Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.54

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.54.1

ततस्तौ जग्मतुस्तत्र गुरुं सान्दीपिनिं पुनः ।
गुरुशुश्रूषणायुक्तौ धर्मज्ञौ धर्मचारिणौ ॥ २.५४.१ ॥

于是二人再次前往他们的老师舍底披尼那里,专心侍奉师父,通晓法(dharma),奉行法。

2.54.2

व्रतमुग्रं महात्मानौ विचरन्ताववन्तिषु ।
अहोरात्रैश्चतुष्पष्ट्या साङ्गान्वेदानवापतुः ॥ २.५४.२ ॥

两位大德在阿梵提游方,立下严格的誓愿,经六十四个昼夜,便连同支分一起获得了吠陀。

2.54.3

लेख्यं च गणितं चोभौ प्राप्नुतां यदुनन्दनौ ।
गान्धर्ववेदं वैद्यं च सकलं समावापतुः ॥ २.५४.३ ॥

这两位是耶度族的欢喜者,他们学会了书写与算术,并且完全掌握了乾闼婆吠陀与医术。

2.54.4

हस्तिशिक्षामश्विशिक्षां द्वादशाहेन चाप्नुताम् ।
तावुभौ जग्मतुर्वीरौ गुरुं सान्दीपिनिं पुनः ॥ २.५४.४ ॥

十二天内,他们学得了驯象与驯马之术;随后这两位英雄又前往老师舍底披尼那里。

2.54.5

धनुर्वेदचिकीर्षार्थं धर्मज्ञौ धर्मचारिणौ ।
ताविष्वासवराचार्यमभिगम्य प्रणम्य च ॥ २.५४.५ ॥

二人为了学习弓箭之学,通晓法、奉行法,前往最杰出的射箭老师处,向他行礼。

2.54.6

तेन वै सत्कृतौ राजंश्चरन्तौ ताववन्तिषु ।
पञ्चाशद्भिरहोरात्रैर्दशाङ्गं सुप्रतिष्ठितम् ॥ २.५४.६ ॥

大王啊,二人受他尊敬,在阿梵提游方,经五十个昼夜,便将十支之学牢固地确立起来。

2.54.7

सरहस्यं धनुर्वेदं सकलं ताववापतुः ।
दृष्ट्वा कृतार्थो विप्रेन्द्रो गुर्वर्थे तावचोदयत् ॥ २.५४.७ ॥

二人获得了弓术之学及其秘诀,并已全部掌握。那位婆罗门中的上首见自己的心愿已成,便为了师尊而催促他们二人。

2.54.8

अयाचतार्थं गोविन्दं तदा सान्दीपिनिर्विभुम् ।
मम पुत्रः समुद्रेऽस्मिंस्तिमिना चापवाहितः ॥ २.५४.८ ॥

那时,尊那的儿子向全能的戈文达请求一件恩赐:"在这片海中,我的儿子被一条鲸鱼卷走了。"

2.54.9

पुत्रमानय भद्रं ते भक्षितं तिमिना मम ।
आर्ताय गुरवे तत्र प्रतिशुश्राव दुष्करम् ॥ २.५४.९ ॥

"把我的儿子带回来吧,愿你吉祥;鲸鱼已经把他吞下了。"对于悲伤的老师,他在那里允诺了一件艰难的事。

2.54.10

अशक्यं सर्वभूतेषु कर्तुमन्येन केनचित् ।
यश्च सान्दीपिनेः पुत्रं जहार भरतर्षभ ॥ २.५४.१० ॥

"在一切众生之中,任何其他人都无法做到这件事——那个劫走了尊那之子的,哦,婆罗多族的雄牛。"

2.54.11

सोऽसुरः समरे ताभ्यां समुद्रे विनिपातितः ।
ततः सान्दीपिनेः पुत्रः प्रसादादमितौजसः ॥ २.५४.११ ॥

那个阿修罗在战斗中被二人击落于海中。之后,凭着无量威力者的恩惠,尊那之子(重获生命)。

2.54.12

दीर्घकालं कृतः प्रेतः पुनरासीच्छरीरवान् ।
तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् ॥ २.५४.१२ ॥

那个长久死去的人又重新有了身体。看到这件不可能、不可思议而又极其奇妙的事情,

2.54.13

सर्वेषामेव भूतानां विस्मयः समजायत ।
आसनानि च सर्वाणि गवाश्वं च धनादिकम् ॥ २.५४.१३ ॥

一切众生都感到惊异。所有的座位、牛马与财物等等。

2.54.14

सर्वं तदुपजहाते गुरवे रामकेशवौ ।
गदापरिघयुद्धे च सर्वास्त्रेषु च केशवः ॥ २.५४.१४ ॥

罗摩与刻舍婆将这一切奉献给了老师。在锤与铁棒之战中,以及在一切兵器上,刻舍婆(最为精通)。

2.54.15

परमां मुख्यतां प्राप्तः सर्वलोकेषु विश्रुतः ।
कश्च नारायणादन्यः सर्वरत्नविभूषितम् ॥ २.५४.१५ ॥

获得至高尊位、名闻一切世界的人——除那罗延(Nārāyaṇa)之外,还有谁以一切宝石来装饰自己?

2.54.16

रथमादित्यसङ्काशमातिष्ठेत शचीपतेः ।
कस्य चाप्रतिमो यन्ता वज्रपाणेः प्रियः सखा ॥ २.५४.१६ ॥

在如太阳般的战车上,舍遮之主(因陀罗)会登上。持金刚杵者(因陀罗)的无双御者与亲爱的朋友是谁?

