Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.76

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.76.1

अनुभूय तु राज्ञस्तं राजसूयं सुदुर्मतिः ।
युधिष्ठिरस्य शकुनिर्दुर्योधसुसंयुतः ॥ २.७६.१ ॥

目睹国王坚战的那场王祭之后,心术极为邪恶的沙恭尼与难敌联合起来。

2.76.2

विवेश हास्तिनपुरं दुर्योधनमतेन सः ।
वाढमित्येव शकुनिर्दृढं हृदि चकार ह ॥ २.७६.२ ॥

他依照难敌的主意进入象城;沙恭尼说了声「好」,便在心中坚定地下定了决心。

2.76.3

अस्वस्थतां चतां दृष्ट्वा धार्तराष्ट्रस्य पापकृत् ।
भारतानां च दुष्टात्मा क्षयाय हि नृपक्षयः ॥ २.७६.३ ॥

见持国之子忧烦不安,作恶的邪恶之人便谋划以诸王之灭来导致婆罗多族的毁灭。

2.76.4

प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत् ।
प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा ॥ २.७६.४ ॥

沙恭尼是苏波罗之子,先已领会难敌的心意,便讨他欢心,此时正坐在那位以智慧为眼的国王(盲人持国王)身边。

2.76.5

दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम् ।
उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत् ॥ २.७६.५ ॥

沙恭尼听了难敌的话,走近人主、大智之人持国王,说了这番话。

2.76.6

दुर्योधनो महाराज विवर्णो हरिणः कृशः ।
दीनश्चिन्तापरश्चैव तं विद्धि मनुजाधिप ॥ २.७६.६ ॥

大王,难敌面色苍白、憔悴消瘦,沮丧而沉浸于忧虑之中——请知道这一点,人主啊。

2.76.7

न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम् ।
ज्येष्ठपुत्रस्य हृच्छोकं किमर्थं नावबुध्यसे ॥ २.७६.७ ॥

你没有仔细察看长子心中由敌人引起的难以忍受的忧愁;你为何不察觉?

2.76.8

एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः ।
दुर्योधनं समाहूयं इदं वचनमब्रवीत् ॥ २.७६.८ ॥

沙古尼如此进言后,人主持国王(Dhṛtarāṣṭra)召来难敌,说了这番话。

2.76.9

दुर्योधन कृतोमूलं भृशमार्तोऽसि पुत्रक ।
श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन ॥ २.७६.९ ॥

难敌,我儿,你深受痛苦,必有其由。若我可以听闻,就把此事告诉我吧,俱卢之喜。

2.76.10

अयं त्वां शकुनिः प्राह विवर्णं हरिमं कृशम् ।
चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम् ॥ २.७६.१० ॥

这位沙古尼对你说,你面色苍白、消瘦了。我思虑良久,却看不出你悲忧的根源。

2.76.11

ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं प्रतिष्ठितम् ।
भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम् ॥ २.७६.११ ॥

儿啊,巨大的权势全都系于你身。兄弟与朋友也不会做让你不快的事。

2.76.12

आच्छादयसि प्रावारानश्नासि पिशितौदनम् ।
आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः ॥ २.७६.१२ ॥

你披着华美的披肩,吃着肉饭,良种骏马载着你;那你为何面色苍白、消瘦?

2.76.13

शयनानि महार्हाणि योषितश्च मनोरमाः ।
गुणवन्ति च वेश्मानि विहाराश्च यथासुखम् ॥ २.७६.१३ ॥

有极其珍贵的卧榻,有令人心醉的女子,有上好的居所,还有可随意享乐的游憩之地。

2.76.14

देवनामिव ते सर्वं वाचि बद्धं न संशयः ।
स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रक ॥ २.७६.१४ ॥

如同诸神一般,一切都系于你的言语之中,毫无疑问。难敌不可战胜的儿子啊,你为何像个可怜人那样悲伤?

