Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.77.1

कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम् ।
यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः ॥ २.७७.१ ॥

兄弟之间这场赌博是如何发生的?我的祖先般度五子因此遭受了这场大难?

2.77.2

के च तत्र समास्तारा राजानो ब्रह्मवित्तम ।
के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन् ॥ २.७७.२ ॥

吠陀知识中最杰出的人啊!那里聚集了哪些国王?谁赞同此事,谁又加以反对?

2.77.3

विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज ।
मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम ॥ २.७७.३ ॥

再生之人啊,我愿详细听你讲述此事,因为这正是大地毁灭的根源,再生者中最杰出的人啊。

2.77.4

एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान् ।
आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्वविद् ॥ २.७७.४ ॥

国王如此询问之后,毗耶娑的威严弟子、通晓吠陀真义者,便将所发生的一切都讲述了出来。

2.77.5

एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान् ।
आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्ववित् ॥ २.७७.५ ॥

国王如此询问之后,毗耶娑的威严弟子、通晓吠陀真义者,便将所发生的一切都讲述了出来。

2.77.6

विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः ।
दुर्योधनमिदं वाक्यमुवाच विजने पुनः ॥ २.७७.६ ॥

阿母迦之子持国知晓了毗图罗的意见,便又在私下里对难敌说了这番话。

2.77.7

अलं द्यूतेन गान्धारे विदुरो न प्रशंसति ।
न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति ॥ २.७७.७ ॥

甘陀利之子啊,赌博够了。维杜罗不赞许它。他大智慧,不会对我们说有害之言。

2.77.8

हितं हि परमं मन्ये विदुरो यत्प्रभाषते ।
क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव ॥ २.७७.८ ॥

我认为维杜罗所说的正是至高的益处。儿啊,他说的一切都照做吧。我认为这对你有益。

2.77.9

देवर्षिर्वासवागुरुर्देवराजाय धीमते ।
यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः।
तद्दे विदुरः सर्वं सरहस्यं महाकविः ॥ २.७७.९ ॥

天仙、帝释之师布利诃娑帝,将教典宣说给智慧的天王因陀罗。这一切连同其秘义,伟大的诗人维杜罗正在告诉你。

2.77.10

स्थितस्तु वचने तस्य सदाऽहमपि पुत्रक ।
विदुरो वापि मेधावी कुरूणां प्रवरो मतः ॥ २.७७.१० ॥

我也始终遵从他的话,亲爱的孩子。维杜罗这位智者,也被认为是俱卢族中最杰出的。

2.77.11

उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप ।
तदलं पुत्र द्यूतेन द्यूते भेदो हि दृश्यते ॥ २.७७.११ ॥

国王啊,受毗黎尼族尊敬的大智慧者乌达瓦,也会这样说。所以,儿啊,赌博够了,赌博中可以看到分裂。

2.77.12

भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय ॥ २.७७.१२ ॥

分裂则王国毁灭。所以,儿啊,舍弃它吧。

2.77.13

पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम् ।
प्राप्तस्त्वमसि तन्नाम पितृपैतामहं पदम् ॥ २.७७.१३ ॥

父母为儿子所定的最高职责,你已经获得:父亲与祖父们的那个地位与那个名号。

2.77.14

अधीतवान्कृती शास्त्रे लालितः सततं गृहे ।
भ्रातृज्येष्ठः स्थितो राज्ये विन्दसरे किं न शोभनम् ॥ २.७७.१४ ॥

学习经典而成为能人,在家中始终受到宠爱,作为兄长中的长者立足于王国——这难道不好吗?

2.77.15

पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम् ।
तत्प्राप्तोसि महाबाहो कस्माच्छोनसि पुत्रक ॥ २.७७.१५ ॥

普通人难以得到的饮食与衣着这一最高享受,你已经获得。哦,大臂的儿子,你为何悲伤?

2.77.16

स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत् ।
नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा ॥ २.७७.१६ ॥

哦,大臂者,父亲与祖父们广大繁盛的国土归你所有。你常常发号施令而光彩照人,如同天上的诸神之主。

2.77.17

यादृशं च तवैश्वर्यं तदन्येषां सुदुर्लभम् ।
ये चोपभोगास्ते राजन्मया ते परिकीर्तिताः ॥ २.७७.१७ ॥

你所拥有的这般权势,他人极难获得。而且,哦国王,那些享受都是我已向你述说过的。

2.77.18

तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम् ।
समुत्थितं दुःखकरं तन्मे शंसितुमर्हसि ॥ २.७७.१८ ॥

哦,智慧者,你这悲伤的根源是什么?这带来痛苦的悲伤是如何生起的?你应当把它告诉我。

2.77.19

अश्नाम्याच्छादयामीति प्रपश्यन्हीनपौरुषः ।
नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः ॥ २.७७.१९ ॥

见自己饮食穿着而不生愤怒者,无丈夫气概,被视为最卑下之人。

2.77.20

न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणी विभो ।
ज्वलितामेव कौन्येये श्रियं दृष्ट्वा च विव्यथे ॥ २.७७.२० ॥

