Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.56.1

निहत्य नरकं भौमं सत्यभामासहायवान् ।
सहितो लोकपालैश्च ददर्श नरकालयम् ॥ २.५६.१ ॥

他杀死了地之子那罗迦,在萨蒂亚帕玛相伴下,与世界守护者一同,看见了那罗迦的居所。

2.56.2

अथास्य गृहमासाद्य नारकस्य महात्मनः ।
ददर्श धनमक्षय्यं रत्नानि विविधानि च। ॥ २.५६.२ ॥

随后,他到达那位大心者那罗迦的宅邸,看见了无尽的财富和各种宝石。

2.56.3

मणिमुक्ताप्रवालानि वैडूर्यविकृतानि च ।
विस्ताराल्पांश्चार्कमणीन्विपुलान्स्फाटिकानपि ॥ २.५६.३ ॥

宝石、珍珠与珊瑚,加工成形的青金石,大小不一的日光石,以及巨大的水晶。

2.56.4

जाम्बूनदमयान्येव शातकुम्भमयानि च ।
प्रदीप्तज्वलनाभानि शीतरश्मिप्रभाणि च ॥ २.५६.४ ॥

由阎浮檀金与紫磨金制成,闪耀如熊熊烈火,光辉如冷光之月。

2.56.5

हिरण्यवर्णं रुचिरं श्वेतमभ्यन्तरं गृहम् ।
तदक्षय्यं गृहे दृष्टं नरकस्य धनं बहु ॥ २.५६.५ ॥

那是一座华美的金色白色内室;在那罗迦的宅中,他看见了大量无尽的财富。

2.56.6

न हि राज्ञः कुबेरस्य तावद्धनसमुच्छ्रयः ।
दृष्टपूर्वः पुरा साक्षान्महेन्द्रभवनेष्वपि ॥ २.५६.६ ॥

即便是国王俱毗罗的财富堆,过去也从未亲眼见到如此巨大,即使在大因陀罗的宫殿中也没有。

2.56.7

हते भौमे निशुम्भे च वासवः सगणोऽब्रवीत् ।
दाशार्हपतिमासीनमाहृत्य मणिकुण्डले ॥ २.५६.७ ॥

当菩摩与尼舒姆跋被杀之后,因陀罗(Vāsava)与其众随从对就座的达沙尔诃之主说话,并取来了宝石耳环。

2.56.8

हेमसूत्रा महाकक्ष्यास्तोमरैर्वीर्यशालिनः ।
विमलानि पताकानि वासांसि विविधानि च ॥ २.५६.८ ॥

以金线装饰、带有宽大马具、配备长矛、充满勇力的它们;还有洁净的旗幡和各式衣物。

2.56.9

भीमरूपाश्च मातङ्गाः प्रवालविकृताः कुथाः ।
ते च विंशतिसाहस्रा द्वास्तावत्यः करेणवः ॥ २.५६.९ ॥

形貌可怖的象群,装饰如珊瑚的鞍毯;共有二万头,另有同样数量的两千头母象。

2.56.10

अष्टौ शतसहस्राणि देशजाश्चोत्तमा हयाः ।
गोभिश्चाविकृतैर्यावत्कामात्तव जनार्दन ॥ २.५६.१० ॥

八十万匹优良的本地马,以及无瑕的牛群,多少随你所愿,哦,Janārdana。

2.56.11

एतत्ते प्रापयिष्याणि वृष्ण्यावासमरिन्दम ।
वसु यत्रिषु लोकेषु धर्मेणावर्जितं त्वया ॥ २.५६.११ ॥

哦,降伏敌人者,我将把这一切送到牝鹿族(Vṛṣṇi)的居所——那是你在三界中以法所获得的财富。

2.56.12

देवगन्धर्वरत्नानि दैतेयासुरजानि च ।
यानि सन्ति हिरण्यानि नरकस्य निवेशने ॥ २.५६.१२ ॥

天神与乾达婆的宝石,生于提提与阿修罗的宝物,以及那那罗迦居所中的黄金。

2.56.13

एतत्तु गरुडे सर्वं क्षिप्रमारोप्य वासवः ।
दार्शार्हपतिना सार्धमुपायान्मणिपर्वतम् ॥ २.५६.१३ ॥

