国以利箭斩杀了这些人及其他武士王,成千上万,然后将他们献给毗婆娑特(太阳神)。
2.49.16
कीर्णा क्षत्रियकोटीभिर्मेरुमन्दरभूषणा ।
त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ २.४९.१६ ॥
大地被千万刹帝利的尸体覆盖,以须弥山与曼陀罗山为饰,他使其无刹帝利者,凡二十一次。
2.49.17
कृत्वा निःक्षत्रियां चैव भार्गवः स महायशाः ।
इन्द्रगोपकवर्णस्य जीवञ्जीवनिभस्य च ॥ २.४९.१७ ॥
那位名声显赫的婆利古后裔,使大地无刹帝利之后,又杀了那些颜色如因陀罗虫、形似命命鸟的人。
2.49.18
पूरयित्वा च सरितः क्षतजस्य सरांसि च ।
चकार तर्पणं वीरः पितॄणां तासु तेषु च ॥ २.४९.१८ ॥
他以血注满河流与湖泊,那位英雄便在其中以及在那些地方为祖先作祭水之礼。
2.49.19
सर्वानष्टादश द्वीपान्वशमानीय भार्गवः ।
सोऽश्वमेधसहस्राणि नरमेधशतानि च ॥ २.४९.१९ ॥
婆利古之裔已将十八洲尽数降服,举行了数千次马祭与数百次人祭。
2.49.20
इष्ट्वा सागरपर्यन्तां काश्यपाय महीं ददौ ।
तस्याग्रेणानुपर्येति भूमिं कृत्वा विपांसुलाम् ॥ २.४९.२० ॥
举行祭祀后,他将以大海为界的大地施予迦叶波;绕其边缘而行,使大地无尘。
2.49.21
ततः कालकृतां सत्यां भार्गवाय महात्मने ।
गाधामप्यत्र गायन्ति ये पुराणविदो जनाः ॥ २.४९.२१ ॥
此后,关于时间所定的那一诺言,关于大德的婆利古之裔,通晓往世书的人们也咏唱此偈。
2.49.22
वेदिमष्टादशोत्सेधां हिरण्यस्यातिपौरुषीम् ।
रामेण जामदग्न्येन प्रतिजग्राह काश्यपः ॥ २.४९.२२ ॥
由嘉玛达吉尼之子罗摩所献的、高十八肘、非人所能及的金祭坛,迦叶波接受了。
2.49.23
एवमिष्ट्वा महाबाहुः क्रतुभिर्भूरिदक्षिणैः ।
अन्यद्वर्षशतं रामः सौभे साल्वमयोधयत् ॥ २.४९.२३ ॥
罗摩如此以丰厚布施举行祭祀之后,又与乘坐“蒙巴”飞船的萨尔瓦战斗了另外一百年。
2.49.24
ततः स भृगुशार्दूलस्तं सौभं योधयन्प्रभुः ।
सुबन्धुरं रथं राजन्नास्थाय भरतर्षभ ॥ २.४९.२४ ॥
于是那位婆利古族的猛虎、强大的罗摩,登上一辆精美的战车,与那艘“蒙巴”飞船交战,啊,王者,婆罗多中的雄牛。
2.49.25
नग्निकानां कुमारीणां गायन्तीनामुपाशृणोत् ।
रामराम महाबाहो भृगूणां कीर्तिवर्धन ॥ २.४९.२५ ॥
他听到裸体苦行女与少女歌唱:「罗摩,罗摩,大臂者,增益婆利古族之荣光者!」
2.49.26
त्यज शस्त्राणि सर्वाणि न त्वं सौभं वधिष्यसि ।
शङ्खचक्रगदापाणिर्देवानामभयङ्गरः ॥ २.४९.२६ ॥
放下你所有的武器;你不会杀死娑鲁跋。手持法螺、轮盘与铁杵的人,是诸神无畏的守护者。
2.49.27
युधि प्रद्युम्नसाम्बाभ्यां कृष्णः सौभं वधिष्यति ।
तच्छ्रुत्वा पुरुषव्याघ्रस्तत एव वनं ययौ ॥ २.४९.२७ ॥
在战斗中,克里希那将与普拉advenMNA、三婆一同杀死娑鲁跋。那人中猛虎闻言,便立即前往森林。
2.49.28
न्यस्य सर्वाणि शस्त्राणि कालकाङ्क्षी महायशाः ।
रथं सर्वायुधं चैव शरान्परशुमेव च ॥ २.४९.२८ ॥
放下一切兵器,这位大名者等待时机,舍弃了战车及其全部武器,连箭与斧也一并放下。
2.49.29
धनूंष्यप्सु प्रतिष्ठाप्य रामस्तेपे परं तपः ।
ह्रियं प्रज्ञां श्रियं कीर्तिं लक्ष्मीं चामित्रकर्शनः ॥ २.४९.२९ ॥
罗摩将弓置于水中,行最高苦行;这位制敌者为求羞耻心、智慧、吉祥、荣誉与福德而修行。
2.49.30
पञ्चाधिष्ठाय धर्मात्मा तं रथं विससर्ज ह ।
आदिकाले प्रवृत्तं तु व्यभजत्करमीश्वरः ॥ २.४९.३० ॥
他作为第五人登上战车,那心地正直者便放开了那辆车;而主宰者将太初时开始运行的秩序,划分为赋税之份额。
2.49.31
नाघ्नतं श्रद्धया सौभं न ह्यशक्तो महायशाः ।
जामदग्न्य इति ख्यातो यस्त्वयं भगवानुपिः। ॥ २.४९.३१ ॥
嘉玛达格尼之子,大名远扬,并非不能以信心毁灭它;这位尊贵的仙人亦是如此。
2.49.32
सोऽस्य भागस्तपस्तेपे भार्गवो लोकविश्रुतः ॥ २.४९.३२ ॥
这位在诸世界享有盛名的婆利古后裔,为自己的那份而修苦行。