2.76.15

मात्रा पित्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् ।
प्राप्तस्त्वमसि तत्तात निखिलां नः कुलश्रियम् ॥ २.७६.१५ ॥

父母为儿子所规定的最高职责,你已经获得了,亲爱的孩子;你就是我们家族的全部荣光。

2.76.16

उपस्थितः सर्वकामैस्त्रिदिवे वासवो यथा ।
विविधैरन्नपानैश्च प्रवरैः किं नु शोचसि ॥ २.७६.१६ ॥

如同天上的因陀罗被一切欲望所侍奉,你也有各种上好的饮食相伴。那你为何还要悲伤呢?

2.76.17

निरुक्तं निगमं छन्दः षडङ्गान्यस्त्रशास्त्रवान् ।
अधीती कृतविद्यस्त्वं दशव्याकरणैः कृपात् ॥ २.७६.१७ ॥

你已学习了词源学、吠陀、韵律以及吠陀的六支,也精通兵器之学;你从仙人克里帕那里学成了包括十种语法在内的学问,已臻圆满。

2.76.18

हलायुधात्कृपाद्द्रोणादस्त्रविद्यामधीतवान् ।
भ्राताज्येष्ठः स्थितो राज्ये किमु शोचसि पुत्रक ॥ २.७६.१८ ॥

你从持犁者平天(Balarāma)、克里帕和德罗纳那里学习了武艺;你的哥哥稳居王国之中——我的儿子啊,你为何悲伤?

2.76.19

पृथग्जनैरलभ्यं यदशनाच्छादनं बहु ।
प्रभुः सन्भुञ्जसे पुत्र संस्तुतः सूतमागधैः ॥ २.७६.१९ ॥

普通人难以获得的丰厚衣食,你作为君主享用着,孩子,而御者与颂赞者正在赞美你。

2.76.20

तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् ।
लोकेस्मिञ्ज्येष्ठभागन्यस्तन्ममाचक्ष्व पृच्छतः ॥ २.७६.२० ॥

智慧之人啊,你这悲伤的根源是什么?在这世上,长子之分已托付于我;请告诉问询的我。

2.76.21

तस्य तद्वचनं श्रुत्वा मन्दः क्रोधवशानुगः ।
पितरं प्रत्युवाचेदं स्वमतिं सम्प्रकाशयन् ॥ २.७६.२१ ॥

愚钝而受怒气所控的他听了这些话,表明自己的见解,对父亲这样说道。

2.76.22

अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा ।
अमर्षं धारये चोग्रं निनीषुः कालपर्ययम् ॥ २.७६.२२ ॥

我像卑劣之人那样饮食穿衣,怀着猛烈的怨恨,想要消磨时光。

2.76.23

अमर्षणः स्वाः प्रकृतीरभिभूय परं स्थितः ।
क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते ॥ २.७६.२३ ॥

若有人满怀怨恨,降伏自己的臣民而居于至高之位,并欲摆脱他人所带来的苦恼,这样的人才真正被称为男子汉。

2.76.24

सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत ।
अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत् ॥ २.७६.२४ ॥

婆罗多之子啊,知足确实会毁掉富贵与骄傲;被怜悯与恐惧两者所缠绕的人,不能获得伟大。

2.76.25

न मां प्रीणाति मद्भुक्तं श्रियं दृष्ट्वा युधिष्ठेरे ।
अतिज्वलन्तीं कौन्तेये विवर्णकरणीं मम ॥ २.७६.२५ ॥

看到那在坚战身上炽烈闪耀的光辉,我所食之物也不能令我欢喜;它使我的脸色变得苍白。

2.76.26

नृद्व्यतोत्मानं हीयमानं निशाम्य च ।
अदृश्यामपि कौन्तेय श्रियं पश्यन्निवोद्यताम् ॥ २.७६.२६ ॥

看到自己日渐衰微,又看到俱卢之子的光辉如同不可见却在升起……

2.76.27

तस्मादहं विवर्णश्च दीनश्च हरिमः कृशः ।
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः ॥ २.७६.२७ ॥

因此我变得苍白、憔悴而消瘦。八万八千名归家的学子与居家者……

2.76.28

त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः ।
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्।
भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने ॥ २.७६.२८ ॥

