摩诃婆罗多 · 章 2.52
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.52.1
यच्चके भगवान्विष्णुर्वसुदेवसुतस्तदा ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणु स्रवमशेषतः ॥ २.५२.१ ॥
那时世尊毗湿奴、婆苏提婆之子所作之事,我将完整地告诉你;请听。
2.52.2
वासुदेवस्य महात्म्यं चरितं च महात्मनः ।
हितार्थं सुरसर्त्यानां लोकानां च हिताय च ॥ २.५२.२ ॥
婆苏提婆的威德与那位大德者的行迹,乃为诸天与人类之利益,亦为诸世界之福祉。
2.52.3
यदा दिवि विभुस्तात न रेमे भगवानसौ ।
ततो व्यादिशय भूतानि विभुर्भूमिसुखावहः ॥ २.५२.३ ॥
孩儿,当那遍在的世尊在天上不乐之时,那位为大地带来安乐的遍在者便命令众生。
2.52.4
निग्रहार्थाय दैत्यानां चोदयामास वै तदा ।
मुरुतश्च वसूंश्चैव सूर्याचन्द्रमसावुभौ ॥ २.५२.४ ॥
那时,为镇压诸达提亚,他果然驱使了摩卢多、诸婆苏,以及日与月两者。
2.52.5
गन्धर्वाप्सरसश्चैव रुद्रादित्यांस्तथाऽश्विनौ ।
जायध्वं मानुषे लोके सर्वलोकमहेश्वराः ॥ २.५२.५ ॥
又对诸乾闼婆与阿普萨拉斯、同样对诸楼陀罗与阿提提耶、以及两位阿输吸尼说:“诸大界主啊,你们当降生于人间。”
2.52.6
जङ्गमानि विशालाक्षो ह्यात्मार्थमसृजत्प्रभुः ।
जायन्तामिति गोविन्दस्तिर्यग्योनिगतैः सह ॥ २.५२.६ ॥
广目主为自己的目的创造了动物;“愿其降生”,戈温达如此说,与那些已入畜生胎的众生一同。
2.52.7
तानि सर्वाणि सर्वज्ञो व्यजायत यदोः कुले ।
आत्मानमात्मना तात कृत्वा बहुविधं हरिः।
रत्यर्थमिह गास्तत्र ररक्ष पुरुषोत्तमः। ॥ २.५२.७ ॥
亲爱的,全知的哈里以多种形式创造自己,在阎度族中以所有这些形态出生。在那里,至高人为了喜乐而守护牛群。
2.52.8
अजातशत्रो जातस्तु यथेष्ट भुवि भूमिप ।
कीर्त्यमानं मया तात निबोध भरतर्षभ ॥ २.५२.८ ॥
无敌之王阿遮多设睹,君王啊,他依自己的意愿降生于大地。亲爱的,婆罗多族的雄牛,请听我所述说的。
2.52.9
सागराः समकम्पन्त मुदा चेलुश्च पर्वताः ।
जज्वलुश्चाग्नयः शान्ता जायमाने जनार्दने ॥ २.५२.९ ॥
当阇那达那降生时,大海颤动,群山欢喜地摇动,平静的火焰燃烧起来。
2.52.10
शिवाः सम्प्रववुर्वाताः प्रशान्तमभवद्रजः ।
ज्योतींषि सम्प्रकाशन्त जायमाने जनार्दने ॥ २.५२.१० ॥
当阇那达那降生时,吉祥的风吹起,尘土平息,光明的星辰放射光芒。
2.52.11
देवदुन्दुभयश्चापि सस्वनुर्भृशमम्बरे ।
अभ्यवर्षंस्तदाऽऽगम्य देवताः पुष्पवृष्टिभिः ॥ २.५२.११ ॥
天空中神圣的鼓也大声响起;那时诸神前来,降下花雨。
2.52.12
गीर्भिर्मङ्गलयुक्ताभिः स्तुवन्वै मधुसदनम् ।
