摩诃婆罗多 · 章 2.95
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.95.1
राजन्किं करवामस्ते प्रशाध्यस्मांस्त्वमीश्वरः ।
नित्यं हि स्थातुमिच्छामस्तव भारत शासने ॥ २.९५.१ ॥
大王,我们该为您做什么?您是我们的主上,请吩咐我们。婆罗多之后,我们愿永远听从您的统治。
2.95.2
अजातशत्रो भद्रं ते अरिष्टं स्वस्ति गच्छत ।
अनुज्ञाताः सहधनाः स्वराज्यमनुशासत ॥ २.९५.२ ॥
阿遮多沙陀啊,愿你吉祥。平安前行吧。得到许可后,带着你的财富,治理你自己的王国。
2.95.3
इदं चैवावबोद्धव्यं वृद्धस्य मम शासनम् ।
मया निगदितं सर्वं पथ्यं निःश्रेयसं परम् ॥ २.९५.३ ॥
这也是你应当明白的:这老人对你的教诲。我所说的一切都有益,乃是最高的善。
2.95.4
वेत्थ त्वं तात धर्माणां गतिं सूक्ष्मां युधिष्ठिर ।
विनीतोऽसि महाप्राज्ञ वृद्धानां पर्युपासिता ॥ २.९५.४ ॥
亲爱的儿子坚战,你知道法的精微之道。大智者啊,你谦逊有礼,又曾侍奉长辈。
2.95.5
यतो बुद्धिस्ततः शान्तिः प्रशमं गच्छ भारत ।
नादारुणि पतेच्छस्त्रं दारुण्येतन्निपात्यते ॥ २.९५.५ ॥
有智慧之处便有安宁;婆罗多啊,愿你趋于平静。兵器不落在非木之物上,只打在木头上。
2.95.6
न वैराण्यभिजानन्ति गुणान्पश्यन्ति नागुणान् ।
विरोधं नाधिगच्छन्ति ये त उत्तमपूरुषाः ॥ २.९५.६ ॥
不认识仇怨、只看见德行而不见过失、不招致对立的人,他们才是最上等的人。
2.95.7
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि ।
सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाम् ॥ २.९५.७ ॥
善人为他人之利而行,只记念善行,不记所作的仇怨,也不期待报复。
2.95.8
संवादे परुषाण्याहुर्युधिष्ठिर नराधमाः ।
प्रत्याहुर्मध्यमास्त्वेतेऽनुक्ताः नराधमाः। ॥ २.९५.८ ॥
युधिष्ठिर啊,在争论中,卑劣之人说出粗暴的话;中等之人加以反驳;而这些卑劣之人即使未被问及也会说。
2.95.9
न चोक्ता नैव चानुक्तास्त्वहिताः परुषा गिरः ।
प्रतिजल्पन्ति वै धीराः सदा तूत्तमपुरुषाः ॥ २.९५.९ ॥
无论是否说出,有害的粗暴之言,坚定之人从不反驳;最上等的人始终如此。
2.95.10
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि ।
सन्तः प्रतिविजानन्तो लब्ध्वा प्रत्ययमात्मनः ॥ २.९५.१० ॥
善人只记念善行,不记所作的仇怨;以相应的方式回应,并在自身中获得确信。
2.95.11
असम्भिन्नार्यमर्यादाः साधवः प्रियदर्शनाः ।
तथा चरित्तंमार्येण त्वयाऽस्मिन्सत्समागमे ॥ २.९५.११ ॥
守持高贵规范而不破坏的善人,令人赏心悦目;在这善人的集会中,你也如高贵之人那样行事。
2.95.12
दुर्योधनस्य पारुष्यं तत्तात हृदि मा कृथाः ।
मातरं चैव गान्धारीं मां च त्वं गुणकाङ्क्षया ॥ २.९५.१२ ॥
孩子啊,不要把难敌的粗暴放在心上;也不要因追求德行,而把母亲甘陀利和我放在心上。
2.95.13
उपस्थितं वृद्धमन्धं पितरं पश्य भारत ।
प्रेक्षापूर्वं मया द्यूतमिदमासीदुपेक्षितम् ॥ २.९५.१३ ॥
婆罗多啊,看看站在你面前的年老失明的父亲。这场赌骰子之事是我有意任其发生、加以忽视的。
2.95.14
मित्राणि द्रष्टुकामेन पुत्राणां च बलाबलम् ।
अशोच्याः कुरवो राजन्येषां त्वमनुशासिता ॥ २.९५.१४ ॥
我想见见朋友,并知晓诸子的强弱,因此如此行事。国王啊,俱卢人不值得为之悲伤,因为他们的统治者是你。
2.95.15
मन्त्री च विदुरो धीमान्सर्वशास्त्रविशारदः ।
त्वयि धर्मोऽर्जुने धैर्यं भीमसेने पराक्रमः ॥ २.९५.१५ ॥
智慧的毗度罗精通一切学问,是我的大臣。在你身上有法,在阿周那身上有坚毅,在怖军身上有勇力。
2.95.16
शुद्धा च गुरुशुश्रूषा यमयोः पुरुषाग्र्ययोः ।
अजातशत्रो भद्रं ते खाण्डवप्रस्थमाविश।
भ्रातृभिस्तेऽस्तु सौभ्रात्रं धर्मे ते धीयताम मनः ॥ २.९५.१६ ॥
在双生的无种与那两位杰出的人身上,有对长者的纯正侍奉。阿阇多设咄啊,愿你吉祥;进入呾婆林城。愿你与诸兄弟保持兄弟之情,愿你的心安于法。
2.95.17
इत्युक्तो भरतश्रेष्ठ धर्मराजो युधिष्ठिरः ।
कृत्वाऽऽर्यसमयं सर्वं प्रतस्थे भ्रातृभिः सह ॥ २.९५.१७ ॥
婆罗多中最优秀的人啊,听此言后,法王坚战完成了贤者们约定的一切,与诸弟一同启程。
2.95.18
ते रथान्मेघसङ्काशानास्थाय सह कृष्णया ।
प्रययुर्हृष्टमनस इन्द्रप्रस्थं पुरोत्तमम् ॥ २.९५.१८ ॥
他们乘上如云般的战车,与黑公主(德罗波蒂)一同,怀着欢喜之心,前往最殊胜的城市因陀罗普拉斯塔。