坚战供养每一位,各配三十名婢女;另有一万名保持上行精液的苦行者,在坚战的住所中用金器进食。

2.76.29

कदलीमृगमोकानि कृष्णश्यामारुणानि च ।
काम्भोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान्।
गजयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः ॥ २.७६.२९ ॥

卡达利鹿与鹿类的兽皮,有黑色、暗色和红色;甘波阇王为他送来极为珍贵的毛毯,以及数以百计、千计的象、女子、牛和马。

2.76.30

शतं चोष्ट्रवामीनां शतानि विचरन्त्युत ।
राजन्या बलिमादाय समेता हि नृपक्षये ॥ २.७६.३० ॥

百头母驼,还有数百头在四处漫游;诸王带着贡品聚集而来,实是在王祭的时候。

2.76.31

पृथग्विधानि रत्नान पार्थिवाः पृथिवीपते ।
आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः ॥ २.७६.३१ ॥

大地之主啊,在这场最重要的祭祀中,诸王为昆缇之子带来了种类繁多、数量丰富的珍宝。

2.76.32

न क्वचिद्धि मया तादृग्दृष्टपूर्वो न च श्रुतः ।
यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः ॥ २.७६.३२ ॥

我从未见过、也从未听说过,像智慧的般度之子的祭祀中那样涌来的财富。

2.76.33

असत्यं चेदिदं सर्वं सञ्जयं प्रष्टुमर्हसि ।
अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप।
शर्म नैवाभिगच्छामि चिन्तयानो विशाम्पते ॥ २.७६.३३ ॥

若这一切不实,你应当问问全知者(即Sañjaya)。国王啊,我看到敌人那无边的财富洪流,心中忧思不宁,无法获得安宁,人民之主啊。

2.76.34

ब्रह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः ।
त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः ॥ २.७६.३४ ॥

由梵天所赐的瓦塔丹那人与牧牛人,成百上千地聚集,带着三个卡尔瓦的贡赋,被拦阻在门口站立。

2.76.35

कमण्डलूनुपादाय जातरूपमयाञ्शुभान् ।
त्रैखर्वाः प्रतिवेद्यास्मै लेभिरेऽथ प्रवेशनम् ॥ २.७६.३५ ॥

这些三卡尔瓦之人手持精美的金制净瓶,向他通报后,才获准入内。

2.76.36

यथैव मधु शक्राय धारयन्त्यमरस्त्रियटः ।
तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः ॥ २.७६.३६ ॥

犹如天女为因陀罗捧持蜂蜜,那满溢的净瓶之海也为他取来了水神伐楼那的铜器。

2.76.37

शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान् ।
शक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम् ॥ २.७६.३७ ॥

瓦苏提婆取来上好的海螺,为其灌顶后献上;此螺价值千枚金币,并镶嵌着许多宝石。

2.76.38

दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत् ।
गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ ॥ २.७६.३८ ॥

我见到这一切,仿佛得了发热之症。他们带着这些财物,走向东方与南方的两个大海。

2.76.39

तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ ।
त्तरं तु न गच्छन्ति विना तात पतत्रिणः।
तत्र गत्वाऽर्जुनो दण्डमाजहारामितं धनम् ॥ २.७६.३९ ॥

同样,他们也把它带到西方的大海,婆罗多族的雄牛啊。但是,父亲,若无飞鸟,他们不往北方去。阿周那前往那里,带回了无量的财富作为贡品。

2.76.40

कृतां बैन्दुसरै रत्नैर्मयेन स्फाटिकच्छदाम् ।
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥ २.७६.४० ॥

我看见一座由摩耶以宾杜宝石和珠宝所造、以水晶为顶、盈满清水的莲池,婆罗多啊。

2.76.41

उत्कर्षन्तं च वासश्च प्राहसन्मां वृकोदरः ।
किङ्कराश्च सभापाला जहसुर्भरतर्षभ ॥ २.७६.४१ ॥

