摩诃婆罗多 · 章 2.8
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.8.1
कथयिष्ये सभां याम्यां युधिष्ठिर निबोध ताम् ।
वैवस्वतस्य यां पार्थ विश्वकर्मा चकार ह ॥ २.८.१ ॥
那罗陀说:坚战啊,我将讲述阎摩的那座大殿,你听着。普利塔之子啊,那是毗首羯摩为毗婆娑之子(阎摩)所建。
2.8.2
तैजसी सा सभा राजन्बभूव शतयोजना ।
विस्तारायामसम्पन्ना भूयसी चापि पाण्डव ॥ २.८.२ ॥
那罗陀说:大王,那座大殿由灿烂的黄金所造,宽长各百由旬。般度之子啊,它极其宏大。
2.8.3
अर्कप्रकाशा भ्राजिष्णुः सर्वतः कामरूपिणी ।
नातिशीता च चात्युष्णा मनसश्च प्रहर्षिणी ॥ २.८.३ ॥
它如太阳般光辉,四面皆明亮,能随意变化形态;既不过冷,也不过热,令心意欢悦。
2.8.4
न शोको न जरा तस्यां क्षुत्पिपासे न चाप्रियम् ।
न च दैन्यं क्लमो वाऽपि प्रतिकूलं न चाप्युत ॥ २.८.४ ॥
其中没有忧愁,没有衰老,没有饥渴,没有任何不悦之事,没有困顿,没有疲惫,也没有任何逆境。
2.8.5
सर्वे कामाः स्थितास्तस्यां ये दिव्या ये च मानुषाः ।
रसवच्च प्रभूतं च भक्ष्यं भोज्यमरिन्दम ॥ २.८.५ ॥
其中具备所有的欲望,无论天上的还是人间的;还有美味丰盛、可食可用的饮食,啊,降敌者。
2.8.6
लेह्यं चोप्यं च पेयं च हृद्यं स्वादु मनोहरम् ।
पुण्यगन्धाः स्रजस्तस्य नित्यं कामफला द्रुमाः ॥ २.८.६ ॥
可舔、可吮、可饮之物,悦心、甘美、令人心醉;圣洁芬芳的花鬘;还有总能随意结出果实的树木——这一切都属于它。
2.8.7
रसवन्ति च तोयानि शीतान्युष्णानि चैव हि ।
तस्यां राजर्षयः पुण्यास्तथा ब्रह्मर्षयोऽमलाः ॥ २.८.७ ॥
那里有甘美的水,有冷的也有热的;那里居住着清净的王仙和无垢的梵仙。
2.8.8
यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते ।
ययातिर्नहुषः पुरुर्मान्धाता सोमको नुगः ॥ २.८.८ ॥
亲爱的,他们欢喜地侍奉毗婆娑之子阎摩:耶耶底、那呼沙、普卢、曼陀多、索摩迦与努伽。
2.8.9
त्रसदस्युश्च राजर्षिः कृतवीर्यः श्रुतश्रवाः ।
अरिष्टनेमिः सिद्धश्च कृतवेगः कृतिर्निमिः ॥ २.८.९ ॥
王仙特拉萨达苏、迦尔塔毗利耶、室罗多室罗婆斯、阿利沙那弥、成就者悉陀、迦尔塔吠伽、迦尔底与尼弥。
2.8.10
प्रतर्दनः शिबिर्मत्स्यः पृथुलाक्षो बृहद्रथः ।
वार्तो मरुत्तः कुषिकः साङ्काश्यः साङ्कृतिर्ध्रुवः ॥ २.८.१० ॥
普罗达那、尸毗、摩蒂亚、普利图拉克沙、诃德罗陀、伐尔多、摩卢多、库什卡、桑卡什亚、桑克里提与德鲁婆。
2.8.11
चतुरश्चः सदस्योर्मिः कार्तवीर्यश्च पार्थिवः ।
भरतः सुरथश्चैव सुनीथो निशठोऽनलः ॥ २.८.११ ॥
四角、萨达萨、乌尔弥、君王迦尔塔毗利耶、婆罗多、苏罗陀、苏尼陀、尼沙陀与阿那罗。
2.8.12
दिवोदासश्च सुमना अम्बरीषो भगीरथः ।
व्यश्वः सदश्वो वाघ्र्यश्वः पृथुवेगः पृथुश्रवाः ॥ २.८.१२ ॥
迪沃达萨、苏摩那、安巴利沙、薄伽罗陀、毗耶斯婆、萨达斯婆、婆格利亚斯婆、普利图吠伽与普利图室罗婆斯。
2.8.13
पृपदश्वो वसुमनाः क्षुपश्च सुमहाबलः ।
रुषद्रुर्वृषसेनश्च पुरुकुत्सो ध्वजी रथी ॥ २.८.१३ ॥
普利波达什瓦、婆苏曼、大力的刹帕、柳沙德鲁、伐沙塞那与普卢库撒,持旗的车战勇士。
2.8.14
आर्ष्टिषेणो दिलीपश्च महात्मा चाप्युशीनरः ।
