摩诃婆罗多 · 章 2.97
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.97.1
शृणु राजन्पुराऽचिन्त्यानर्जुनस्य च साहसान् ।
अर्जुनो धन्विनां श्रेष्ठो दुष्करं कृतवान्पुरा ॥ २.९७.१ ॥
王啊,请听阿周那往昔那不可思议的勇猛事迹。弓手中最优秀的阿周那,昔日曾完成一项艰难之举。
2.97.2
द्रुपदस्य पुरे राजन्द्रौपद्याश्च स्वयंवर ।
आबालवृद्धसङ्क्षोभे सर्वक्षत्रसमागमे।
क्षिप्रकारी जले मत्स्यं दुर्निरीक्ष्यं ससर्ज ह ॥ २.९७.२ ॥
王啊,在德鲁帕达的城中举行了德罗波蒂的选婿大典;老少皆骚动,所有刹帝利都已聚集。行动迅捷者射中了水中那难以看清的鱼。
2.97.3
सर्वैर्नृपैरसाध्यं तत्कार्मुकप्रवरं च वै ।
क्षणेन सज्यमकरोत्सर्वक्षत्रस्य पश्यतः ॥ २.९७.३ ॥
那把所有国王都无法做到的上好弓,他在所有刹帝利的注视下,转瞬之间便将弦拉上。
2.97.4
ततो यन्त्रमयं विध्वा विसारं फल्गुनो बली ।
कृष्णया हेममाल्येन स्कन्धे स परिवेष्टितः ॥ २.९७.४ ॥
随后强大的般遮罗,射中了机械制成的旋转靶,黑公主(克利须那)以金花环绕在他的肩上。
2.97.5
ततस्तया वृतं पार्थं दृष्ट्वा सर्वे नृपास्तदा ।
रोषात्सर्वायुधान्गृह्य क्रुद्धा वीरा महौजसः।
वैकर्तनं पुरस्कृत्य सर्वे पार्थमुपाद्रवन् ॥ २.९७.५ ॥
众王见她选中了般遮(帕尔塔),便怒火中烧,各执兵器,那些愤怒的大力勇士以韦卡尔塔纳(迦尔纳)为首,一齐向帕尔塔扑去。
2.97.6
स सर्वान्पार्थिवान्दृष्ट्वा क्रुद्धान्पार्थो महाबलः ।
वारयित्वा शरैस्तीक्ष्णैरजयत्तत्र स स्वयम् ॥ २.९७.६ ॥
普利塔之子见众王怒火中烧,便以锐利的箭矢阻挡他们,并在那里亲自获胜。
2.97.7
जित्वा तु तान्महीपालान्सर्वान्कर्णपुरोगमान् ।
लेभे कृष्णां शुभां पार्थो युध्वा वीर्यबलात्तदा ॥ २.९७.७ ॥
普利塔之子战胜了以迦尔纳为首的所有国王,于是凭借在战斗中的勇武与力量,赢得了吉祥的黑公主。
2.97.8
सर्वक्षत्रसमूहेषु अम्बां भीष्मो यथा पुरा ।
ततः कदाचिद्बीभत्सुस्तीर्ययात्रां ययौ स्वयम् ॥ २.९७.८ ॥
正如往昔毗湿摩在众刹帝利中赢得安巴,之后某时毗跋特苏亲自踏上了朝圣之旅。
2.97.9
अथोलूपीं शुभां तात नागराजसतां तदा ।
नागेष्वाप वराग्र्येषु प्रार्थितोऽथ यथा तथा ॥ २.९७.९ ॥
父亲啊,那时他在最杰出的龙族中,应请求而得到了龙王之女吉祥的乌卢毗,无论情形如何。
2.97.10
ततो गोदावरीं कृष्णां कावेरीं चावगाहत ।
तत्र पाण्ड्यं समासाद्य तस्य कन्यामवाप सः ॥ २.९७.१० ॥
随后他在哥达瓦里河、克里希纳河和卡维里河中沐浴;在那里他拜见潘地亚王,获得了王的女儿。
2.97.11
लब्ध्वा जिष्णुर्मुदं तत्र ततो याम्यां दिशं ययौ ॥ २.९७.११ ॥
在那里获得了喜悦之后,胜利者阿周那随后向南方而去。
2.97.12
स दक्षिणं समुद्रान्तं गत्वा चाप्सरसां च वै ।
कुमारतीर्थमासाद्य मोक्षयामास चार्जुनः ॥ २.९७.१२ ॥