我提起衣服时,狼腹(怖军)嘲笑我,仆役和殿堂守卫也都笑了起来,婆罗多族的雄牛啊。

2.76.42

पित्रोरर्थे विशेषेण प्रावृण्वं तत्र जीवितम् ।
तत्र त्म यदि शक्तः स्यां घातयेयं वृकोदरम् ॥ २.७६.४२ ॥

为了父母的缘故,尤其是,我在那里忍下了屈辱。若我有能力,我必杀了狼腹(怖军)。

2.76.43

सपत्नेनापहासो हि स मां दहति भारत ॥ २.७६.४३ ॥

婆罗多啊,敌人的那番嘲笑确实灼烧着我。

2.76.44

तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम् ।
सभां पुष्करिणीं मत्वा पतितोऽस्मि नराधिप ॥ २.७६.४४ ॥

在那里,我把那装饰着水晶水与水晶莲花的大殿误认作莲池,于是跌倒了,人主啊。

2.76.45

तत्र मामहसद्भीमः सह पार्थेन सस्वरम् ।
द्रौपदी चसह स्त्रीभिः पातयन्ती मनो मम ॥ २.७६.४५ ॥

在那里,怖军与阿周那一同大声嘲笑我;德劳巴蒂与众女子也使我的心意低落。

2.76.46

क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः ।
ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम ॥ २.७६.४६ ॥

我衣服湿透在水中之时,仆人受国王驱使,给了我另外的衣服,这对我来说更加痛苦。

2.76.47

अस्तम्भा इव तिष्ठन्ति स्तम्भा इव सहस्रशः ।
सोहं तत्राहतो राजन्स्फटिकाभ्यन्तरे विभो ॥ २.७६.४७ ॥

它们仿佛无柱而立,又如千根柱子;国王啊,大能者啊,我在那水晶殿堂之内在那里撞伤了。

2.76.48

अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा ।
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥ २.७६.४८ ॥

我从形似门却并非门的地方走出,又撞在一块石头上,额头受了伤。

2.76.49

आमृशन्निव तां दृष्ट्वा मार्गान्तरमुपाविशम् ।
इदं द्वारमिदं राजन्नद्वारमिति मां प्रति।
अद्भुतं प्रहसन्वाक्यं बभाषे स वृकोदरः ॥ २.७६.४९ ॥

我仿佛要去触摸它,看见后便坐到了另一条路上。"大王,这是门,这不是门"——狼腹(怖军)对我这样说,笑着说出了奇异的话。

2.76.50

स्त्रियश्च तत्र मां दृष्ट्वा जहसुस्तादृशं नृप ।
सर्वं हासकरं तेषां सदस्यानां नरर्षभ ॥ २.७६.५० ॥

那里的女子看见我,也这样笑了。人中雄牛啊,那些与会者的一切举动都令人发笑。

2.76.51

न श्रुतानि न दृष्टानि यानि रत्नान मे क्वचित् ।
तानि मे तत्र दृष्टानि तेन तप्तोस्मि दुःखितः ॥ २.७६.५१ ॥

我从未听说、也从未在任何地方见过的宝物,我在那里看见了。因此我痛苦而悲伤。

2.76.52

हुताशनं प्रवेक्ष्यामि प्रवेक्ष्यामि महोदधिम् ।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ॥ २.७६.५२ ॥

我要投入火中,我要投入大海。对于受尊敬的人来说,恶名比死亡更甚。

2.76.53

इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु ॥ २.७६.५३ ॥

此处还发生了这件奇异之事。听我说来。

2.76.54

पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां सदा ।
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खो ध्मायति नित्यसः ॥ २.७६.५४ ॥

当十万婆罗门常常用餐时,那里放置了一只海螺作为信号,它被不断地吹响。

2.76.55

मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत ।
अनिशं शब्दमश्रौषं ततो रोमाणि मेऽहृषन् ॥ २.७६.५५ ॥

婆罗多之子啊,那海螺一次又一次地不停鸣响,我不断听到那声音,身上的汗毛都竖了起来。

2.76.56

पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः ।
अशोभत महाराज नक्षत्रैर्द्यैरिवामला ॥ २.७६.५६ ॥