因陀罗迅速将这一切载于迦楼罗之上,与达萨尔哈之主一同前往摩尼山。

2.56.14

चित्रग्रथितमेघाभः प्रबभौ मणिपर्वतः ।
हेमचित्रवितानैश्च प्रासादैरुपशोभितः ॥ २.५६.१४ ॥

摩尼山如同五彩织成的云彩般光辉灿烂,装饰着金色斑斓的华盖与宫殿。

2.56.15

हर्म्याणि च विशालानि मणिसोपानवन्ति च ।
तत्रस्था वरवर्णिन्यो ददृशुर्मधुसूदनम् ॥ २.५६.१५ ॥

那里有宽阔的宫殿,台阶由宝石砌成;站在那里的美貌女子们看见了摩图苏陀那。

2.56.16

गन्धर्वसुरमुख्यानां प्रिया दुहितरस्तदा ।
त्रिविष्टपसमे देशे तिष्ठन्तमपराजितम् ॥ २.५६.१६ ॥

那时,乾闼婆与阿修罗首领心爱的女儿们,看见站在那如天界般地域中的不败者。

2.56.17

परिवव्रुर्महाबाहुमेकवेणीधराः स्त्रियः ।
पर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ॥ २.५६.१७ ॥

梳着单辫、身着赭黄衣、诸根收摄的女子们,将大臂者团团围住。

2.56.18

व्रतसन्तापजः शोके नात्र कश्चिदपीडयत् ।
अरजांसि च वासांसि बिभ्रत्यः कौशिकान्यपि ॥ २.५६.१८ ॥

此处无人因誓戒之热所生的悲伤而受苦;她们还穿着洁净的丝衣。

2.56.19

समेत्य यदुसिंहस्य चक्रुरस्याञ्जलिं स्त्रियः ।
ऊचुश्चैनं हृषीकेशं सर्वास्ताः कमलेक्षणाः ॥ २.५६.१९ ॥

众莲花眼的女子走近般度族的雄狮,合掌向他致敬,并对发罗(克里希那)说道。

2.56.20

नारदेन समाख्यातमस्माकं पुरुषोत्तम ।
आगमिष्यति गोविन्दः सुरकार्यार्थसिद्धये ॥ २.५६.२० ॥

最优秀的人啊,那罗陀告诉我们,哥温达将为完成诸神的使命而来。

2.56.21

सोऽसुरं नरकं हत्वा निशुम्भं मुरमेव च ।
भौमं च सपरीवारं हयग्रीवं च दानवम् ॥ २.५६.२१ ॥

他杀死了阿修罗那罗迦、尼输姆跋和慕罗,连同其眷属杀死了婆摩,又杀死了檀那婆海耶揭利婆。

2.56.22

तथा पञ्चजनं चैव प्राप्स्यते धनमक्षयम् ।
सोऽचिरेणैव कालेन युष्मन्मोक्ता भविष्यति ॥ २.५६.२२ ॥

同样,他杀死潘遮遮那后,将获得不朽的财富;不久之后,在适当的时候,他将成为你们的救主。

2.56.23

एवमुक्त्वागमद्धीरो देवर्षिर्नारदस्तथा ।
त्वां चिन्तयानाः सततं तपो घोरमुपास्महे ॥ २.५६.२३ ॥

说完这话,坚定的天仙那罗陀便离去了;我们则时刻思念你,修持苦行。

2.56.24

कालेऽतीते महाबाहुं कदा द्रक्ष्याम माधवम् ।
इत्येवं हृदि सङ्कल्पं कृत्वा पुरुषसत्तम।
तपश्चराम सततं रक्ष्यमाणा हि दानवैः ॥ २.५६.२४ ॥

最优秀的人啊,时光流逝,何时我们才能见到臂力强大的摩陀婆?怀着这一誓愿于心,我们不断修持苦行,并得到保护,免受檀那婆的侵害。

2.56.25

ततोऽस्मत्प्रियकामार्थं भगवान्मारुतोऽब्रवीत् ।
यथोक्तं नारदेनाथ न चिरात्तद्भविष्यति ॥ २.५६.२५ ॥