2.54.17

मातलिः सङ्गृहीता स्यादन्यत्र पुरुषोत्तमात् ।
भोजराजात्मजो वापि कंसस्तात युधिष्ठिर ॥ २.५४.१७ ॥

除了摩多梨,除了人中最上者(黑天),无人能够掌握它。或者即使是婆闍王之子迦恭娑,亲爱的坚战啊。

2.54.18

अस्त्रजाते बले वीर्ये कार्तवीर्यसमोऽभवत् ।
तस्य भोजपतेः पुत्राद्भोजराजन्यवर्धनात् ॥ २.५४.१८ ॥

在兵器、力量与勇气方面,他与迦尔塔维利耶相等——来自那位婆闍之主之子,他增长了婆闍王族。

2.54.19

उद्विजन्ते स्म राजानः सुपर्णादिव पन्नगाः ।
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनः ॥ २.५४.१९ ॥

诸王畏惧他,如蛇怕金翅鸟(迦鲁达);他是手持彩弓、利剑与明亮长矛的战士。

2.54.20

शतं शतसहस्राणि पादातास्तस्य भारत ।
अष्टौ शतसहस्राणि शूराणामनिवर्तिनाम् ॥ २.५४.२० ॥

婆罗多之子啊,他有百万的百倍步兵,以及八十万永不退却的勇士。

2.54.21

अभवन्भोजराजस्य जाम्बूनदमया ध्वजाः ।
रुक्मकाञ्चनकक्ष्यास्तु रथास्तस्य युधिष्ठि ॥ २.५४.२१ ॥

薄阁王的旌旗为金制;他的车驾带有金饰与金制的皮带,持盘王啊。

2.54.22

अभवन्भोजपुत्रस्य द्विपास्तावद्धि तद्बलम् ।
चित्रकार्मुकनिस्त्रिंशविमलप्रासयोधिनाम् ॥ २.५४.२२ ॥

薄阁之子拥有同样多的象;那便是他军队的力量,由手持彩弓、利剑与明亮长矛的勇士组成。

2.54.23

षोडशाश्वसहस्राणि किंशुकाभानि तस्य वै ।
अपरस्तु महाव्यूहः किशोरणां युधिष्ठिर ॥ २.५४.२३ ॥

他有一万六千匹马,色如红花(金翅木花);持盘王啊,还有另一支由幼马组成的大阵。

2.54.24

आरोहवरसम्पन्नो दुर्धर्षः केनचिद्बलान् ।
स च षोडशसाहस्रः कंसभ्रातृपुरः सरः ॥ २.५४.२४ ॥

这支军阵拥有精良的骑手,力量无人能敌,共一万六千人,由刚萨的兄弟们率领。

2.54.25

सुनामा सर्वतस्त्वेनं स कंसं पर्यपालयत् ।
सगणो मिश्रको नाम षष्टिमसाहस्र उच्यते ॥ २.५४.२५ ॥

须那摩从四面全力守护他,即刚撒。名为弥室罗迦的一队据说有六万人。

2.54.26

कंसरोषमहावेगां वैवस्वतवशानुगाम् ।
मत्तद्विपमहाग्राहां वैवस्वतवशानुगाम् ॥ २.५४.२६ ॥

以刚撒愤怒的巨大力量为速,遵从毗婆娑陀的统治,以狂暴的象群为大鳄,遵从毗婆娑陀的统治。

2.54.27

शस्रजालमहाफेनां सादिवेगमहाजलाम् ।
गदापरिघपाठीनां नानाकवचशैवलाम् ॥ २.५४.२७ ॥

以兵器之网为巨大泡沫,以骑士疾速为巨大水流,以狼牙棒与铁棍为鱼,以各种铠甲为水藻。

2.54.28

रथनागमहावर्तां नानारुधिरकर्दमाम् ।
चित्रकार्मुककल्लोलां रथाश्वकलिलह्रदाम् ॥ २.५४.२८ ॥

以车与象为巨大漩涡,以各种鲜血为泥淖,以彩色弓为波浪,是一个充满战车与马匹的池塘。

2.54.29

महामृधनदीं घोरां योधावर्तननिस्वनाम् ।
कोऽन्यो नारायणादेत्य कंसहन्ता युधिष्ठिर ॥ २.५४.२९ ॥

那可怖的大战之河,充满战士回旋的吼声。坚战啊,除了那罗延,还有谁来过并成为刚撒的杀者?

2.54.30

एष शक्ररथे तिष्ठंस्तान्यनीकानि भारत ।
व्यधमद्भोजपुत्रस्य महाभ्राणीव मारुतः ॥ २.५४.३० ॥

他站在因陀罗的战车上,婆罗多啊,驱散了那位婆阇之子的军队,如同风吹散大云。

2.54.31

तं सभास्थं सहामात्यं हत्वा कंसं सहान्वयम् ।
आनयामास मानार्हां देवकीं समुहृद्गणाम् ॥ २.५४.३१ ॥

他杀死了坐在议事厅中的刚萨及其大臣和全族,把值得尊敬的提瓦基与她的亲友一同接了回来。

2.54.32

यशोदां रोहिणीं चैव अभिवाद्य पुनः पुनः ।
उग्रसेनं च राजानमभिषिच्य जनार्दनः ॥ २.५४.३२ ॥

他反复向耶首达与罗希妮致敬,并为国王乌格罗塞纳行了灌顶礼,即是遮那陀那(黑天)。

2.54.33

अर्चितो यदुमुख्यैश्च भगवान्वासवानुजः ।
ततः पार्थिवमायान्तं सहितं सर्वराजभिः।
सरस्वत्यां जरासन्धमजयत्पुरुषोत्तमः ॥ २.५४.३३ ॥

受诸位耶度族首领尊崇的因陀罗之弟世尊,随后在娑罗私伐底河岸击败了与诸王同来的国王迦罗山陀。那位人中至上者。