阿周那前往南方海岸,抵达阿普萨拉斯的鸠摩罗渡口,解救了她们。
2.97.13
ग्राहरूपाश्च ताः पञ्च अतिशौर्येण वै बलात् ।
कन्यातीर्थं समभ्येत्य ततो द्वारवतीं ययौ॥। ॥ २.९७.१३ ॥
他以极大的勇武强力解救了那五位化作鳄鱼形态的女子,到达少女渡口后,便前往德瓦拉卡。
2.97.14
तत्र कृष्णनिदेशात्स सुभद्रां प्राप्य फल्गुनः ।
तामारोप्य रथोपस्थे प्रययौ स्वपुरीं प्रति ॥ २.९७.१४ ॥
在那里,依克里希纳的指示,他得到了苏跋陀罗,把她安置在战车座位上,便朝自己的城市出发了。
2.97.15
अथादाय गते पार्थे ते श्रुत्वा सर्वयादवाः ।
तमभ्यधावन्त्सङ्क्रुद्धाः सिंहव्याघ्रगणा इव ॥ २.९७.१५ ॥
当般度之子带着她离去后,所有的耶达瓦人听到消息,愤怒地向他冲去,如同狮群与虎群。
2.97.16
प्रद्युम्नः कृतवर्मा च गदः सारणसात्यकी ।
आहुकश्चैव साम्बश्च चारुदेष्णो विदूरथः ॥ २.९७.१६ ॥
普拉朱姆那、克里塔瓦尔曼、伽达、萨拉那与萨提亚基、阿呼迦、三婆、遮卢提舍那与毗度罗陀。
2.97.17
अन्ये च यादवाः सर्वे बलदेवपुरोगमाः ।
एकमेव परे कृष्णं गजवाजिरथैर्युताः ॥ २.९७.१७ ॥
其余所有耶达瓦人在大力罗摩的率领下,携带象、马与战车,一起与唯独克里希纳对抗。
2.97.18
अथासाद्य वने यान्तं परिवार्य धनञ्जयम् ।
चक्रुर्युद्धं सुसङ्क्रुद्धा बहुकोट्यश्च यादवाः ॥ २.९७.१८ ॥
随后,在林中行进的达难遮耶被包围,极度愤怒的数千万甚至更多的般度族敌对的雅达瓦人与之交战。
2.97.19
एक एव तु पार्थस्तैर्युद्धं चक्रे सुदारुणम् ।
तेन तेषां समं युद्धं मुहूर्तं प्रबभूव ह ॥ २.९७.१९ ॥
然而,帕尔特一人与他们进行了极为激烈的战斗,因此他们的交战在一瞬间势均力敌。
2.97.20
ततः पार्थो रणे सर्वान्वारयित्वा शितैः शरैः ।
बलाद्विजित्य राजेन्द्र वीरस्तान्सर्वयादवान्।
तां सुभद्रामथादाय शक्रप्रस्थं विवेश ह ॥ २.९७.२० ॥
随后英雄帕尔特以锐利的箭在战场上阻挡了所有人,以武力战胜了那些雅达瓦人,王中之王啊;他带着苏跋陀罗,进入了因陀罗普拉斯塔。
2.97.21
भूयः शृणु महाराज फल्गुनस्य च साहसम् ।
ददौ स वह्नेर्बिभत्सुः प्रार्थितं खाण्डवं वनम् ॥ २.९७.२१ ॥
大王,请再听听法尔古那的勇敢事迹。毗跋特苏把阿耆尼所求的安陀婆林施予了他。
2.97.22
लब्धमात्रे तु तेनाथ भगवान्हव्यवाहनः ।
भक्षितुं खाण्डवं राजंस्तत्रस्थानुपचक्रमे ॥ २.९७.२२ ॥
大王,他一得到此林,尊贵的哈维耶跋诃那(阿耆尼)便开始吞噬安陀婆林,并攻击其中的居住者。
2.97.23
ततस्तं भक्षयन्तं वै सव्यसाची विभावसुम् ।
रथा धन्वी शरान्गृह्य स कलापयुतः प्रभुः।
पालयामास राजेन्द्र स्ववीर्येण महाबलः ॥ २.९७.२३ ॥
于是,见阿耆尼正在吞噬,萨维亚萨钦(阿周那)站在战车上,作为射手取过箭矢,携带箭囊,王中之王啊,那位大力的主以自己的勇武保护了他们。
2.97.24
ततः श्रुत्वा महेनद्रस्तु मेघांस्तान्सन्दिदेश ह ।
तेनोक्ता मेघसङ्घास्ते ववर्षुरतिवृष्टिभिः ॥ २.९७.२४ ॥