于是,为成全我们心中所愿,尊贵的风神说道:正如那罗陀所言,此事不久便会实现。

2.56.26

तासां परमनारीणामृषभाक्षं पुरः स्थितम् ।
ददृशुर्देवगन्धर्वा गृष्टीनामिव गोपतिम् ॥ २.५६.२६ ॥

在那些绝世美女面前,站着一位牛目者;天神与乾闼婆看见他,如同在牛群中见到牛王。

2.56.27

तस्य चन्द्रोपमं वक्त्रमुदीक्ष्य मुदितेन्द्रियाः ।
सम्प्रहृष्टा महाबाहुमिदं वचनमब्रुवन्। ॥ २.५६.२७ ॥

凝视他那如月的面容,心神欢喜,极其喜悦,他们对这位大臂者说出了这些话。

2.56.28

सत्यव्रत पुरा वायुरिदमस्मानिहाब्रवीत् ।
सर्वभूतहितज्ञश्च महर्षिरपि नारदः ॥ २.५६.२८ ॥

持守真誓者啊!往昔风神在此对我们这样说,那知晓一切众生之利的大仙那罗陀也如此说。

2.56.29

विष्णुर्नारायणो देवः शङ्खचक्रगदासिभृत् ।
स भौमं नरकं हत्वा भर्ता वो भविता ध्रुवम् ॥ २.५६.२९ ॥

手持法螺、轮盘、铁锤与宝剑的天神毗湿奴那罗延,杀死婆摩那罗迦之后,必定会成为你们的主君。

2.56.30

दिष्ट्या तस्यर्षिमुख्यस्य नारदस्य महात्मनः ।
वचनादेव सत्यं नो भर्ता भवितुमर्हसि ॥ २.५६.३० ॥

幸运的是,依那位大仙中的至尊、伟大的那罗陀之言,你确实配做我们真正的丈夫。

2.56.31

यत्प्रियं बत पश्याम श्रुतं प्रियमरिन्दम ।
दर्शनेन कृतार्थाः स्मो वयमस्य महात्मनः ॥ २.५६.३१ ॥

啊,降伏敌人者,我们所见所闻皆令人欣悦;因见此大德者,我们已心愿圆满。

2.56.32

उवाच हि यदुश्रेष्ठः सर्वास्ता जातमन्मथाः ।
यथा ब्रूत विशालाक्ष्यस्तत्सर्वं वो भविष्यति ॥ २.५६.३२ ॥

耶达瓦中最优秀者对心中生起欲念的她们all说:广眼的女士们,你们所说的一切都将为你们实现。

2.56.33

ततस्ता गरुडे सर्वाः सरत्नधनसञ्चयाः ।
क्षिप्रमारोपयाञ्चक्रे भगवान्देवकीसुतः ॥ २.५६.३३ ॥

于是世尊德瓦吉之子迅速使她们全部连同珠宝财富之堆,登上了迦鲁达。

2.56.34

सपक्षिगणमातङ्गं सव्यालमृगपन्नगम् ।
शाखामृगगणैर्जुष्टं सप्रस्तरशिलातलम् ॥ २.५६.३४ ॥

群鸟与象群充斥其间,有猛兽、鹿与蛇,猴群常来栖息,岩石与石地遍布。

2.56.35

न्यङ्कुभिश्च वराहैश्च रुरुभिश्च निषेवितम् ।
सप्रपातमहासानुं विचित्रशिखिसङ्कुलम् ॥ २.५६.३५ ॥

豪猪、野猪与斑鹿常来此地,山峰高耸、悬崖陡峭,遍布色彩斑斓的孔雀。

2.56.36

स महेन्द्रानुजः शौरिश्चकार गुरुडोपरि ।
पश्यतां सर्वभूतानामुत्पाट्य मणिपर्वतम् ॥ २.५६.३६ ॥

那位因陀罗的幼弟沙利,在一切众生注视之下,拔起宝石山,置于迦鲁达之上。

2.56.37

उपेन्द्रं बलदेवं च वासवं च महाबलम् ।
स्वपक्षबलविक्षेपैर्महाद्रिशिखरोपमः ॥ २.५६.३७ ॥

他甚至撼动了优毗因德罗、大力罗摩以及大力的婆娑(因陀罗);凭借己方力量的猛烈冲击,他看起来如同大山之巅。

2.56.38

दिक्षु सर्वासु संरावं स चक्रे गरुडो वहन् ।
आरुजन्पर्वताग्राणि पादपांश्च समुत्क्षिपन् ॥ २.५६.३८ ॥

