マハーバーラタ · 章 2.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.6.1
सम्पूज्याथाभ्यनुज्ञातो महर्षेर्वचनात्परम् ।
प्रत्युवाचानुपूर्व्येण धर्मराजो युधिष्ठिरः ॥ २.६.१ ॥
大仙に敬意を表し、その言葉により許しを得て、法王ユディシュティラは順序立てて答えた。
2.6.2
भगवत्याय्यमाहैतं यथावद्धर्मनिश्चयम् ।
यथाशक्ति यथान्यायं क्रियतेऽयं विधिर्मया ॥ २.६.२ ॥
尊者が説かれた法の確定を、そのまま正しく述べよう。この儀礼は、私の力と正義に従って私が行うのである。
2.6.3
राजभिर्यद्यथा कार्यं पुरा वै तन्न संशयः ।
यथान्यायोपनीतार्थं कृतं हेतुमदर्थवत् ॥ २.६.३ ॥
王たちが昔なすべきことについては疑いない。正義によってもたらされた目的のために為されたことは、理由と意義をもつ。
2.6.4
वयं तु सत्पथं तेषां यातुमिच्छामहे प्रभो ।
न तु शक्यं तथा गन्तुं यथा तैर्नियतात्मभिः ॥ २.६.४ ॥
主よ、私たちは彼らの正しい道を歩みたいと願う。しかし自制した人々が歩んだように歩むことは、私たちには不可能である。
2.6.5
एकमुक्त्वा स धर्मात्मा वाक्यं तदभिपूज्य च ।
तं तु विश्रान्तमासीनं देवर्षिममितद्युतिम्
मुहूर्तात्प्राप्तकालं च दृष्ट्वा लोकचरं मुनिम् ॥ २.६.५ ॥
法の魂の人はこう言い、その言葉を敬ってのち、時が良いと見て、休んで座している無量の光輝の神仙と、世界を巡る聖者を見た。
2.6.6
नादरदं सुस्थमासीनमुपासीनो युधिष्ठिरः ।
अपृच्छत्पाण्डवस्तत्र राजमध्ये माहद्युतिः ॥ २.६.६ ॥
彼のそばに座った、王たちの中の大いなる光輝の般度の子ユディシュティラは、敬意を示すことなく安らかに座したまま、そこで問うた。
2.6.7
भवात्सञ्चरते लोकान्सदा नानाविधान्बहून् ।
ब्रह्मणा निर्मितान्पूर्वं प्रेक्षमाणो मनोजवः। ॥ २.६.७ ॥
バヴァ(シヴァ)から来た彼は、ブラフマーが昔創造した様々な多くの世界を常に巡り、思考のように速く見渡している。
2.6.8
ईदृशी भविता काचिद्दृष्टपूर्वा सभा क्वचित् ।
इतो वा श्रेयसी ब्रह्मंस्तन्ममाचक्ष्व पृच्छतः ॥ २.६.८ ॥
これに似た、あるいはこれより優れた集会堂が、以前どこかで見られたことがあるでしょうか。バラモンよ、尋ねる私に、それを語ってください。
2.6.9
वैशम्पायन उवाच ।
तच्छ्रुत्वा नारदस्तस्य धर्मराजस्य भाषितम्।
पाण्डवं प्रत्युवाचेदं स्मयन्मधुरया गिरा ॥ २.६.९ ॥
法王のその言葉を聞いて、ナーラダは微笑み、甘い声でパーンダヴァにこう語った。
2.6.10
मानुषेषु न मे तात दृष्टपूर्वा न च श्रुता ।
सभा मणिमयी राजन्यथेयं तव भारत ॥ २.६.१० ॥
親愛なる者よ、人間の中で私は以前、あなたのこの宝石の集会堂のようなものを見たことも聞いたこともありません。王よ、バーラタよ。
2.6.11
सभां तु पितृराजस्य वरुणस्य च धीमतः ।
कथयिष्ये तथेन्द्रस्य कैलासनिलयस्य च ॥ २.६.११ ॥
先祖の王ヤマ、賢明なヴァルナ、そしてカイラーサに住むインドラの集会堂を、私は語ろう。
2.6.12
ब्रह्मणश्च सभां दिव्यां कथयिष्ये गतक्लमाम् ।
दिव्यादिव्यैरभिप्रायैरुपेतां विश्वरूपिणीम् ॥ २.६.१२ ॥
ブラフマーの神聖な集会堂をも私は語ろう。それは疲れを知らず、神々しさを超えた神聖な設計を備え、万物の姿をしている。
2.6.13
देवैः पितृगणैः साध्यैर्यज्वभिर्नियतात्मभिः ।
जुष्टां मुनिगणैः शान्तैर्वेदयज्ञैः सदक्षिणैः
यदि ते श्रवणे बुद्धिर्वर्तते भरतर्षभ ॥ २.६.१३ ॥
神々、祖霊の群れ、サーディヤ神群、祭祀者たち、自己を制した聖仙の群れ、寂静の聖者たちが集い、ヴェーダの祭祀と布施に満ちた(その集会)。バラタの雄牛よ、もしあなたが聞く心を持つなら。
2.6.14
नारदेनैवमुक्तस्तु धर्मराजो युधिष्ठिरः ।
प्राञ्जलिर्भ्रातृभिः सार्धं तैश्च सर्वैर्द्विजोत्तमैः ॥ २.६.१४ ॥
ナーラダがこのように語ると、法王ユディシュティラは弟たちと、そして最上の再生者たち全員とともに合掌した。
2.6.15
नारदं प्रत्यवाचेदं धर्मराजो महामनाः ।
सभाः कथय ताः सर्वाः श्रोतुमिच्छामहे वयम् ॥ २.६.१५ ॥
偉大な心の法王はナーラダに語った。「それらすべての集会を語ってください。私たちは聞きたいのです。」
2.6.16
किन्द्रव्यास्ताः सभा ब्रह्मन्किंविस्ताराः किमायताः ।
पितामहं च के तस्यां सभायां पर्युपासते ॥ २.६.१६ ॥
バラモンよ、それらの集会はどんな材で造られ、どれほど広く、どれほど長いのですか。そしてその集会で祖父(梵天)に仕えるのは誰ですか。
2.6.17
वासवं देवराजं च यमं वैवस्वतं च के ।
वरुणं च कुबेरं च सभायां पर्युपासते ॥ २.६.१७ ॥
その集会で、神々の王ヴァーサヴァ(インドラ)、ヴィヴァスヴァットの子ヤマ、ヴァルナ、クベーラに仕えるのは誰ですか。
2.6.18
एतत्सर्वं यथान्यायं ब्रह्मर्षे वदतस्तव ।
श्रोतुमिच्छाम सहिताः परं कौतूहलं हि नः ॥ २.६.१८ ॥
バラモンの聖仙よ、これらすべてを道理にかなって語ってください。私たちは皆で聞きたいのです。私たちの好奇心は非常に強いのですから。
2.6.19
एवमुक्तः पाण्डवेन नारदः प्रत्यभाषत ।
क्रमेण राजन्दिव्यास्ताः श्रूयन्तामिह नः सभाः ॥ २.६.१९ ॥
パーンダヴァにそう呼びかけられ、ナーラダは答えた。「王よ、あの神々の集会について、順にここで聞きなさい。」