此时因陀罗听到此事,便向那些云下令。受他命令,云群以极大的暴雨倾泻而下。
2.97.25
ततो मेघगाणान्पार्थः शरव्रातैः समान्ततः ।
खगमैर्वारयामास तदाश्चर्यमिवाभवत् ॥ २.९७.२५ ॥
于是普利塔之子从四面以成群的飞箭阻挡云群,那景象仿佛是一桩奇迹。
2.97.26
वारितान्मेघसङ्घांश्च श्रुत्वा क्रुद्धः पुरन्दरः ।
पाण्डरं गजमास्थाय सर्वदेवगणैर्वृतः।
ययौ पार्थेन संयोद्धुं रक्षार्थं खाण्डवस्य च ॥ २.९७.२६ ॥
听说云群被阻挡,普兰达罗大怒。他骑上白象,被诸天神众簇拥,前去与普利塔之子作战,也为了守护金的森林。
2.97.27
रुद्राश्च मरुतश्चैव वसवश्चाश्विनौ तदा ।
आदित्याश्चैव साध्याश्च निश्वेदेवाश्च भारत।
गन्धर्वाश्चैव सहिता अन्ये देवगणाश्च ये ॥ २.९७.२७ ॥
那时,楼陀罗、摩噜多、婆苏、双阿溪那、阿迪提耶、萨陀耶、毗首提婆,婆罗多啊,连同乾闼婆以及其他诸天神众,都来了。
2.97.28
ते सर्वे शस्त्रसम्पन्ना दीप्यमानाः स्वतेजसा ।
धनञ्जयं जिघांसन्तः प्रपेतुर्विबुधाधिपाः ॥ २.९७.२८ ॥
诸天之主个个持有兵器,以自身光辉照耀,欲杀德哈南遮耶,纷纷扑上前去。
2.97.29
युगान्ते यानि दृश्यन्ते निमित्तानि महान्त्यपि ।
सर्वाणि तत्र दृश्यन्ते निमित्तानि महीपते ॥ २.९७.२९ ॥
凡在劫末出现的大兆,在那里都显现了,地上之主啊。
2.97.30
ततो देवगमाः सर्वे पार्थं समभिदुद्रुवुः ।
असम्भ्रान्तस्तु तान्दृष्ट्वा स तां देवमयीं चमूम् ॥ २.९७.३० ॥
于是诸神的随从们一齐冲向帕尔塔。然而他看见他们以及那支神之军,却毫不慌乱。
2.97.31
त्वरितः फल्गुनो गृह्य तीक्ष्णांस्तानाशुगांस्तदा ।
इन्द्रं देवांश्च सम्प्रेक्ष्य तस्थौ काल इवात्यये ॥ २.९७.३१ ॥
于是法尔古那迅速拿起那些锐利的快箭。望着因陀罗和诸神,他屹立如同劫末之时的时间。
2.97.32
ततो देवगणाः सर्वे बीभत्सुं सपुरन्दराः ।
अवाकिरञ्छरव्रातैर्मानुषं तं महीपते ॥ २.९७.३२ ॥
于是诸神之众与补兰达罗一起,向比毗婆苏,那位凡人,啊地上之主,倾泻箭雨。
2.97.33
ततः पार्थो महातेजा गाण्डिवं गृह्य सत्वरः ।
वारयामास देवानां शरव्रातैः शरांस्तदा ॥ २.९७.३३ ॥
于是光辉巨大的帕尔塔迅速拿起甘狄瓦弓,立刻以一阵阵箭雨挡住了诸神的箭。
2.97.34
पुनः क्रुद्धाः सुराः सर्वे मर्त्यं तं सुभहाबलाः ।
नानाशस्त्रैर्ववर्षुस्तं सव्यसाची महीपते ॥ २.९७.३४ ॥
诸神再次愤怒地、非常强大地向那凡人——萨维亚萨钦——降下了各种兵器,啊地上之主。
2.97.35
तान्पार्थः शस्त्रवर्षान्वै विसृष्टान्विबुधैस्तदा ।
द्विधा त्रिधा स चिच्छेद स एव निशितैः शरैः ॥ २.९७.३५ ॥
诸神投掷的那些兵器雨,帕尔塔随即用那些锐利的箭将其斩成两段、三段。
2.97.36
पुनश्च पार्थः सङ्क्रुद्धो मण्डलीकृतकार्मुकः ।
देवसङ्घाञ्छरैस्तीक्ष्णैरर्पयन्वै समन्ततः ॥ २.९७.३६ ॥
阿周那再次怒火中烧,将弓拉成圆形,用利箭从四面八方射穿了诸神的队伍。
2.97.37
