Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.82

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.82.1

यां त्वमेतां श्रियं पाण्डुपुत्रे युधिष्ठिरे ।
तप्यसे तां हरिष्यामि द्यूतेन जयतां वर ॥ २.८२.१ ॥

你为般度之子坚战所拥有的那份财富而忧伤,胜利者中最优秀的人啊,我将以赌博把那份财富夺来。

2.82.2

आहूयतां परं राजन्कुन्तीपुत्रो युधिष्ठिरः ।
अगत्वा संशयमहमयुद्ध्वा च चमूमुखे ॥ २.८२.२ ॥

大王啊,请把贡蒂之子坚战召来。我不必陷入险境,也不必在军阵前线交战,便可(获胜)。

2.82.3

अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये ।
ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत ॥ २.८२.३ ॥

我掷骰而无损,精通此道,以胜过不熟练者——请知道,那些赌注是我的弓,骰子是我的箭,婆罗多的后裔啊。

2.82.4

अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्फुरम् ॥ २.८२.४ ॥

请知道骰子的心便是我的弓弦,而我的战车便是骰子的碰撞之声。

2.82.5

अयमुत्सहते राजच्छ्रियमाहर्तुमक्षवित् ।
द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि ॥ २.८२.५ ॥

大王啊,这位精通骰子的人渴望夺取般度诸子的财富。您应当允许他以赌博从般度诸子那里夺取。

2.82.6

स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः ।
तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम् ॥ २.८२.६ ॥

我遵从我兄长、大德的维杜罗的命令。与他会面之后,我将知道此事的决断。

2.82.7

कृष्णादभ्याधिकः सोऽपि क्षत्ता बोद्धा विशाम्पते ।
केवलं धर्ममेवाह न तद्विजयसाधकम् ॥ २.८२.७ ॥

众生之主啊,那位管家维杜罗甚至胜过克里希那,是一位智者,但他只讲法(达摩),而法并不能带来胜利。

2.82.8

जयश्च धर्मतोपेतस्तथैव भरतर्षभ ।
तस्माद्विनयतो जेता तावुभौ च विरोधिनौ ॥ २.८२.८ ॥

婆罗多族中的雄牛啊,胜利也来自法(达摩)。因此以谦逊获胜者才是胜利者;那两人都是对手。

2.82.9

व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः ।
पाण्डवानां हिते युक्तो न तथा मम कौरव ॥ २.८२.९ ॥

俱卢啊,无疑的维杜罗会改变你的心意,因为他专注于般度之子的利益,而非我的利益。

2.82.10

नारभेतान्यसामर्थ्यात्पुरुषः कार्यमात्मनः ।
मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन ॥ २.८२.१० ॥

人不应依靠他人的力量来开始自己的事业;库鲁之喜啊,在事务上,两人的心意从来不会一致。

2.82.11

भयं परिहरन्मत्त आत्मानं परिपालयन् ।
वर्षासु क्लिन्नवटवत्तिष्ठन्नैवावसीदति ॥ २.८२.११ ॥

避开恐惧、保护自己,像雨季中被淋湿的榕树一样屹立的人,永远不会沉没。

2.82.12

न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते ।
यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत् ॥ २.८२.१२ ॥

疾病与阎摩都不会等待善行得以成就;只要定数的时光尚存,就应当行善。

2.82.13

सर्वथा पुत्र बलिभिर्विग्रहो मे रोचते ।
वैरं विकारं सृजति तद्वै शस्त्रमनायसम् ॥ २.८२.१३ ॥

儿子啊,与强者争斗我绝不喜欢。仇恨滋生祸乱,它便是不用铁的武器。

2.82.14

अनर्थमर्थं मन्यसे राजपुत्र ।
सङ्ग्रन्थनं कलहस्यातियाति।
तद्वै प्रवृत्तं तु यथाकथञ्चित् ।
सृजेदसीन्निशितान्सायकांश्च ॥ २.८२.१४ ॥

王子啊,你把灾祸当作利益。争执的结越扯越远;一旦以某种方式发动,它将产生锋利的刀剑与箭矢。

2.82.15

द्यूते पुराणैर्व्यवहारः प्रणीत-
स्तत्रात्ययो नास्ति न सम्प्रहारः।
तद्रोचतां शकुनेर्वाक्यमद्य ।
सभां क्षिप्रं त्वमिहाज्ञापयस्व ॥ २.८२.१५ ॥

在掷骰子之中,依据古老习俗已有既定惯例,其中既无损害,也无激烈争斗。愿今日您喜欢沙恭尼的建议。请迅速在此下令设置议会大厅。

2.82.16

स्वर्गद्वारं दीव्यतां नो विशिष्टं ।
तद्वर्तिनां चापि तथैव युक्तम्।
भवेदेवं ह्यात्मना तुल्यमेव ।
दुरोदरं पाण्डवैस्त्वं कुरुष्व ॥ २.८२.१६ ॥

对我们而言,天堂之门是殊胜的;让他们去玩吧。对于追随它的人,同样也是适宜的。如此,它便与自己相等。请与般度五子安排掷骰子之戏。

2.82.17

वाक्यं न मे रोचते यत्त्वयोक्तं ।
यत्ते प्रियं तत्क्रियतां नरेन्द्र।
पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं ।
न हीदृशं भावि वचो हि धर्म्यम् ॥ २.८२.१७ ॥