他背负着迦楼罗,在所有方向上发出巨响,击碎山峰,把树木高高抛起。

2.56.39

सञ्जहार महाभ्राणि वैश्वानरपथं गतः ।
ग्रहनक्षत्रताराणां सप्तर्षीणां स्वतेजसा ॥ २.५६.३९ ॥

他行经毗诃婆那之路(天空),驱散了大片云层;以自身光辉掩盖了行星、星宿、星辰与七仙的光芒。

2.56.40

प्रभाजालमतिक्रम्य चाश्विनोश्च परन्तप ।
प्राप्य पुण्यतमं स्थानं देवलोकमरिन्दमः ॥ २.५६.४० ॥

噫,敌人的焚烧者!越过双阿输ין的光网,那制服敌人者到达了最为神圣的处所——天神之界。

2.56.41

शक्रसद्म समासाद्य चावरुह्य जनार्दनः ।
सोऽभिवाद्यादितेः पादावर्चितः सर्वदैवतैः।
ब्रह्मदक्षपुरोगैश्च प्रजापतिभिरेव च ॥ २.५६.४१ ॥

抵达帝释天的住所并降下后,檀那婆的毁灭者(克里希那)向提婆母阿底提的双足致敬;梵天、达刹等诸神以及众生之主都向他致敬。

2.56.42

अदितेः कुण्डले दिव्ये ददावथ तदा विभुः ।
रत्नान च परार्घ्याणि रामेण सह केशवः ॥ २.५६.४२ ॥

那时,无所不在的主赐予阿底提两只神圣的耳环;克什婆与罗摩一同赐予她极为珍贵的宝石。

2.56.43

प्रतिगृह्य च तत्सर्वमदितिर्वासवानुजम् ।
पूजयामास दाशार्हं रामं च विगतज्वरा ॥ २.५६.४३ ॥

阿提提接受了这一切,无忧无虑地礼敬了因陀罗的幼弟达沙尔诃与罗摩。

2.56.44

शची महेन्द्रमहिषी कृष्णस्य महिषीं तदा ।
सत्यभामां तु सङ्गृह्य अदित्यै सा न्यवेदयत् ॥ २.५६.४४ ॥

因陀罗的正妃舍遮随即携起克里希纳的正妃萨提亚帕玛,将她引见给阿提提。

2.56.45

सा तस्याः सत्यभामायाः कृष्णाप्रियचिकीर्षया ।
वरं प्रादाद्देवमाता सत्यायै विगतज्वरा ॥ २.५६.४५ ॥

出于让克里希纳欢喜的心愿,无忧的天母赐予萨提亚(即那位萨提亚帕玛)一个恩惠。

2.56.46

जरां न यास्यसि शुभे यावत्कृष्णोऽस्ति भूतले ।
सर्वगन्धगुणोपेता भविष्यसि वरानने ॥ २.५६.४६ ॥

吉祥的女子啊,只要克里希纳在世间,你便不会衰老;容颜美好的女子啊,你将具备一切芬芳的德性。

2.56.47

विसृज्य सत्यभामा वै पौलोमीं च सुमध्यमा ।
शच्यापि समनुज्ञाता ययौ कृष्णनिवेशनम् ॥ २.५६.४७ ॥

纤腰的萨提亚帕玛辞别了宝罗密(舍遮),又得到舍遮的允许,便前往克里希纳的住所。

2.56.48

सम्पूज्यमानस्त्रिदशैर्महर्षिगणसेवितः ।
द्वारकां प्रययौ कृष्णो देवलोकादरिन्दमः ॥ २.५६.४८ ॥

受众神礼敬、为无数大仙环绕的克里希纳,这位降伏敌人者,从天界前往德瓦拉卡。

2.56.49

शीघ्रादेत्य महाबाहुर्दीर्घमध्वानमच्युतः। ॥ २.५६.४९ ॥

大臂的阿周那(无堕者)迅速走完漫长的路程而来。

2.56.59

वर्घमानपुरद्वारमाससाद सुरोत्तमः ॥ २.५६.५९ ॥

诸神中最优秀者到达了跋陀摩那城的门口。