ततो देवगणाः सर्वे युध्वा पार्थेन वै मुहुः ।
रणे जेतुमशक्यं तं ज्ञात्वा ते भरतर्षभ ॥ २.९७.३७ ॥
于是诸神的全部队伍与阿周那反复交战,婆罗多族的雄牛啊,他们知道他在战场上无法被战胜。
2.97.38
शान्तास्ते विबुधाः सर्वे पार्थबाणाभिपीडिताः ।
सद्विपं वासवं त्यक्त्वा दुद्रुवुः सर्वतो दिशम् ॥ २.९७.३८ ॥
诸神都被阿周那的箭所折磨而屈服,抛下了连同大象的因陀罗,四散奔逃。
2.97.39
प्राचीं रुद्राः सगन्धर्वा दक्षिणां मरुतो ययुः ।
दिशं प्रतीचीं भीतास्ते वसवश्च तथाऽश्विनौ ॥ २.९७.३९ ॥
楞德罗与乾闼婆一同向东而去,摩噜多向南而去;而惊恐的婆修与双阿输涅也同样向西而去。
2.97.40
आदित्याश्चैव विश्वे च दुद्रुवुर्वा उदङ्मुखाः ।
साध्याश्चोर्ध्वमुखा भीताश्चिन्तयन्तोऽस्य सायकान् ॥ २.९७.४० ॥
阿底提耶与毗湿婆天面向北方逃去;婆陀耶们惊恐万分,仰面向上,心中想着他的箭,也逃走了。
2.97.41
एवं सुरगणाः सर्वे प्राद्रवन्त्सर्वतो दिशम् ।
मुहुर्मुहुः प्रेक्षमाणाः पार्थमेव सकार्मुकम् ॥ २.९७.४१ ॥
如此,诸神的全部队伍四散奔逃,不断回头望着手持弓箭的阿周那。
2.97.42
विद्रुतान्देवसङ्घांस्तान्रणे दृष्ट्वा पुरन्दरः ।
ततः क्रुद्धो महातेजाः पार्थं बाणैरवाकिरत् ॥ २.९७.४२ ॥
见诸天神之众在战中溃散,因陀罗大怒,光辉赫赫,便以箭雨覆盖般若之子(阿周那)。
2.97.43
पार्थोऽपि शक्रं विव्याथ मानुषो विबुधाधिपम् ॥ २.९७.४३ ॥
般若之子虽为凡人,亦射中了诸神之主释迦(因陀罗)。
2.97.44
ततः सोऽश्ममयं वर्षं व्यसृजद्विबुधाधिपः ।
तच्छरैरर्जुनो वर्षं प्रतिजाघ्नेऽत्यमर्षणः ॥ २.९७.४४ ॥
于是诸神之主降下石雨;不能容忍侮辱的阿周那以箭将那雨击退。
2.97.45
अथ संवर्धयामास तद्वर्षं देवराडपि ।
भूय एव महावीर्यं जिज्ञासुः सव्यसाचिनः ॥ २.९७.४५ ॥
于是诸神之王又加强了那雨,因想再次试探善用双手的阿周那之大力。
2.97.46
सोऽश्मवर्षं महावेगमिषुभिः पाण्डवोऽपि च ।
विलयं गमयामास हर्षयन्पाकशासनम् ॥ २.९७.४६ ॥
般度之子也以箭使那迅猛的石雨消散,令破伽之惩罚者因陀罗欢喜。
2.97.47
उपादाय तु पाणिभ्यामङ्गदं नाम पर्वतम् ।
सद्रुमं व्यसृजच्छक्रो जिघांसुः श्वेतवाहनम् ॥ २.९७.४७ ॥
于是释迦欲杀白马者,双手举起名为安伽达的山连同树木,将其掷出。
2.97.48
ततोऽर्जुनो वेगवद्भिर्ज्वलमानैरजिह्यगैः ।
बाणैर्विध्वंसयामास गिरिराजं सहस्रधा ॥ २.९७.४८ ॥
于是阿周那以迅疾、燃烧、直飞的箭,将那山王击碎成千片。
2.97.49
शक्रं च पातयामास शरैः पार्थो महान्युधि ।
ततः शक्रो महाराज रणे वीरं धनञ्जयम् ॥ २.९७.४९ ॥
伟大的普利塔之子以箭在战斗中射倒了因陀罗。然后,大王,在战场上,因陀罗对英雄财主——
2.97.50
ज्ञात्वा जेतुमशक्यं तं तेजोबलसमन्वितम् ।
परां प्रीति ययौ तत्र पुत्रशौर्येण वासवः ॥ २.९७.५० ॥
