摩诃婆罗多 · 章 2.84
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.84.1
प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः ।
समेत्य पार्थिवान्सर्वान्पूजार्हानभिपूज्य च ॥ २.८४.१ ॥
般度之子们在尤迪什提拉带领下走进那座议会厅,会见了所有值得尊敬的国王,并向他们致敬。
2.84.2
यथावयः समेयाना उपविष्टा यथार्हतः ।
आसनेषु विचित्रेषु स्पर्द्ध्यास्तरणवत्सु च ॥ २.८४.२ ॥
众人依年长次序聚集,按各自身份坐在各色华丽的座位上,那些精美的铺垫彼此争辉。
2.84.3
तेषु तत्रोपविष्टेषु सर्वेष्वथ नृपेषु च ।
शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत ॥ २.८४.३ ॥
众国王都已在那里就座后,苏巴拉之子沙古尼对尤迪什提拉说道。
2.84.4
उपस्तीर्णा सभा राजन्सर्वे त्वयि कृतक्षणाः ।
अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर ॥ २.८४.४ ॥
大王,大厅已经布置妥当,众人都在等候你。尤迪什提拉啊,且掷骰子,约定赌局的时间吧。
2.84.5
नितिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः ।
न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि ॥ २.८४.५ ॥
赌博非为正道而是罪过;其中没有刹帝利的勇武,正道在其中也从不稳固。大王,你为何赞美掷骰之戏?
2.84.6
हि मानं प्रशंसन्ति निकृतौ कितवस्य हि ।
शकुने मैवं नोऽजैषीरमार्गेण नृशंसवत् ॥ २.८४.६ ॥
沙古尼啊,骗子赌徒以欺诈为荣;你不要像残忍之人那样,用不正当的手段胜过我们。
2.84.7
यो वेत्ति सङ्ख्या निकृतौ विधिज्ञ-
श्चेष्टास्वखिन्नः कितवोऽक्षजासु।
महामतिर्यश्च जानाति द्यूतं ।
स वै सर्वं सहते प्रक्रियासु ॥ २.८४.७ ॥
知晓点数、通晓作弊之局规则、掷骰之际不知疲倦、大智慧且通晓博戏者,于博弈之法中忍受一切。
2.84.8
अक्षग्लहः सोऽभिभवेत्परं न-
स्तेनैव दोषो भवतीह पार्थ।
दीव्यामहे पार्थिव मा विशङ्कां ।
कुरुष्व पाणं च चिरं च मा कृथाः ॥ २.८४.८ ॥
掷骰者或能胜过对方,此中并不因此而生过失。啊,普利塔之子,啊,国王,莫要疑虑;我们来博弈,下注吧,不要久拖。
2.84.9
एवमाहायमसितो देवलो मुनिसत्तमः ।
इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा ॥ २.८४.९ ॥
如是说者,乃是阿悉多·提婆罗,诸仙中最殊胜者,他常常游行于这些世界之门。
2.84.10
इदं वै देवनं पापं निकृत्या कितवैः सह ।
धर्मेण तु जयो युद्धे तत्परं न तु देवनम् ॥ २.८४.१० ॥
此博戏乃罪恶之事,与欺诈的赌徒以诈术进行;而以正法取胜则在战场之上——那远为高尚,并非博戏。
2.84.11
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत ।
अजिह्यमशठं युद्धमेतत्सत्पुरुषव्रतम् ॥ २.८४.११ ॥
贵人不以言语如蛮夷,也不以幻术行事;正直无诈之战,乃是善人之誓。
2.84.12
शक्तितो ब्राह्मणार्थाय शिक्षितुं प्रयतामहे ।
तद्वै वित्तं मातिदेवीर्माजैषीः शकुने परान् ॥ २.८४.१२ ॥
我们依自身能力为婆罗门而努力学习;那才是真正的财富。啊,沙恭尼,不要过度博弈,不要去胜过他人。
2.84.13
निकृत्या कामये नाहं सुखान्युत धनानि वा ।
कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते ॥ २.८४.१३ ॥
我不愿以欺诈求取快乐或财富。在此,熟练赌徒的行为不受尊重。
2.84.14
श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर ।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥ २.८४.१४ ॥
啊,坚战,学者只能以欺诈去见另一位学者。智者去见无知者,人们却不称之为欺诈。
2.84.15
अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिर ।
विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः ॥ २.८४.१५ ॥
啊,坚战,精通骰子者只能以欺诈前进。熟练者去见不熟练者,人们却不称之为欺诈。
2.84.16
अकृतास्त्रं कृतास्रश्च दुर्बलं बलवत्तरः ।
एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिरः।
विद्वानविदुषोभ्येति नाहुस्तां निकृतिं जनाः ॥ २.८४.१६ ॥
不善兵器者与善用者,弱者与强者:如此,在一切事务中,啊,坚战,都以欺诈而成。熟练者去见不熟练者,人们却不称之为欺诈。
2.84.17
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे ।
देवनाद्विनिवर्तस्व यदि ते विद्यते भयम् ॥ २.८४.१७ ॥
若你来到我这里,视此为欺诈,又若你心怀畏惧,那就从骰戏中退回吧。
2.84.18
आहूतो न निवर्तेयमिति मे व्रतमाहितम् ।
विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः ॥ २.८४.१८ ॥
既已受邀,我不会退缩——这是我坚守的誓愿。大王啊,命运强大,我正处于天命的支配之下。
2.84.19
अस्मिन्समागमे केन देवनं मे भविष्यति ।
प्रतिपाणश्च कोऽन्योस्ति ततो द्यूतं प्रवर्तताम् ॥ २.८४.१९ ॥
在这次集会中,谁将与我掷骰?还有谁是我的对手?那就开始赌局吧。
2.84.20
अहं दातास्मि रत्नानां धनानां च विशाम्पते ।
मदर्थे देविता चायं शकुनिर्मातुलो मम ॥ २.८४.२० ॥
统治万民的君主啊,我愿献上宝石与财富。为我而掷骰的,便是这位赌徒,我的舅父沙古尼。
2.84.21
अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे ।
एतद्विद्विन्नुपादत्स्व काममेवं प्रवर्ततम् ॥ २.८४.२१ ॥
一人与另一人掷骰,在我看来并不公平。明知如此,你便接受吧;依你所愿,就这样进行下去。