大王啊,那集会厅里聚满了前来观瞻的众多国王,它光辉灿烂,犹如洁净的天空中星辰闪耀。

2.76.57

सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर ।
ज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः ॥ २.७६.५७ ॥

人主啊,诸王带着各式各样的珍宝,前往那位聪慧的般度之子处。

2.76.58

वैश्या इव महीपाला द्विजातिपरिवेषकाः ।
न सा श्रीर्देवराजस्य यमस्य वरुणस्य च।
गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे ॥ २.७६.५८ ॥

诸王如同侍奉再生族的吠舍一般。那种连天王因陀罗、阎摩、伐楼那,或夜叉之主(俱毗罗)都不具有的光辉,大王啊,却在坚战身上。

2.76.59

तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिक्रामहम् ।
शान्तिं न परिगच्छामि दह्यमानेन चेतसा ॥ २.७६.५९ ॥

看到般度之子那至高的光辉,我心如焚烧,不得安宁。

2.76.60

अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते ।
अरीन्बाणैः शाययिष्ये शयिष्ये वा हतः परैः ॥ २.७६.६० ॥

若不得般度五子的权势,我便无法平静。我要以箭矢令敌人长眠,或被敌人所杀而长眠。

2.76.61

एतादृशस्य मे किं तु जीवितेन परन्तप ।
वर्धन्ते पाण्डवा राजन्वयं हि स्थितवृद्धयः ॥ २.७६.६१ ॥

征服敌人者啊,像我这样的人还有何生存意义?大王,般度之子日益兴盛,而我们的兴盛却已停滞。

2.76.62

यामेतामतुलां लक्ष्मीं दृष्टवानसि पाण्डवे ।
तस्याटः प्राप्तावुपायं मे शृणु सत्यपराक्रम ॥ २.७६.६२ ॥

真正的勇士啊,请听我说,如何获得你在般度之子那里所见的那无与伦比的荣华。

2.76.63

अहमक्षेष्वभिज्ञोऽस्मि पृथिव्यामपि भारत ।
हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने ॥ २.७६.६३ ॥

婆罗多啊,即使在大地上,我也精通掷骰之术;我懂人心,懂赌注,也精通赌博的种种细节。

2.76.64

द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम् ।
आहूतश्चैष्यति व्यक्तं नित्यमेवाह्वयत्स्वयम् ॥ २.७६.६४ ॥

喜好赌博的贡蒂之子不懂掷骰之法;若受邀请,他必定会来,因为他自己也常常发出挑战。

2.76.65

नियतं तं विजेष्यामि कृत्वा तु कपटं विभो ।
आनयामि समृद्धिं तां दिव्यां चोपाह्वयस्व तम् ॥ २.७६.६५ ॥

主上啊,我必定以诡计战胜他,并将那天赐的财富带给你;现在你该再次邀请他。

2.76.66

एवमुक्तः शकुनिना राजा दुर्योधनस्ततः ।
धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत् ॥ २.७६.६६ ॥

沙恭尼如此说完,国王难敌随后又向持国王说了这番话,转而谈论另一件事。

2.76.67

अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित् ।
द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि ॥ २.७६.६७ ॥

国王啊,这位精通骰戏之人渴望以赌博夺取般杜之子的王者福运;您应当允许此事。

2.76.68

क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने ।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ २.७६.६८ ॥

我所听命的那位大智的大臣克沙塔(毗杜罗)在此;我将与他会面,了解此事的决定。

2.76.69

स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम् ।
उभयोटः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम् ॥ २.७६.६९ ॥

他以法为先,目光远大,以至善为念,将为双方宣告适宜的事务决定。

2.76.70

निवर्तयिष्यति त्वाऽसौ यदि क्षत्ता समेष्यति ।
निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम् ॥ २.७६.७० ॥

若克沙塔前来相会,他必使您回转;而您若回转,王中之王啊,我必定无疑地死去。

2.76.71

स त्वं मयि मृते राजन्विदुरेण सुखी भव ।
भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि ॥ २.७६.७१ ॥

国王啊,待我死去之后,您便与毗杜罗一同安乐吧。您将享有整个大地;有我在又于您有何用呢?