知其不可战胜,具足威光与力量,婆娑在那里因儿子的英勇而生起至上的喜悦。
2.97.51
तदा तत्र न तस्यास्ति दिवि कश्चिन्महायशाः ।
समर्थो निर्जये राजन्नपि साक्षात्प्रजापतिः ॥ २.९७.५१ ॥
那时天上无一位大名之人能胜过他,大王,即便是亲自的生主也不能。
2.97.52
ततः पार्थः शरैर्हत्वा यक्षराक्षसपन्नगान् ।
दीप्ते चाग्नौ महातेजाः पातयामास सन्ततम् ॥ २.९७.५२ ॥
于是大光明的普利塔之子,以箭射杀夜叉、罗刹与蛇众,并不断将他们投入熊熊烈火之中。
2.97.53
प्रतिषेधयितुं पार्थं न शेकुस्तत्र केचन ।
दृष्ट्वा निवारितं शक्रं दिवि देवगणैः सह ॥ २.९७.५३ ॥
那里无人能够阻挡普利塔之子。见因陀罗与诸天众一同在天上被阻止——
2.97.54
यथा सुपर्णः सोमार्थं विबुधानजयत्पुरा ।
तथा जित्वा सुरान्पार्थस्तर्पयामास पावकम् ॥ २.९७.५४ ॥
正如往昔金翅鸟为了苏摩而战胜诸神,同样,普利塔之子战胜诸神,使火神得到满足。
2.97.55
ततोऽर्जुनः स्ववीर्येण तर्पयित्वा विभावसुम् ।
रथं ध्वजं च सहयं दिव्यानस्त्रांश्च पाण्डवः ॥ २.९७.५५ ॥
然后,般度之子阿周那以自己的勇力使火神毗婆娑满足,获得了战车、旗帜、马匹以及神圣的武器。
2.97.56
गाण्डीवं च धनुः श्रेष्ठं तूणी चाक्षयसायकौ ।
एतान्यपि च बीभत्सुर्लेभे कीर्ति च भारत ॥ २.९७.५६ ॥
婆罗多之裔啊,毗跋蹉获得了名为甘狄拔的殊胜之弓、两个箭不竭的箭囊,以及这些物品,并获得了名声。
2.97.57
भूयोऽपि शृणु राजेन्द्र पार्थो गत्वोत्तरां दिशम् ।
विजित्य नववर्षांश्च सपुरांश्च सपर्वतान् ॥ २.९७.५७ ॥
王中之王啊,请再听:普利塔之子前往北方,征服了九个地域连同其城市与山脉,
2.97.58
जम्बुद्वीपं वशे कृत्वा सर्वं तद्भरतर्षभ ।
बलाज्जित्वा नृपान्सर्वान्करे चविनिवेश्य च ॥ २.९७.५८ ॥
婆罗多中的雄牛啊,他使整个阎浮洲臣服,以武力征服了所有国王,并使他们归于其麾下。
2.97.59
रत्नान्यादाय सर्वाणि गत्वा चैव पुनः पुरीम् ।
ततो ज्येष्ठं महात्मानं धर्मराजं युधिष्ठिरम्।
राजसूयं क्रतुश्रेष्ठं कारयामास भारत ॥ २.९७.५९ ॥
他取得所有珍宝,返回城中,婆罗多啊,他让长兄、大德的法王坚战举行了最殊胜的祭祀——王祭。
2.97.60
स तान्यन्यानि कर्माणि कृतवानर्जुनः पुरा ।
अर्जुनेन समो वीर्ये त्रिषु लोकेषु न क्वचित् ॥ २.९७.६० ॥
阿周那昔日曾建立那些其他功业;在勇力上,三界之中没有任何人能与阿周那相比。
2.97.61
देवदानवयक्षाश्च पिशाचोरगराक्षसाः ।
भीष्मद्रोणादयः सर्वे कुरवश्च महारथाः ॥ २.९७.६१ ॥
天神、檀那婆、夜叉、毗舍遮、龙蛇与罗刹,以及毗湿摩、德罗纳等所有俱卢族的大车战士。
2.97.62
लोके सर्वनृपाश्चैव वीराश्चान्ये धनुर्धराः ।
एते पार्थं रणे युक्ताः प्रतियोद्धुं न शक्नुयुः ॥ २.९७.६२ ॥
世上所有的国王和其他善射的英雄,即使投入战斗,也无法抵挡般度之子。
2.97.63
अहं हि नित्यं कौरव्य फल्गुनं हृदि संस्थितम् ।
