Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.75

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.75.1

दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम् ।
भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा ॥ २.७५.१ ॥

难敌啊,你不应对坚战心怀怨恨。般度之子始终享受着他们自己的福分。

2.75.2

विधानं विविधाकारं परं तेषां विधानतः ।
अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा ॥ २.७५.२ ॥

他们的天命多种多样且至高无上;从前你即使用许多计策也未能战胜他们。

2.75.3

आरब्धा हि महाराज पुनः पुनररिन्दम ।
विमुक्ताश्च नरव्याघ्रा भगधेयपुरस्कृताः।
उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु ॥ २.७५.३ ॥

大王啊,降伏敌人者啊,事业一次又一次地展开;受命运尊崇的人中之虎获得了释放。有活力的人在事业中不会消沉。

2.75.4

तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह ।
सहायाः पृथिवीपाला वासुदेवश्च वीर्यवान् ॥ २.७५.४ ॥

他们赢得了德罗巴蒂作为妻子;德鲁帕达与其诸子成为他们的助手。大地的守护之王以及威力强大的瓦苏提婆也都是他们的盟友。

2.75.5

लब्धश्चानभिभूतार्थैः पित्र्योंशः पृथिवीपते ।
विवृद्धस्तेजसा तेषां तत्र का परिदेवना ॥ २.७५.५ ॥

大地之主啊,那些目标从未被挫败的人获得了父传的份额,并因他们的光辉而增长。此事有何可悲叹的呢?

2.75.6

धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी ।
लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम् ॥ २.७५.६ ॥

阿周那获得了甘狄拔神弓和两个取之不尽的大箭囊;他使火神欢喜,从而得到了神圣的兵器。

2.75.7

तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः ।
कृता वशे महीपालास्तत्र का परिदेवना ॥ २.७५.७ ॥

这位最杰出的弓手以自己臂膀的威力,使诸王臣服于其下;那里有什么可悲叹的呢?

2.75.8

अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम् ।
सभां तां कारयामास सव्यसाची परन्तपः ॥ २.७५.८ ॥

他将达那婆摩耶从火焰中救出,那位征服敌人的萨维亚萨钦便下令建造了那座大殿。

2.75.9

तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः ।
हन्ति तां सभां भीमास्तत्र का परिदेवना ॥ २.७५.९ ॥

摩耶所遣的名为“金迦罗”的可怖罗刹将毁坏那座大殿;那里有什么可悲叹的呢?

2.75.10

यच्चासहायतां राजन्नुक्तवानसि भारत ।
तन्मिथ्या भ्रातरो हीमे तव सर्वे वशानुगाः ॥ २.७५.१० ॥

君王啊,婆罗多之子,你说自己没有助力,那是虚妄的;你的这些兄弟都听从你的号令。

2.75.11

द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान् ।
मूतपुत्रश्च राधेयो दृढधन्वा महारथः ॥ २.७५.११ ॥

你的大弓手德罗纳,与他那勇武的儿子同在;还有御者之子罗陀之子迦尔纳,弓弦坚韧的大车战士。

2.75.12

स एकः समरे सर्वान्पाण्डवान्सहसोमकान् ।
विजेष्यति महाबाहो किं सहायैः करिष्यसि ॥ २.७५.१२ ॥

啊,大臂者,他一人便将在战场上战胜所有般度之子与索摩迦人;你何须用盟友呢?

2.75.13

भीष्मश्च पुरुषव्याघ्रो गौतमश्च महारथः ।
जयद्रथश्च बलावान्सोमदत्तस्तथैव च ॥ २.७५.१३ ॥

毗湿摩、人中虎乔达摩(克利巴)、大车士、强大的胜车,以及同样的索摩达塔。

2.75.14

अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः ।
एतैस्त्वं सहितः सर्वैर्जय कृत्स्नं वसुन्दराम् ॥ २.७५.१४ ॥

我与我的兄弟们、索摩达塔之子和国王——你与他们所有人一起,征服整个大地吧。

2.75.15

त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः ।
एतानहं विजेष्यामि यदि त्वमनुमन्यसे ॥ २.७५.१५ ॥

大王啊,若你同意,我与你以及这些和其他大车士一同,必将战胜他们所有人。

2.75.16

एतेषु विजितेष्वद्य भविष्यति मही मम ।
सर्वे च पृथिवीपालाः सभा सा च महाधना ॥ २.७५.१६ ॥

今日若战胜他们,此大地便归我所有,所有的大地守护者,以及那座极为富有的会堂也都归我。

2.75.17

धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः ।
नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः ॥ २.७५.१७ ॥

财主(阿周那)、婆苏提婆(黑天)、怖军、坚战、无种、偕天,以及与其诸子同在的德鲁波蒂。

2.75.18

नैते युधि पराजेतुं शक्या देवगणैरपि ।
महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः ॥ २.७५.१८ ॥

这些大车士、大弓箭手,精通武器,在战斗中骄傲自负,即使是诸天众神也无法在战争中战胜他们。

2.75.19

अहं तु तद्विजानामि विजेतुं येन शक्यते ।
युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च ॥ २.७५.१९ ॥

我知道如何能亲自战胜坚战。大王,请明白此事并留心听。

2.75.20

अप्रमादेन सुहृदामन्येषां च महात्मनाम् ।
यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल ॥ २.७५.२० ॥

若能小心地战胜朋友和其他大德之人,舅舅,请告诉我。

2.75.21

द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम् ।
समाहूतश्च राजेन्द्रो न शक्ष्यति तिवर्तितुम् ॥ २.७५.२१ ॥

喜好赌博的贡蒂之子不懂博戏;诸王之主一旦受到挑战,便无法推辞。

2.75.22

देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि ।
त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय ॥ २.७५.२२ ॥

我精于博戏,大地之上无人能与我相比。贤哉,考罗婆之后,你应在三界之中向他博戏挑战。

2.75.23

तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम् ।
राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ ॥ २.७५.२३ ॥

大王,我必定能在博戏中赢得他的财富。人中之雄,为了你,我将夺取他的王国与那辉煌的富贵。

2.75.24

इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय ।
अनुज्ञातस्तु ते पित्रा विजेष्ये तान्न संशयः ॥ २.७५.२४ ॥

难敌,把这一切都禀告大王。若得父亲允许,我必定能战胜他们,这毫无疑问。

2.75.25

त्वमेव करुमुख्याय धृतराष्ट्राय सौबल ।
निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम् ॥ २.७५.२५ ॥

你啊,苏波罗之子,应当如理向俱卢族之长持国王禀报此事;我不能亲自禀报。