Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.71

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.71.1

ततः प्रववृते यज्ञो धर्मराजस्य धीमतः ।
शान्तविघ्नार्हणक्षोभो महर्षिगणसङ्कुलः ॥ २.७१.१ ॥

于是智慧的法王(坚战)的祭祀开始了,障碍已平息,充满敬奉与喧嚷,挤满了大仙人的群众。

2.71.2

तं तु यज्ञं महाबाहुरासमाप्तेर्जनार्दनः ।
ररक्ष भगवाञ्छौरिः शार्ङ्गचक्रगदाधरः ॥ २.७१.२ ॥

直至祭祀完成,大臂的生主(黑天)守护着这场祭祀;他是持弓、轮与杖的世尊、苏罗之子。

2.71.3

तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः ।
हेतुवादान्बहून्प्राहुः परपक्षजिगीषवः ॥ २.७१.३ ॥

祭祀进行之时,善辩的论辩者们为了战胜对方,提出了许多论点。

2.71.4

ददृशुस्ते नृपतयो यज्ञस्य विधिमुत्तमम् ।
उपेन्द्रस्येव विहितं सहदेवेन भारत ॥ २.७१.४ ॥

那些国王看到了祭祀的殊胜安排,仿佛是为优般陀罗(毗湿奴)而设,由偕天所布置,婆罗多之后。

2.71.5

तद्यज्ञे न्यवसन्राजन्ब्राह्मणा भृशमुत्सुकाः ।
कथयन्तः कथाः पुण्याः पश्यन्तो नटनर्तकान् ॥ २.७१.५ ॥

大王啊,婆罗门们十分热切地留在那祭祀中,讲述圣洁的故事,观看演员与舞者。

2.71.6

ददृशुस्तोरणान्यत्र हेमतालमयानि च ।
दीप्तभास्करतुल्यानि प्रदीप्तानीव तेजसा ॥ २.७१.६ ॥

他们在那里看到用黄金和棕榈制成的拱门,与炽烈的太阳相等,仿佛以自身的光辉燃烧。

2.71.7

स यज्ञस्तोरणैस्तत्र ग्रहैर्द्योरिव सम्बभौ ।
शय्यासनविहारांश्च सुबहून्रत्नसंवृतान् ॥ २.७१.७ ॥

那里的祭祀以门楼闪耀,如同星辰点缀的天空;还有许多覆以珠宝的床榻、座位和游乐之所。

2.71.8

घटान्पात्रीकटाहानि कलशानि समन्ततः ।
न ते किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः ॥ २.७१.८ ॥

各处都有瓮、器皿、锅和水罐;那里的国王们在其中看不到任何不是金制的东西。

2.71.9

भुञ्जानानां च विप्राणां स्वादुभोज्यैः पृथग्विधैः ।
अनिशं श्रूयते तत्र मुदितानां महात्मनाम् ॥ २.७१.९ ॥

那里,欢喜的大德婆罗门们享用着各式美味的食物,他们的喧声不绝于耳。

2.71.10

दीयतां दीयतामेषां भुज्यतां भुज्यतामिति ।
एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते तत्र नित्यशः ॥ २.७१.१० ॥

“给他们,给他们!”“吃吧,吃吧!”这样的呼声在那里不断地听到。

2.71.11

ओदनानां विकाराणि स्वादूनि च बहूनि च ।
विविधआनि च भक्ष्याणि पेयानि मधुराणि च ॥ २.७१.११ ॥

还有许多用米做的美味佳肴、各色食品和甜美的饮料。

2.71.12

ददुर्द्विजानां सततं राजप्रेष्या महाध्वरे ।
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां तदा ॥ २.७१.१२ ॥

在大祭祀中,国王的侍从不断地施予再生者们,即便数十万婆罗门正在进食之时。

2.71.13

स्थापितस्तत्र सञ्ज्ञार्थं शङ्खोऽध्मायत नित्यशः ।
मुहुर्मुहुः प्रणादस्तु तस्य शङ्खस्य भारत ॥ २.७१.१३ ॥