你所说的这番话我不喜欢。人主啊,就做你心所爱的吧。若发动这番话,你日后必将懊悔;这样的言辞并不合乎正法。

2.82.18

दृष्टं ह्येतद्विदुरेणै सर्वं ।
विपश्चिता बुद्धिविद्यानुगेन।
तदेवैतदवशस्याभ्युपैति ।
महद्भयं क्षत्रियजीवघाति ॥ २.८२.१८ ॥

维杜罗看见了这一切,他是遵循智慧与学问的贤者。这必然降临,那是摧毁刹帝利生命的巨大恐惧。

2.82.19

एवमुक्त्वा धृतराष्ट्रो मनीषी ।
दैवं मत्वा परमं दुस्तरं च।
शशासोच्चैः पुरुषान्पुत्रवाक्ये ।
स्थितो राजा दैवसंमूढचेताः ॥ २.८२.१९ ॥

如此说罢,智慧的持国王以天命为至高且难以逾越,坚守儿子的话语,大声向众人下令。这位国王心神为天命所迷惑。

2.82.20

सहस्रस्तम्भां हेमवैदूर्यचित्रां ।
शतद्वारां तोरणस्फाटिकाढ्याम्।
सभामग्र्यां क्रोशमात्रायतां मे ।
तद्विस्तारामाशु कुर्वन्तु युक्ताः ॥ २.८२.२० ॥

请诸位官员迅速为我建造一座殊胜的议事大厅,有千根柱子,以黄金和琉璃装饰,百门,饰有拱门与水晶,长一俱卢舍,宽度相称。

2.82.21

श्रुत्वा तस्य त्वरिता निर्विशङ्काः ।
प्राज्ञा दक्षास्तां तदा चक्रुराशु।
सर्वद्रव्याण्युपजह्रुः सभायां ।
सहस्रशः शिल्पिनश्चैव युक्ताः ॥ २.८२.२१ ॥

他们听闻此令,毫不犹豫,有智慧且技艺精湛的人们立即迅速动工建造。所有材料都被运到大厅,数以千计被任命的工匠也前来。

2.82.22

कालेनाल्पेनाथ निष्ठां गतां तां ।
सभां रम्यां बहुरत्नां विचित्राम्।
चित्रैर्हैमैरासनैरभ्युपेता-
माचख्युस्ते तस्य राज्ञः प्रतीताः ॥ २.८२.२२ ॥

不久,那座华美、满饰众多宝物而奇异的大殿竣工了。可靠的工匠向国王禀报,殿中陈设着金制座椅。

2.82.23

ततो विद्वान्विदुरं मन्त्रिमुख्य-
मुवाचेदं धृतराष्ट्रो नरेन्द्रः।
युधिष्ठिरं राजपुत्रं च गत्वा ।
मद्वाक्येन क्षिप्रमिहानयस्व ॥ २.८२.२३ ॥

于是聪慧的人主持国王对众臣之首毗杜罗说:“你奉我之命,快去把王子坚战带到这里来。”

2.82.24

सभेयं मे बहुरत्ना विचित्रा ।
शय्यासनैरुपपन्ना महार्हैः।
सा दृश्यतां भ्रातृभिः सार्धमेत्य ।
मुहृद्द्यूतं वर्ततामत्र चेति ॥ २.८२.२४ ॥

我这座大殿,满饰众多宝物,奇异华美,陈设着贵重的床榻和座椅,请来观看。让兄弟们一同前来,在此进行友好的掷骰之戏。

2.82.25

मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः ।
मत्वा च दुस्तरं दैवमेतद्राजंश्चकार ह ॥ २.८२.२५ ॥

得知其子的主意,又认为这天命难以违抗,国王持国啊,便做了此事。

2.82.26

अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः ।
नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत् ॥ २.८२.२६ ॥

虽然被如此不公地吩咐,智者中的翘楚毗杜罗并不赞同其兄之言,于是说了这番话。

2.82.27

नाभिनन्दे नृपते प्रैषमेतं ।
मैवं कृथाः कुलनाशाद्बिभेमि।
पुत्रैर्भिन्नः कलहस्ते ध्रुवं स्या-
देतच्छङ्के द्यूतकृते नरेन्द्र ॥ २.८२.२७ ॥

国王啊,我不赞同这个命令。不要这样做;我害怕家族的毁灭。人主啊,我怀疑因为这场赌博,你的儿子们之间必定会发生争吵和分裂。

2.82.28

नेह क्षत्तः कलहस्तप्स्यते मां ।
न चेद्दैवं प्रतिलोमं भविष्यत्।
छात्रा तु दिष्टस्य वशे किलेदं ।
सर्वं जगच्चेष्टति न स्वतन्त्रम् ॥ २.८२.२८ ॥

克萨塔啊,如果命运不转而与我为敌,这里的争吵就不会折磨我。儿子们也受命运支配;整个世界都在命运的支配下运行,而非独立自主。

2.82.29

तदद्य विदुर प्राप्य राजानं मम शासनात् ।
क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम् ॥ २.८२.२९ ॥

因此,维都罗啊,今天就奉我的命令去见国王,把贡蒂之子、不可战胜的坚战迅速带来。