औशीनरिः पुण्डरीकः शर्यातिः शरभः शुचिः ॥ २.८.१४ ॥
阿尔施提舍那、迪利波、大德的乌希那罗亦在,奥希那里、补达利迦、沙亚提、沙罗跋与舒其。
2.8.15
अङ्गो रिष्टश्च वेनश्च दुष्यन्तः सृञ्जयो जयः ।
भाङ्गासुरिः सुनीथश्च निषधोऽथ वहीनरः ॥ २.८.१५ ॥
安伽、里施吒、吠那、豆扇多、苏兰迦耶、耶耶、婆羊伽苏利之子、苏尼陀、尼沙陀,然后是婆希那罗。
2.8.16
करन्धमो बाह्लिकश्च सुद्युम्नो बलवान्मधुः ।
ऐलो मरुत्तश्च तथा बलवान्पृथिवीपतिः ॥ २.८.१६ ॥
卡兰陀摩、巴赫利迦、苏德尤姆那、强大的摩度、阿伊罗、摩录多,以及同样强大的大地之主。
2.8.17
कपोतरोमा तृणकः सहदेवार्जुनौ तथा ।
व्यश्वः साश्वः कृशाश्वश्च शशबिन्दुश्च पार्थिवः ॥ २.८.१७ ॥
鸽毛、特利那迦、萨诃提婆与阿周那亦如是;毗耶舍婆、娑舍婆、克利舍婆,以及地上之王沙舍频度。
2.8.18
रामो दाशरथिश्चैव लक्ष्मणोऽथ प्रतर्दनः ।
अलर्कः कक्षसेनश्च गयो गौराओश्व एव च ॥ २.८.१८ ॥
十车王之子罗摩与罗什曼那;然后是普罗陀那、阿罗迦、迦叉娑那、伽耶,以及高罗奢娃。
2.8.19
जामदग्न्यश्च रामश्च नाभागसगरौ तथा ।
भूरिद्युम्नो महाश्वश्च पृथाशअवो जनकस्तथा ॥ २.८.१९ ॥
耶摩达格尼与罗摩、那婆伽与萨加罗、布利迪优摩那与摩诃什婆、普利陀什婆与遮那伽,亦复如是。
2.8.20
राजा वैन्यो वारिसेनः पुरिजिज्जनमेजयः ।
ब्रह्मदत्तस्त्रिगर्तिश्च राजोपरिचरस्तथा ॥ २.८.२० ॥
国王毗尼耶、伐里森那、普利吉特、阇那目阇耶、梵授、三轨与国王乌帕里查拉,亦复如是。
2.8.21
इन्द्रद्युम्नो भीमजानुर्गौरपृष्ठोऽनघो लयः ।
पद्मोऽथ मुचुकुन्दश्च भूरिद्युम्नः प्रसेनजित् ॥ २.८.२१ ॥
因陀罗护摩、毗摩阇怒、高罗波利湿陀、无罪、利耶、莲花、穆楚昆达、布利迪优摩那与波森阇特。
2.8.22
अरिष्टनेमिः सुद्युम्नः पृथुलाश्वोऽष्टकस्तथा ।
शतं मत्स्या नृपतयः शतं नीपाः शतं हयाः ॥ २.८.२२ ॥
阿利施塔涅弥、苏由摩那、普楼拉什婆与阿湿吒迦亦复如是;摩蹉族诸王百,尼波族百,诃耶族百。
2.8.23
धृतराष्ट्राश्चैकशतमशीतिर्जनमेजयाः ।
शतं च ब्रह्मदत्तानां वीरिणामीरिणां शतम् ॥ २.८.२३ ॥
持国之王一百八十一,阇那目阇耶亦然;梵授之王百,毗梨那与伊梨那之王百。
2.8.24
भीष्णाणां द्वे शतेऽप्यत्र भीमानां तु तथा शतम् ।
शतं च प्रतिविन्ध्यानां शतं नागाः शतं हयाः ॥ २.८.२४ ॥
此处有毗湿那族二百,毗摩族亦百;普罗提般陀族百,象百,马百。
2.8.25
पलाशानां शतं ज्ञेयं शतं काशकुशादयः ।
शान्तनुश्चैव राजेन्द्र पाण्डुश्चैव पिता तव ॥ २.८.२५ ॥
应知有百位波拉莎,百位如迦奢、俱舍等人。王中之王啊,产友与你的父亲般度也在其中。
2.8.26
उशङ्गवः शतरथो देवराजो जयद्रथः ।
वृषदर्भश्च राजर्षिर्बुद्धिमान्सहमन्त्रिभिः ॥ २.८.२६ ॥
乌尚伽婆、设多罗他、天王、胜车,以及王仙仲德,皆有智慧,与其大臣同在。
2.8.27
अथापरे सहस्राणि ये गताः शसबिन्दवः ।
इष्ट्वाऽश्वमेधैर्बहुभिर्महद्भिर्भूरिदक्षिणैः ॥ २.८.२७ ॥
还有其他成千上万的人,如舍舍槃度等,他们已经逝去,曾举行众多盛大的马祭并布施丰厚。
2.8.28
एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः ।
तस्यां सभायां राजेन्द्र वैवस्वतमुपासते ॥ २.८.२८ ॥