那里设置了一只海螺作为信号,每天不停地反复吹响。婆罗多啊,那海螺的声音一再回响。

2.71.14

उत्तमः श्रूयते शब्दः श्रुत्वा विस्मयमागमन् ।
एवं प्रवृत्ते यज्ञे तु तुष्टपुष्टजनायुते ॥ २.७१.१४ ॥

一种高亢的声音传来,人们听到后无不惊叹。祭祀如此开始时,场中充满了满足而丰足的人群。

2.71.15

अन्नस्य बहुशो राजन्नुत्सेधाः पर्वतोपमाः ।
दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः ॥ २.७१.१५ ॥

国王啊,堆积如山的食物随处可见;还能看到为民众准备的凝乳之河与酥油之湖。

2.71.16

जम्बूद्वीपो हि सकलो नानाजनपदायुतः ।
राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ ॥ २.७१.१६ ॥

国王啊,满布众多国土的整个閻浮洲,在那场大祭祀中,于国王身边聚集在一处。

2.71.17

तत्र राजसहस्राणि पुरुषाणां ततस्ततः ।
गृहीत्वा धनमाजग्मुस्तस्य राज्ञो महाक्रतौ ॥ २.७१.१७ ॥

成千上万的国王与人们从四面八方携带财物,来到那位国王的大祭祀之中。

2.71.18

राजानः स्रग्विणश्चैव संमृष्टमणिकुण्डलाः ।
तान्परीविविषुर्विप्राञ्छतशोऽथ सहस्रशः ॥ २.७१.१८ ॥

佩戴花环、戴着擦亮宝石耳环的国王们,为成百上千的婆罗门奉上食物。

2.71.19

विविधान्यन्नपानानि लेह्यानि विविधानि च ।
तेषां नृपोपभोग्यानि ब्राह्मणेभ्यो ददुः स्म ते ॥ २.७१.१९ ॥

他们将各式饮食、饮料以及各种可舔食之物(皆适于君王享用)分给婆罗门。

2.71.20

नानाविधानि भक्ष्याणि स्वादुपुष्पफलानि च ।
गुलानि स्वादुक्षौद्राणि ददुस्ते ब्राह्मणेषु वै ॥ २.७१.२० ॥

他们将种种食物、甘美的花果、糖蜜制成的点心以及甜蜜的蜂蜜施予婆罗门。

2.71.21

एतानि सततं भुक्त्वा तस्मिन्यज्ञे द्विजातयः ।
परां प्रीतिं ययुः सर्वे मोदमानास्ततस्ततः ॥ २.७१.२१ ॥

在那场祭祀中持续享用这些食物,所有再生者都获得了无上喜悦,欢欣地四处游走。

2.71.22

एवं प्रमुदितं सर्वं बहुशो धनधान्यवत् ।
यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं ययुः ॥ २.७१.२२ ॥

众王见到一切都如此欢愉,财富与谷物丰盈,望着祭场,无不惊叹不已。

2.71.23

यथाबद्धूयमानाग्निं राजसूयं महाक्रतुम् ।
पाण्डवस्य यथाशास्त्रं जुहुवुः सर्वयाजकाः ॥ २.७१.२३ ॥

按照规矩点燃圣火,在般度之子的大王祭(罗阇苏耶)中,所有主祭祭司依照经典所规定的仪轨进行献祭。

2.71.24

व्यासधौम्यादयः सर्वे विधिवत्षोडशर्त्विजः ।
स्वस्वकर्माणि चक्रुस्ते पाण्डवस्य महाक्रतौ ॥ २.७१.२४ ॥

毗耶娑、达乌摩亚等十六位主祭,依照规矩各自履行其职责,于般度之子的这场大祭中。

2.71.25

नाषडङ्गविदत्रासीत्सदस्यो नाबहुश्रुतः ।
नाव्रतो नानुपाध्यायो न पापो नाक्षमो द्विजः ॥ २.७१.२५ ॥

集会中没有一人不通晓六吠陀支、缺乏博学、不持誓戒、没有师尊、作恶或不能忍耐;也没有任何再生族是这样的。

2.71.26

न तत्र कृपणः कश्चिद्दरिद्रो न बभूव ह ।
क्षुधितो दुःखितो वापि प्राकृतो वापि मानुषः ॥ २.७१.२६ ॥