उपतस्थुस्तदा प्रीताः प्रादुर्भावे महर्षयः ॥ २.५२.१२ ॥
以吉祥之言赞颂摩图苏陀那,那时欢喜的大仙们在他显现之时前来。
2.52.13
ततस्तानभिसम्प्रेक्ष्य नारदप्रमुखानृषीन् ।
उपानृत्यन्नुपजगुर्गन्धर्वाप्सरसां गणाः ॥ २.५२.१३ ॥
那时,看见以那罗陀为首的仙人,乾闼婆与阿普萨拉斯的众群便近前舞蹈歌唱。
2.52.14
उपतस्थे च गोविन्दं सहस्राक्षः शचीपतिः ।
अभ्यभाषत तेजस्वी महर्षीन्पूजयंस्तदा ॥ २.५२.१४ ॥
千眼的舍candy之主因陀罗站在戈文达身旁,光辉灿烂地向大仙人们致敬并与之交谈。
2.52.15
कृत्वा च देवकार्याणि कृत्वा देवहितानि च ।
खं लोकं लोककृद्देवः पुनर्गच्छति तेजसा ॥ २.५२.१५ ॥
完成了诸神的事业与诸神的福祉之后,那创造世界的神灵又以光辉返回天界。
2.52.16
इत्युक्त्वा ऋषिभिः सार्घं जगाम त्रिदिवं पुनः ।
अभ्यनुज्ञाय तान्सर्वाञ्छादयन्प्रकृतिं पराम् ॥ २.५२.१६ ॥
说完这些,他与仙人们一同再次返回天界,向众人告别,并遮掩了至上的本性。
2.52.17
नन्दगोपकुले कृष्ण उवास बहुलाः समाः ।
ततः कदाचित्सुप्तं तं शकटस्य त्वधः शिशुम् ॥ २.५२.१७ ॥
克里希那在牧人难陀的家族中居住了许多年。之后有一次,那个婴儿在车下睡着。
2.52.18
यशोदा सम्परित्यज्य जगाम यमुनां नदीम् ।
शिशुलीलां ततः कुर्वन्स्वहस्तचरणौ क्षिपन् ॥ २.५२.१८ ॥
耶输陀抛下他,前往亚穆纳河。那时,婴儿挥动着自己的手脚,玩起了孩童的游戏。
2.52.19
रुरोद मधुरं कृष्णः पादावूर्ध्वं प्रसारयन् ।
पादाङ्गुष्ठेन शकटं दारयन्नथ केशवः ॥ २.५२.१९ ॥
克里希那甜美地哭泣,将双脚向上伸展。随后克舍婆用脚的大趾劈开了那辆车。
2.52.20
तत्र एकेन पादेन पातयित्वा तथा शिशुः ।
न्युब्जं पयोधराकाङ्क्षी ससार च रुरोद च ॥ २.५२.२० ॥
婴儿在那里以一脚如此踢倒了它,俯身爬行,渴望乳房,并哭泣起来。
2.52.21
पाटितं शकटं दृष्ट्वा भिन्नभाण्डपुटीकटम् ।
जनास्ते शिशुना तेन विस्मयं परमं ययुः ॥ २.५२.२१ ॥
众人见车被劈裂,锅与篮都碎了,因那婴儿所做之事而极为惊异。
2.52.22
प्रत्यक्षं शूरसेनानां दृश्यते महदद्भुतम् ।
शयानेन हतः कंसपक्षवांस्तिग्मतेजसा ॥ २.५२.२२ ॥
在舒罗森人眼前显现了一件大奇事:那位光辉炽烈者躺在那里,便击杀了刚萨的党羽。
2.52.23
पूतना चापि निहता महाकाया महास्तनी ।
ततः काले महाराज संसक्तौ रामकेशवौ ॥ २.५२.२३ ॥
巨大身躯、硕大乳房的普坦那也被杀死了。之后,大王,在适当的时候,罗摩与克舍婆相聚在一起。
2.52.24
कृष्णः सङ्कर्षणश्चोभौ रिङ्खिणौ च बभूवतुः ।
अन्योन्यकिरणाक्रान्तौ चन्द्रसूर्याविवाम्बरे ॥ २.५२.२४ ॥
克里希那与桑卡尔沙那二人皆成为爬行的幼儿,彼此的光辉相互笼罩,如同天空中的月与日。
2.52.25