अपश्यं चिन्तयित्वा तं समुद्विग्नोऽस्मि तद्भयात् ॥ २.९७.६३ ॥
哦,俱卢之后,我时常在心中看见法尔古那;想到他,我因对他的恐惧而深感不安。
2.97.64
गृहे गृहे च पश्यामि तात पार्थमहं सदा ।
शरगाण्डीवसंयुक्तं पाशहस्तमिवान्तकम् ॥ २.९७.६४ ॥
父亲啊,我总是在每一家都看见般度之子,手持箭与甘狄拔弓,如同手执绳索的死神。
2.97.65
अपि पार्थसहस्राणि भीतः पश्यामि भारत ।
पार्थभूतमिदं सर्वं नगरं प्रतिभाति मे ॥ २.९७.६५ ॥
哦,婆罗多,我在恐惧中看见成千上万的般度之子;整座城市在我看来都充满了般度之子。
2.97.66
पार्थमेव हि पश्यामि रहिते तात भारत ।
दृष्ट्वा स्वप्नगतं पार्थमुद्धमामि विचेतनः ॥ २.९७.६६ ॥
父亲啊,婆罗多后裔,独处时我只见到般度之子。梦中见到般度之子后,我惊慌失措地醒来。
2.97.67
अकारादीनि नामानि अर्जुनग्रस्तचेतसः ।
अश्वाक्षराम्बुजाश्चैव त्रासं सञ्जनयन्ति मे ॥ २.९७.६७ ॥
以字母a开头的名字、aśva的音节,以及莲花,都在我心中引起恐惧,我的心为阿周那所困。
2.97.68
नास्ति पार्थादृते तात परवीराद्भयं मम ।
प्रह्लादं वा बलिं वापि हन्याद्धि विजयो रणे ॥ २.९७.६८ ॥
父亲,除了般度之子,我不惧怕敌方的英雄。战场上的胜者甚至可以杀死毗卢陀或钵利。
2.97.69
तस्मात्तेन महाराज युद्धं नस्तात न क्षमम् ।
अहं तस्य प्रभावज्ञो नित्यं दुःखं वहामि च ॥ २.९७.६९ ॥
因此,大王,与他交战对我们而言,父亲,是不合宜的。我深知他的威力,因此常怀忧愁。
2.97.70
पुरा हि दण्डकारण्ये मारीचस्य यथा भयम् ।
भवेद्रामे महावीर्ये तथा पार्थे भयं मम ॥ २.९७.७० ॥
往昔在檀陀迦森林,摩里耶曾畏惧大勇的罗摩;如今我也畏惧般度之子。
2.97.71
जानाम्येव महद्वीयं जिष्णोरेतद्दुरासदम् ।
एतद्वीरस्य पार्थस्य कार्षीस्त्वं तु विप्रियम् ॥ २.९७.७१ ॥
我确知胜利者惧死(阿周那)的伟大威力难以抵挡。但你不应当冒犯这位英雄般度之子。
2.97.72
द्यूतं वा शस्त्रयुद्धं वा दुवाक्यं वा कथञ्चन ।
एतेष्वेवं कृते तस्य विग्रहश्चैव वो भवेत् ॥ २.९७.७२ ॥
若以博弈、兵器相争或恶言,以任何方式行此等事,则你们与他之间必会发生争端。
2.97.73
तस्मात्त्वं पुत्र पार्थेन नित्यं स्नेहेन वर्तय ।
यश्च पार्थेन सम्बन्धो वर्तते चेन्नरो भुवि ॥ २.९७.७३ ॥
因此,我的儿子,你应当始终以爱护之心对待般度之子,对于在世间与般度之子有关系的任何人也当如此。
2.97.74
तस्य नास्ति भयं किञ्चित्रिषु लोकेषु भारत ।
तस्मात्त्वं जिष्णुना वत्स नित्यं स्नेहेन वर्तय ॥ २.९७.७४ ॥
婆罗多之子啊,他在三界中毫无所惧。因此,我的孩子,你应当始终以爱护之心对待胜利者。
2.97.75
द्यूते पार्थस्य कौरव्य मायया निकृतिः कृता ।
तस्माद्वि नो जयस्तात अन्योपायेन नो भवेत् ॥ २.९७.७५ ॥
考罗婆之子啊,在赌局中,般度之子被诡计所欺。因此父亲,我们的胜利只能依靠其他手段。
2.97.76
उपायश्च न कर्तव्यः पाण्डवान्प्रति भारत ।
