Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.53

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.53.1

ततः कदचिद्गोविन्दो ज्येष्ठं सङ्कर्षणं विना ।
चचार तद्वनं रम्यं सुस्वरूपो वराननः ॥ २.५३.१ ॥

有一次,戈温达没有他的长兄桑羯沙那,在那片可爱的森林中漫游,形貌俊美,面容秀丽。

2.53.2

काकपक्षधरः श्रीमाञ्छ्यामः पद्मनिभेक्षणः ।
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ॥ २.५३.२ ॥

佩戴乌鸦羽毛,光辉尊贵,肤色黝黑,眼如莲瓣,胸前有吉祥卍印,身具如月的标记。

2.53.3

रज्जुयज्ञोपवीती स पीताम्बरधरो युवा ।
श्वेतचन्द्रनलिप्राङ्गो नीलकुञ्चितमूर्धजः ॥ २.५३.३ ॥

那位年轻人以绳索为圣线,身穿黄衣,肢体涂抹白檀香,蓝黑色的卷发。

2.53.4

राजता बर्हिपत्रेण मन्दमारुतकम्पिना ।
क्वचिद्गायन्क्वञ्चित्क्रीडन्क्वचिन्नृत्यन्क्वचिद्धसन् ॥ २.५३.४ ॥

头戴闪亮的孔雀翎,随着微风摇曳;有时歌唱,有时嬉戏,有时起舞,有时欢笑。

2.53.5

गोपवेणुं सुमधुरं कामं तदपि वादयन् ।
प्रह्लादनार्थं च गवां क क्वचिद्वनगतो युवा ॥ २.५३.५ ॥

随心吹奏牧人的长笛,声音极为甜美,为使牛群欢喜,那位年轻人去了林中某处。

2.53.6

गोकुले मेघकाले तु चचार द्युतिमान्प्रभुः ।
बहुरम्येषु देशेषु वनस्य वनराजिपु ॥ २.५३.६ ॥

雨季时,光辉的主在牛村(哥古拉)中漫游,走过许多林木成行的可爱之地。

2.53.7

तासु कृष्णो मुदा युक्तः क्रीडयन्भरतर्षभ ।
स कदाचिद्वने तस्मिन्गोभिः सह परिव्रजन् ॥ २.५३.७ ॥

婆罗多族的雄牛啊,克里希那在那些地方欢乐地嬉戏。他有一次与牛群一起在那片森林中漫游。

2.53.8

भाण्डीरं नाम दृष्ट्वाऽथ न्यग्रोधं केशवो महान् ।
तच्छायायां मतिं चक्रे निवासाय तदा प्रभुः ॥ २.५३.८ ॥

随后,伟大的克沙瓦看见一棵名为婆那提罗的榕树,便决定住在它的荫下,那时的主宰如此。

2.53.9

स तत्र वयसा तुल्यैर्बत्सपालैस्तदाऽनघ ।
रेमे स दिवसं कृष्णः पुरा स्वर्गगतो यथा ॥ २.५३.९ ॥

无罪的人啊,克里希那在那里与同龄的牧童整日欢乐,正如他从前在天上一样。

2.53.10

तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः ।
रमयन्ति स्म बहवो मान्यैः क्रीडनकैस्तदा ॥ २.५३.१० ॥

住在婆那提罗的许多牧人,那时便用精美的玩具使那嬉戏的克里希那欢喜。

2.53.11

अन्ये स्म परिगायन्ति गोपा मुदितमानसाः ।
गोपालकृष्णमेवान्ये गायन्ति स्म वनप्रियाः ॥ २.५३.११ ॥

心情欢悦的牧人们四处歌唱,而喜爱森林的其他人则只歌唱牧童克里希那。

2.53.12

तेषां सङ्गायतामेव वादयामास केशवः ।
पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र वै ॥ २.५३.१२ ॥

在他们歌唱之时,克沙瓦便在那里,于树叶乐器之间吹奏笛子和葫芦维纳琴。

2.53.13

एवं क्रीडान्तरैः कृष्णो गोपालैर्विजहार सः ।
तेन बालेन कौन्तेय कृतं लोकहितं तदा ॥ २.५३.१३ ॥

克里希纳就这样在游戏间隙与牧童们玩耍。贡蒂之子啊,那个孩子当时做了一件造福世界的事。

2.53.14

पश्यतां सर्वभूतानां वासुदेवेन भारत ।
ह्रदे निपातता तत्र क्रीडितं नागमूर्धनि ॥ २.५३.१४ ॥

婆罗多啊,在一切众生注视之下,瓦苏提婆跃入湖中,在蛇首之上嬉戏。

2.53.15

शासयित्वा तु कालीयं सर्वलोकस्य पश्यतः ।
विजहार ततः कृष्णो बलेदवसहायवान् ॥ २.५३.१५ ॥

当全世界注视之下制服了迦梨耶之后,克里希纳便与巴拉罗摩相助而嬉戏。

2.53.16

धेनुको दारुणो राजन्दैत्यो रासभविग्रहः ।
तदा तालवने राजन्बलदेवेन वै हतः ॥ २.५३.१६ ॥

大王啊,残暴的恶魔驮努迦化为驴形。大王啊,那时在多罗林中,他被巴拉罗摩杀死了。

2.53.17

ततः कदाचित्कौन्तेय रामकृष्णौ वनं गतौ ।
चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ ॥ २.५३.१७ ॥