那里没有吝啬者,也没有贫穷者;没有饥饿的、痛苦的,甚至没有普通的人。

2.71.27

भोजनं भोजनार्थिभ्यो दापयामास सर्वदा ।
सहदेवो महातेजाः सततं राजशासनात् ॥ २.७१.२७ ॥

光辉伟大的sahadeva奉国王之命,始终让求食的人得到食物。

2.71.28

संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः ।
दिवस दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः ॥ २.७१.२८ ॥

在祭坛场地上,熟练的主祭祭司们以经典之义为眼,日复一日地完成所有祭仪。

2.71.29

ब्राह्मणा देवशास्त्रज्ञः कथाश्चक्रुश्च सर्वतः ।
रेमिरे च कथान्ते तु सर्वे तस्मिन्महाक्रतौ ॥ २.७१.२९ ॥

通晓神圣经典的婆罗门四处讲述故事;在这场大祭中,故事讲完之后,众人都欢喜。

2.71.30

सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः ।
बभासे तदा कीर्णा नक्षत्रैर्द्यौरिवामला ॥ २.७१.३० ॥

那祭坛充满了诸神、再生族和通晓吠陀的大仙,此时闪耀如布满星辰的清净天空。

2.71.31

पाण्डित्यदर्शनार्थाय केचन द्विजसत्तमाः ।
तर्कार्थमागताः केचित्केचिद्विद्याभिमानिनः ॥ २.७१.३१ ॥

一些最优秀的再生者前来展示their学问,一些人前来辩论,还有一些人以自己的学识自豪。

2.71.32

केचिद्दिदृक्षया केचिद्भीत्या राज्ञः प्रतापिनः ।
सर्वेऽप्यवभृथस्नाता याजकाः केचन द्विजाः ॥ २.७१.३२ ॥

有些人出于想要观看的愿望而来,有些人出于对威严国王的畏惧而来;所有人都已完成了终祭沐浴,其中还有一些祭司婆罗门。

2.71.33

ततो वै हेमयूपांश्च सर्वरत्नसमाचितान् ।
शोभार्थं कारयामास सहदेवो महाद्युतिः ॥ २.७१.३३ ॥

于是,光辉灿烂的萨哈德瓦为了庄严,命人制作了镶嵌各种宝石的金祭柱。

2.71.34

ददृशुस्तोरणान्यत्र हेमतालमयानि च ।
स यज्ञस्तोरणैस्तैश्च ग्रहैर्द्योरिव सम्बभौ ॥ २.७१.३४ ॥

他们在那里看到了由金色棕榈树制成的拱门,那祭祀与这些拱门和星辰一起,如天空般光辉闪耀。

2.71.35

तालानां तोरणैर्हैमैर्दान्तैरिव दिशागजैः ।
दिक्षु सर्वासु विन्यस्तैस्तेजोभिर्भास्करैर्यथा ॥ २.७१.३५ ॥

金色棕榈拱门矗立于四面八方,宛如有牙的方位象,又如太阳一般光芒耀目。

2.71.36

सकिरीटैर्नृपैश्चैव शुशुभे तत्सदस्तदा ।
देवैर्दिव्यैश्च यक्षैश्च उरगैर्दिव्यमानुषैः ॥ २.७१.३६ ॥

那时,这个集会因戴冠的国王、神圣的天神、夜叉、蛇族和神圣的人类而光彩夺目。

2.71.37

विद्याधरगणैः कीर्णः पाण्डवस्य महात्मनः ।
स राजसूयः शुशुभे धर्मराजस्य धीमतः ॥ २.७१.३७ ॥

这场被众多毗陀罗所充满的罗阇苏耶祭,属于大德的般度之子、智慧的法王,光辉灿烂。

2.71.38

गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः ।
देवैर्मुनिगणैर्यक्षैर्देवलोक इवापरः ॥ २.७१.३८ ॥

充满乾闼婆众、装饰着阿普萨拉斯群的祭祀,与诸天、仙人、夜叉齐聚,犹如另一个天界。

2.71.39

स किम्पुरुषगीतैश्च किन्नरैरुपशोभितः ।
नारदश्च जगौ तत्र तुम्बुरुश्च महाद्युतिः ॥ २.७१.३९ ॥