पार्थान्प्रति पुरा वत्स बहूपायाः कृतास्त्वया ॥ २.९७.७६ ॥
婆罗多之子啊,对于般度五子不应施用任何计谋。我的孩子,你以前已对般度之子设过许多计谋。
2.97.77
तानुपायान्हि कौन्तेया बहुशो व्यतिचक्रमुः ।
तस्माद्वितं जीविताय नः कुलस्य जनस्य च ॥ २.९७.७७ ॥
昆提之子已多次克服那些计谋。因此,凡有益于我们的生命、家族与百姓的,
2.97.78
त्वं चिकीर्षसि चेद्वत्स समित्रः सहबान्धवः ।
सभ्रातृकस्त्वं पार्थेन नित्यं स्नेहेन वर्तय ॥ २.९७.७८ ॥
亲爱的孩子,如果你想与朋友、亲属和兄弟们一起,始终对般度之子怀着爱意相处……
2.97.79
धृतराष्ट्रवचः श्रुत्वा राजा दुर्योधनस्तदा ।
चिन्तयित्वा मुहूर्तं तु विधिना चोदितोऽब्रवीत् ॥ २.९७.७९ ॥
国王难敌听了持国王的话,思索片刻,在命运的驱使下开口说道。
2.97.80
पुनर्दीव्याम भद्रं ते वनवासाय पाण्डवैः ।
एवमेतान्वशे कर्तुं शक्ष्यामः पुरुषर्षभ॥ष ॥ २.९७.८० ॥
让我们再来掷骰子吧,愿你平安——为了般度五子的流放。人中之雄,这样我们便能将他们置于掌控之中。
2.97.81
ते वा द्वादश वर्षाणि वयं वा द्यूतनिर्जिताः ।
प्रविशेम महारण्यमजिनैः प्रतिवासिताः ॥ २.९७.८१ ॥
让他们在大森林中待十二年——或者我们,在掷骰中落败者,身披鹿皮进入大森林。
2.97.82
त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ २.९७.८२ ॥
第十三年,在亲族中隐姓埋名一年;若被认出,则再在森林中住十二年。
2.97.83
निवसेम वयं ते वा तथा द्यूतं प्रवर्तताम् ।
अक्षानुप्त्वा पुनर्द्यूतमिदं कुर्वन्तु पाण्डवः ॥ २.९७.८३ ॥
让我们或他们如此居住;让掷骰的游戏继续。掷下骰子,让般度五子再次进行这场赌局。
2.97.84
एतत्कृत्यतमं राजन्नस्माकं भरतर्षभ ।
अयं हि शकुनिर्वेद सविद्यामक्षसम्पदम् ॥ २.९७.८४ ॥
大王,婆罗多族之牛,这对我们来说是最应做的事。因为这位沙恭尼精通掷骰之术及其财富。
2.97.85
दृढमूलं वयं राज्ये मित्राणि परिगृह्य च ।
सारवद्विपुलं सैन्यं सत्कृत्य च दुरासदम् ॥ २.९७.८५ ॥
我们在王国中根基稳固;聚集盟友并加以礼遇,我们的军队强大、庞大而难以攻破。
2.97.86
ते च त्रयोदशं वर्षं पारयिष्यन्ति चेद्व्रतम् ।
जेष्यामस्तान्वयं राजत्रोचतां ते परन्तप ॥ २.९७.८६ ॥
若他们以誓愿完成第十三年,我们便能战胜他们。大王,焚敌者,愿此事合你心意。
2.97.87
तूर्णं प्रत्यानयस्वैतान्कामं व्यध्वगतानपि ।
आगच्छन्तु पुनर्द्यूतमिदं कुर्वन्तु पाण्डवः ॥ २.९७.८७ ॥
即使他们已走远路,也要尽快把他们召回。愿般度之子前来,再次进行这场掷骰之戏。
2.97.88
ततो द्रोणः सोमदत्तो बाह्लीकश्चैव गौतमः ।
विदुरो द्रोणपुत्रश्च वैश्यापुत्रश्च वीर्यवान् ॥ २.९७.८८ ॥
随后德罗纳、索摩达多、跋喜迦、乔达摩(克利巴)、维杜罗、德罗纳之子,以及勇猛的吠舍女之子。
2.97.89
भूरिश्रवाः शान्तनवो विकर्णश्च महारथः ।
मा द्यूतमित्यभाषन्त शमोऽस्त्विति च सर्वशः ॥ २.९७.८९ ॥