之后有一次,贡蒂之子啊,面容俊美的罗摩与克里希纳走入森林,放牧已经长大的牛群。

2.53.18

विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै ।
श्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान् ॥ २.५३.१८ ॥

二人满怀喜悦,观赏森林,摇荡嬉戏,高声歌唱,在树木间寻找。

2.53.19

नामभिर्व्याहरन्तौ च वत्सान्गाश्च परन्तपौ ।
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ॥ २.५३.१९ ॥

两位焚敌者以名字呼唤牛犊与母牛,在世间闻名的游戏中漫游;二人皆不可战胜。

2.53.20

तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ २.५३.२० ॥

这二位神明化作人形,受诸神敬拜,以合乎其族性质的游戏在林中漫游。

2.53.21

एवं बाल्येऽपि गोपालैः क्रीडाभिश्च विजह्रतुः ॥ २.५३.२१ ॥

如此,即使在童年,二人也与牧童一同嬉戏。

2.53.22

ततः कृष्णो महातेजास्तदा गत्वा तु गोव्रजम् ।
गिरियज्ञं तमेवैष प्रवृत्तं गोपदारकैः ॥ २.५३.२२ ॥

于是大光辉的黑天前往牛栏,参与了牧童们所发起的那场山祭。

2.53.23

बुभुजे पायसं शौरिरीश्वरः सर्वभूतकृत् ।
तं दृष्ट्वा गोपकाः सर्वे कृष्णमेव समर्चयन् ॥ २.५३.२३ ॥

创造一切众生的主宰者沙乌利吃了乳糜饭;众牧人见此,都只供奉黑天。

2.53.24

पूज्यमानस्तदा देवैर्दिव्यं वपुरधारयत् ।
धृतो गोवर्धनो नाम सप्ताहं पर्वतो धृतः ॥ २.५३.२४ ॥

此时他受诸神供奉,显现神圣之身;名为戈瓦尔丹那的那座山被高举了七日。

2.53.25

शिशुना वासुदेवेन गवार्थमरिमर्दन ।
क्रीडमानस्तदा कृष्णः कृतवान्कर्म दुष्करम् ॥ २.५३.२५ ॥

灭敌者啊!为了牛群,童子婆薮提婆之子黑天当时在嬉戏中完成了一件难事。

2.53.26

तदद्भुतमतीवासीत्सर्वलोकस्य भारत ।
देवदेवः क्षितं गत्वा कृष्णं नत्वा मुदान्वितः। ॥ २.५३.२६ ॥

婆罗多的后裔啊!那件事对所有世界都极为奇妙。神中之神降临大地,向黑天致敬,充满喜悦。

2.53.27

गोविन्द इति तं ह्युक्त्वा ह्यभ्यषिञ्चत्पुरन्दरः ।
इत्युक्त्वाश्लिष्य गोविन्दं पुरुहूतोभ्ययाद्दिवम् ॥ २.५३.२७ ॥

称他为"戈文达",因陀罗便为他行灌顶之礼。说完这些,拥抱戈文达之后,补卢呼多(因陀罗)便返回天界。

2.53.28

अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम् ।
जघान तरसा कृष्णः पशूनां हितकाम्यया ॥ २.५३.२८ ॥

随后,黑天为了牲畜的福祉,迅速杀死了名为阿里斯吒、具有公牛形体的达伊提亚。

2.53.29

केशिनामा ततो दैत्यो राजंस्तुरगविग्रहः ।
तथा वनगतं पार्थ गजायुतबलं हयम् ॥ २.५३.२९ ॥

国王啊,随后名为柯希的达伊提亚化作马形而来;那匹曾入林中、拥有万头象之力的马,啊普利塔之子,[黑天也将其杀死]。

2.53.30

कराम्भोरुहवज्रेण जघान मधुसूदनः ।
अथ मल्लं तु चाणूरं निजघान महाऽसुरम् ॥ २.५३.३० ॥

摩图苏陀那以其莲花手中的金刚杵击杀了他。随后,他又杀死了伟大的阿修罗、摔跤手遮奴罗。

2.53.31

सुदामानममित्रघ्न सर्वसैन्यपुरस्कृतम् ।
बालरूपेण गोविन्दो निजघान च भारत ॥ २.५३.३१ ॥

婆罗多之子啊,灭敌者戈文达化作童子,杀死了立于全军之前的苏陀摩。

2.53.32

बलदेवेन चायत्नात्समाजे मुष्टिको हतः ।
ताडितश्च सहामात्यः कंसः कृष्णेन भारत ॥ २.५३.३२ ॥

婆罗多之子啊,大力罗摩在集会中毫不费力地杀死了穆什提迦,黑天则击打了与大臣在一起的刚萨。

2.53.33

हत्वा कंसममित्रघ्नः सर्वेषां पश्यतां तदा ।
अभिषिच्योग्रसेनं तं पित्रोः पादमवन्दत। ॥ २.५३.३३ ॥

灭敌者杀死刚萨后,在众人注视下为乌格拉塞那行灌顶礼,随后拜倒在父母的脚下。

2.53.34

एवमादीनि कर्माणि कृतवान्वै जनार्दनः ॥ २.५३.३४ ॥

阇那陀那完成了诸如此类的事迹。