此祭以紧那罗与金刚力的歌唱增添光彩;那里,大光明的那罗陀与都婆卢歌唱。

2.71.40

विश्वासुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः ।
रमयन्ति स्म तान्सर्वान्यज्ञकर्मान्तरेष्वथ ॥ २.७१.४० ॥

毗舍婆苏、citrasena 以及其他精于歌唱者,在祭祀仪式的间隙里令众人欢喜。

2.71.41

तत्र चाप्सरसः सर्वाः सुन्दर्यः प्रियदर्शनाः ।
ननृतुश्च जगुश्चात्र नित्यं कर्मान्तरेष्वथ ॥ २.७१.४१ ॥

那里,所有美丽悦目的阿普萨拉斯起舞歌唱;在祭仪的间隙,她们不断地舞蹈与歌唱。

2.71.42

इतिहासपुराणानि आख्यानानि च सर्वशः ।
ऊचुर्वै शब्दशास्त्रज्ञा नित्यं कर्मान्तरेष्वथ ॥ २.७१.४२ ॥

历史、往世书与各类故事,由精通语法与言辞学问的学者在祭仪间隙,不断地讲述。

2.71.43

भेर्यश्च मुरजाश्चैव मड्डुका गोमुखाश्च ये ।
शृङ्गवंशाम्बुजा वीणाः श्रूयन्ते स्म सहस्रशः ॥ २.७१.४३ ॥

大鼓、腰鼓、小鼓与牛首号角,以及海螺、笛子、莲花形乐器和琵琶,成千上万地响起。

2.71.44

लोकेऽस्मिन्सर्वविप्राश्च वैश्याः शूद्रा नृपादयः ।
सर्वे म्लेच्छाः सर्वगणास्त्वादिमध्यान्तजास्तथा। ॥ २.७१.४४ ॥

世间所有婆罗门、吠舍、首陀罗、国王等人;所有蛮夷,所有各类人,以及出自起始、中间或末尾的人,同样如此。

2.71.45

नानादेशसमुद्भूतैर्नानाजातिभिरागतैः ।
पर्याप्त इव लोकोऽयं युधिष्ठिरनिवेशने ॥ २.७१.४५ ॥

来自各地、出身各种种姓的人聚集而来,这个世界仿佛都充满在了坚战的居所之中。

2.71.46

भीष्मद्रोणादयः सर्वे कुरवः ससुयोधनाः ।
वृष्णयश्च समग्राश्च पाञ्चालाश्चापि सर्वशः ॥ २.७१.४६ ॥

毗湿摩、德罗纳等所有俱卢族人,连同难敌;全部的毗湿尼族人和般遮罗人,也都在场。

2.71.47

यज्ञेऽस्मिन्सर्वकर्माणि चक्रुर्दासा इव क्रतौ ।
एवं प्रवृत्तो यज्ञः स धर्मराजस्य धीमतः ॥ २.७१.४७ ॥

在这场祭祀中,他们如仆役一般承担一切事务。就这样,智慧的法王的祭祀持续进行。

2.71.48

शुशुभे च महाबाहो सोमस्येव क्रतुर्यथा ।
वस्त्राणि कम्बलांश्चैव प्रावारांश्चैव सर्वदा ॥ २.७१.४८ ॥

啊,大臂者!那场祭祀如同苏摩祭一般光彩熠熠;衣物、毛毯和披巾时时刻刻都在分发。

2.71.49

निष्कहेमजभाण्डानि भूषणानि च सर्वशः ।
प्रददौ तत्र विप्राणां धर्मराजो युधिष्ठिरः ॥ २.७१.४९ ॥

在那里,法王坚战向婆罗门布施了各种金器皿、金币和饰物。

2.71.50

यानि तत्र महीपालैर्लब्धवान्भरतर्षभः ।
तानि सर्वाणि रत्नानि ब्राह्मणानां ददौ तदा ॥ २.७१.५० ॥

薄罗多族的雄牛在那里从诸王处所得的一切宝石,他当时全都施给了婆罗门。