2.76.72

शम्पायन उवाच ।
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः।
धृतराष्ट्रोऽब्रवीत्प्रेष्यन्दुर्योधनमते स्थितः ॥ २.७६.७२ ॥

听了他充满悲伤、饱含深情的话语,坚持采纳难敌之意的盲王持国,怀着派遣(毗杜罗)的打算说道。

2.76.73

स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम ।
मनोरमां दर्शनीयामाशु कुर्वन्तुं शिल्पिनः ॥ २.७६.७३ ॥

愿工匠迅速为我建造一座宏大的议事厅,有千根柱子、百扇门,令人心悦,观之赏心。

2.76.74

ततः संस्तीर्य रत्नैस्तां तक्ष्ण आनाय्य सर्वशः ।
सुकृतां सुप्रवेशां च निवेदयत मेऽशनैः ॥ २.७६.७४ ॥

随后以珠宝铺饰,召来木匠,使之各方面都建造精良、便于出入,并尽快报告于我。

2.76.75

दूर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः ।
धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै ॥ २.७६.७५ ॥

为了杜尔约陀那的和平,如此决定之后,大王啊,大地之主持国王确实派人送信给维度罗。

2.76.76

अपृष्ट्वा विदुरं स्वस्यन नासीत्कश्चिद्विनिश्चयः ।
द्यूते दोषांश्च जानन्स पुत्रस्नेहादकृष्यत ॥ २.७६.७६ ॥

若不问维度罗,他自己便无定见;他明知赌博之过,却因溺爱儿子而被牵引过去。

2.76.77

तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम् ।
विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत् ॥ २.७६.७७ ॥

维度罗智者闻之,见那已生成为争端之门、毁灭之面的局势,便急奔向持国王。

2.76.78

सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम् ।
मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत् ॥ २.७६.७८ ॥

他走近那位大德的兄长,以头叩拜,在其足前说出了这些话。

2.76.79

नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो ।
पुत्रैर्भेदो यथा न स्थाद्द्यूतहेतोस्तथा कुरु ॥ २.७६.७९ ॥

国王啊,主人啊,我不赞成你的这个决定。请这样做,使得不因赌局而使诸子之间产生分裂。

2.76.80

क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति ।
यदि देवाः प्रसादं नः करिष्यन्ति न संशयः ॥ २.७६.८० ॥

克沙塔啊,如果诸神向我们显示恩惠,我的儿子们之间就不会发生争吵,这毫无疑问。

2.76.81

अशुभं वा शुभं वापि हितं वा यदि वाऽहितम्। ॥ २.७६.८१ ॥

无论是不吉还是吉祥,有益还是有害——

2.76.82

मयि सन्निहिते द्रोणे भीष्मे त्वयि च भारत ।
अनयो दैवविहितो न कथञ्चिद्भविष्यति ॥ २.७६.८२ ॥

婆罗多啊,只要我、德罗纳、毗湿摩和你都在场,由命运注定的灾祸绝不会以任何方式发生。

2.76.83

गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे ।
खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम् ॥ २.७६.८३ ॥

你登上战车,今天就用如风般迅疾的马匹前往坎达瓦普拉斯塔,把坚战带回来。

2.76.84

न वाच्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते ।
दैवमेव परं मन्ये येनैतदुपपद्यते ॥ २.७६.८४ ॥

维杜罗啊,不要把我这个决定告诉任何人——我只对你说。我认为促成此事的天命本身才是至高的。

2.76.85

इत्युक्तो विदुरो धीमान्नेदमस्तीति चिन्तयन् ।
आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुः खितः ॥ २.७६.८५ ॥

智慧的维杜罗听闻此言,心想"这不可以",极度悲痛地前往大智慧的恒河之子(毗湿摩)那里。