这些王仙,清净、名声远扬、博学多闻,王中之王啊,他们在那个议会中侍奉毗婆娑之子(阎摩)。
2.8.29
अगस्त्योऽथ मतङ्गश्च कालो मृत्युस्तथैव च ।
यज्वानश्चैव सिद्धाश्च ये न योगशरीरिणः ॥ २.८.२९ ॥
还有阿伽斯蒂亚、摩当伽,时间与死亡也同样;还有行祭者,以及没有瑜伽之身的成就者。
2.8.30
अग्निष्वात्ताश्च पितरः फेनपाश्वोष्मपाश्च ये ।
सुधावन्तो बर्हिषदो मूर्तिमन्तस्तथाऽपरे ॥ २.८.३० ॥
火自化者与祖先们,泡沫饮者与热气饮者,具甘露者,坐于吉草者,有形体者,以及其他人。
2.8.31
कालचक्रं च साक्षाच्च भगवान्हव्यवाहनः ।
नरा दुष्कृतकर्माणो दक्षिणायनमृत्यवः ॥ २.८.३१ ॥
时轮,以及亲自显现的世尊哈维耶瓦哈纳(火神);行恶业的人,以及死于太阳南行之期的人。
2.8.32
कालस्य नयने युक्ता यमस्य पुरुपाश्च ये ।
तस्यां शिंशुपपालाशास्तथा काशकुशादयः ॥ २.८.३२ ॥
那些安置在时间双眼上的人,以及阎摩的侍从;在那大殿中,有娑罗树与波罗奢树,还有迦尸草、拘舍草等草木。
2.8.33
उपासते धर्मराजं मूर्तिमन्तो जनाधिप ।
एते चान्ये च बहवः पितृराजसभासदः।
न शक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा । ॥ २.८.३३ ॥
人主啊,这些以形体显现者,以及其他众多属于祖先之王会堂的成员,都侍奉法王(阎摩)。他们无法以名字或行为来一一列举。
2.8.34
असम्बाधा हि सा पार्थ रम्या कामगमा सभा ।
दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा। ॥ २.८.३४ ॥
阿周那啊,那集会堂宽敞无碍、壮丽可爱,随意可往;它是毗首羯磨经长久苦行之后所造。
2.8.35
ज्वलन्ती भासमाना च तेजसा स्वेन भारत ।
तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः ॥ २.८.३५ ॥
婆罗多之裔啊,它以自身的光辉燃烧闪耀。修行严苛、持守善誓、言语真实者,都走向它。
2.8.36
शान्ताः सन्यासिनः शुद्धाः पूताः पुण्येन कर्मणा ।
सर्वे भास्वरदेहाश्च सर्वे च विरजोम्बराः ॥ २.८.३६ ॥
平静的、出家的、清净的、因功德行而得净化的人;都有光明的身体,都穿着无垢的衣服(前往那里)。
2.8.37
चित्राङ्गदाश्चित्रमाल्याः सर्वे ज्वलितकुण्डलाः ।
सुकृतैः कर्मभिः पुण्यैः पारिबर्हैश्च भूषिताः ॥ २.८.३७ ॥
众人皆佩戴色彩斑斓的臂钏与花环,耳戴闪耀的耳环,以善行、功德之业及所得的赠饰为装饰。
2.8.38
गन्धर्वाश्च महात्मानः सङ्घशश्चाप्सरोगणाः ।
वादित्रं नृत्तगीतं च हास्यं लास्यं च सर्वशः ॥ २.८.३८ ॥
诸位大德的乾闼婆成群结队,天女(阿普萨拉斯)之众;乐器、舞蹈歌唱、欢笑与优雅舞姿,四面皆是。
2.8.39
पुण्याश्च गन्धाः शब्दाश्च तस्यां पार्थ समन्ततः ।
दिव्यानि चैव माल्यानि उपतिष्ठन्ति नित्यशः ॥ २.८.३९ ॥
在那集会中,阿周那啊,四面八方都有清净的香气与声响;天界的花环时时在场。
2.8.40
शतं शतसहस्राणि धर्मिणां तं प्रजेश्वरम् ।
उपासते महात्मानं रूपयुक्ता मनस्विनः ॥ २.८.४० ॥
成百上千万的正法之人,容貌美好、心志高远者,侍奉那位众生之主、大德者。
2.8.41
ईदृशी सा सभा राजन्पितृराज्ञो महात्मनः ।
वरुणस्यापि वक्ष्यामि सभां पुष्करमालिनीम् ॥ २.८.४१ ॥
大王啊,祖先之王那位大德的集会便是这般。现在我也要叙述水神伐楼那的集会——以莲花花环装饰的普什卡罗玛利尼。