王中之王啊,大力者啊,这共享的吉祥并不使我欢喜;见到贡提之子熊熊燃烧的荣华,我深感痛苦。

2.77.21

सर्वां च पृथिवीं चैव युधिष्ठिरवशानुगाम् ।
स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते। ॥ २.७७.२१ ॥

整个大地也都服从于坚战的统治;我仍坚定地活着,正是因痛苦而对你说这些。

2.77.22

आवर्जिता इवाभान्ति नीपाश्चित्रककौकुराः ।
कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने ॥ २.७७.२२ ॥

在坚战的住所,尼波树、citraka与kaukura、kāraskāra与lohajaṅgha(珍宝器物)仿佛低垂而闪耀。

2.77.23

हिमवत्सागरानुपाः सर्वे रत्नाकरास्तथा ।
अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने ॥ २.७७.२३ ॥

喜马拉雅与海岸诸地、所有宝矿以及边远之地,都被安置在坚战的住所中。

2.77.24

ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशाम्पते ।
युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे ॥ २.७७.२४ ॥

人民之主啊,坚战以我为长且为最优,尊敬我,并委派我掌管接收宝物之事。

2.77.25

उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम् ।
नादृश्यत परः पारो नापरस्तत्र भारत ॥ २.७७.२५ ॥

在摆放于我面前的那些最上等、最珍贵的宝石之中,婆罗多啊,我既看不见远岸,也看不见近岸。

2.77.26

न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः ।
अतिष्ठन्त मयि श्रान्ते गृग्य दूराहृतं वसु ॥ २.७७.२६ ॥

我在接过那些财富时,手却够不着;我疲惫地站着,从远方运来的财宝便停在了我身上。

2.77.27

कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम् ।
अपश्यं नलिनीं पूर्णामुदकस्येव भारत ॥ २.७७.२७ ॥

婆罗多啊,我看见一个由摩耶所造的莲池,覆盖着水晶,装饰着湖泊中的宝石,池水充盈。

2.77.28

वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः ।
शत्रोर्ऋद्धिविशेषेण विमूढ रत्तवर्जितम् ॥ २.७७.२८ ॥

我提起衣襟时,狼腹(怖军)嘲笑了我;被敌人特殊的繁华所迷惑,我失去了理智。

2.77.29

तत्र स्म यदि शक्तः स्यं पातयेऽहं वृकोदरम् ।
यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप ॥ २.७७.२९ ॥

若我在那里有能力,我便会把狼腹击倒;人主啊,若我竭力去杀怖军。

2.77.30

शिशुपाल इवास्माकं गतिः स्यान्नात्र संशयः ।
सपत्नेनावहासो मे स मां दहति भारत ॥ २.७७.३० ॥

如同史输帕拉,我们的下场也必定相同,此事无疑。敌人这般嘲弄我,令我如火焚身,婆罗多啊。

2.77.31

पुनश्च तादृशीमेव वापीं जलजशालिनीम् ।
मत्वा शिलासमां तोये पतितोऽस्मि नराधिप ॥ २.७७.३१ ॥

我又把一个同样盛满水的池子当作石板地,人主啊,我跌入了水中。

2.77.32

तत्र मां प्राहसत्कृष्णः पार्थेन सह सुस्वरम् ।
द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम ॥ २.७७.३२ ॥

那里,克里希那与普利塔之子一起高声嘲笑我,德罗波蒂与众女子也一同讥笑,使我心中痛苦。

2.77.33

क्लिन्नवस्त्रस्य तु जले किङ्करा राजनोदिताः ।
ददुर्वासांसि मेऽन्यानि तच्च दुःखं परं मम ॥ २.७७.३३ ॥

我的衣服在水中湿透了,国王下令,仆人们给我换了别的衣服,这对我来说是极大的痛苦。

2.77.34

प्रलम्भं च शृणुष्वान्यद्वदतो मे नराधिप ।
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा।
अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः ॥ २.७७.३४ ॥

人主啊,再听一件被骗的事:我从没有门的地方走出,撞上了一块形如门的石头,额头再次受伤。

2.77.35

तत्र मां यमजौ दूरादालोक्याभिहतं तदा ।
बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ ॥ २.७७.३५ ॥

那里,两位孪生兄弟远远看见我受伤,都悲伤地用手臂把我扶住。

2.77.36

उवाच सहदेवस्तु तत्र मां विस्मयन्निव ।
इद द्वारं धार्तराष्ट्र मा गच्छेति पुनः पुनः ॥ २.७७.३६ ॥

那里,萨哈德瓦仿佛惊讶地对我一再说:“这是门,持国之子,不要去。”

2.77.37

भीमसेनेन तत्रोक्तो धृतराष्ट्रात्मजेति च ।
सम्बोध्य प्रहसित्वा च इतो द्वारं नराधिप ॥ २.७७.३७ ॥

彼处,怖军称呼我为“持国之子”,并大笑道:“人主啊,门在这边。”

2.77.38

नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे ।
यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे ॥ २.७७.३८ ॥

我在那大殿中所见宝石的名称,先前从未听闻;见到它们,我的心便如火烧。