विसर्पन्तौ च सर्वत्र महासर्पभुजौ तदा ।
रेजतुः पांसुदिग्धाङ्गौ रामकृष्णौ तदा नृप ॥ २.५२.२५ ॥
二人遍地爬行,双臂如大蛇,身上沾满尘土,王啊,罗摩与黑天当时闪耀光芒。
2.52.26
क्वचिच्च जानुभिः स्पृष्टौ क्रीडमानौ क्वचिद्वने ।
पिबन्तौ दधिकुल्यांश्च मथ्यमाने च भारत ॥ २.५२.२६ ॥
有时跪膝而行,有时在林中嬉戏,饮着搅动中的凝乳之流,婆罗多啊。
2.52.27
ततः स बालो गोविन्दो नवनीतं तदा क्षयम् ।
ग्रासमानस्तु तत्रायं गोपीभिर्ददृशे तथा ॥ २.५२.२७ ॥
那时,孩童戈文达正在吃着逐渐消失的黄油,被牧女们这样看见了。
2.52.28
दाम्नाऽथोलूखले कृष्णो गोपीभिश्च निबन्धितः ।
तत्तथा शिशुना तेन कर्षता चार्जुनावृभौ ॥ २.५२.२८ ॥
于是牧女们用绳子把黑天绑在杵臼上;那孩子拖着它时,两棵阿周那树。
2.52.29
समूलविटपौ भग्नौ तदद्भुतमिवाभवत् ।
ततस्तौ बाल्यमुत्तीर्णौ कृष्णसङ्कर्षणावुभौ ॥ २.५२.२९ ॥
那两棵树连根带枝折断,那真是奇迹。那时,黑天与桑迦尔沙那二人度过了童年。
2.52.30
तस्मिन्नेव व्रजस्थाने सप्तवर्षै बभूवतुः ।
नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ ॥ २.५२.३० ॥
就在那同一个伐罗阇之地,二人已长到七岁,身着蓝黄衣裳,涂着黄色与白色的香膏。
2.52.31
बभुवतुर्वत्सपालौ काकपक्षधरावुभौ ।
पर्णवाद्यं श्रुतिसुखं वादयन्तौ वराननौ ॥ २.५२.३१ ॥
二人成为牧牛犊的牧童,都戴着乌鸦羽毛的头饰,吹奏着悦耳的树叶乐器,面容俊美。
2.52.32
शुशुभाते वनगतौ त्रिशीर्षाविव पन्नगौ ।
मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ ॥ २.५२.३२ ॥
在林中行走的二人光彩照人,如同三头的蛇;耳上戴着孔雀羽的饰物,身上佩戴着嫩叶的花环。
2.52.33
वनमालापरिक्षिप्तौ सालपोताविवोद्गतौ ।
अरविन्दकृतापीडौ रज्जुयज्ञोपवीतिनौ ॥ २.५२.३३ ॥
缠绕着野花花环的二人,宛如拔地而起的幼小娑罗树;他们戴着莲花冠,以绳索作为圣线。
2.52.34
सशिक्यतुम्बुरुकरौ गोपवेणुप्रवादकौ ।
क्वचिद्वसन्तावन्योन्यं क्रडमानौ क्वचिद्वने ॥ २.५२.३४ ॥
手持吊篮与 tumburu 乐器,吹奏牧人的笛子;有时在林中相伴嬉戏而居。
2.52.35
पर्णशय्यासु तौ सुप्तौ क्वचिन्निद्रान्तरैषिणौ ।
तौ वत्सान्पालयन्तौ हि शोभयन्तौ महद्वनम् ॥ २.५२.३५ ॥
他们在树叶床上睡觉,有时中间又醒来寻觅睡意;二人看护着牛犊,为大森林增添光彩。
2.52.36
चञ्चूर्यन्तौ रमन्तौ च राजन्नेवं तदा शुभम् ।
ततो बृन्दावनं गत्वा वसुदेवसुतावुभौ।
गोकुलं तत्र कौन्येय चारयन्तौ विजह्रतुः ॥ २.५२.३६ ॥
国王啊,二人就这样自在嬉戏,欢乐无比;此后,二位婆苏提婆之子来到温达文,昆提之子啊,他们在那里的牛栏村放牧嬉戏。