婆里首罗娑、山塔努之子(毗湿摩)以及大车将毗迦尔纳说:"不要掷骰。"众人皆说:"愿和平。"
2.97.90
अकामानां च सर्वेषां सुहृदामर्थदर्शिनाम् ।
अकरोत्पाण्डवाह्वानं धृतराष्ट्रः सुतप्रियः ॥ २.९७.९० ॥
尽管所有看清利益的善友都不愿意,溺爱诸子的持国王仍下令召请般度五子。
2.97.91
अथाब्रवीन्महाराज धृतराष्ट्रं जनेश्वरम् ।
पुत्रहार्दाद्धर्मयुक्ता गान्धारी शोककर्शिता ॥ २.९७.९१ ॥
于是,充满法义却因悲伤而憔悴的甘陀利出于对儿子的爱,对大王、人主持国王说道。
2.97.92
जाते दुर्योधने क्षत्ता महामतिरभाषत ।
नीयतां परलोकाय साध्वयं कुलपांसनः ॥ २.९७.९२ ॥
难敌刚一出生,大智的管家(毗undefined罗)便说:“应当把这个败坏家族的人送往他界,这才是好的。”
2.97.93
व्यनदज्जातमात्रो हि गोमायुरिव भारत ।
अन्तो नूनं कुलस्यास्य कुरवस्तन्निबोधत ॥ २.९७.९३ ॥
婆罗多啊,他一出生便像豺狼一样嚎叫。这必是这个家族的末日;库鲁人啊,你们要明白。
2.97.94
मा निमज्जीः स्वदोषेण महाप्सु त्वं हि भारत ।
मा बालानामशिष्टानामभिमंस्था मतिं प्रभो ॥ २.९७.९४ ॥
婆罗多啊,不要因自己的过失沉入大水之中。主啊,不要把孩童与不驯者的意见放在心上。
2.97.95
मा कुलस्य क्षये घोरे कारणं त्वं भविष्यसि ।
बद्धं सेतुं को नु भिन्द्याद्धमेच्छान्तं च पावकम् ॥ २.९७.९५ ॥
不要成为家族可怕毁灭的原因。谁会毁掉已筑成的堤坝,又有谁会吹旺已熄灭的火焰?
2.97.96
शमे स्थितान्को नु पार्थान्कोपयेद्भरतर्षभ ।
स्मरन्तं त्वामाजमीढं स्मारयिष्याम्यहं पुनः ॥ २.९७.९६ ॥
婆罗多族的雄牛啊,谁会激怒安住于和平中的般度之子?阿遮弥陀之裔,我念及你,将再次提醒你。
2.97.97
शास्त्रं न शास्ति दुर्बुद्धिं श्रेयसे चेतराय च ।
न वै वृद्धो बालमतिर्भवेद्राजन्कथञ्चन ॥ २.९७.९७ ॥
经典不会指导恶念之人走向善或其他任何方向。国王啊,年长者无论如何都不会变得如孩童般无知。
2.97.98
त्वन्नेत्राः सन्तु ते पुत्रा मा त्वां दीर्णाः प्रहासिषुः ।
तस्मादयं मद्वचनात्त्यज्यतां कुलपांसनः ॥ २.९७.९८ ॥
愿你的儿子们以你为眼睛,免得他们舍弃你、使你破碎。因此依我之言,应当驱逐这个玷污家族的人。
2.97.99
तथा ते न कृतं राजन्पुत्रस्नेहान्नराधिप ।
तस्य प्राप्तं फलं विद्धि कुलान्तकरणाय यत् ॥ २.९७.९९ ॥
国王啊,人主啊,你并非出于对儿子的爱而如此行事。请知道他为灭绝家族所得到的果报。
2.97.100
शमेन धर्मेण नयेन युक्ता ।
या ते बुद्धिः साऽस्तु ते मा प्रमादीः।
प्रध्वंसिनी क्रूरसमाहिता श्री-
र्मृदुप्रौढा गच्छति पुत्रपौत्रान् ॥ २.९७.१०० ॥
愿你那与寂静、法及善治相应的智慧属于你;不要懈怠。那具毁灭性、因残酷而聚集的吉祥,会变得温和而成熟,传给儿子与孙子。
2.97.101
अथाब्रवीन्महाराजो गान्धारीं धर्मदर्शिनीम् ।
अन्तः कामं कुलस्यास्तु न शक्नोमि निवारितुम् ॥ २.९७.१०१ ॥
于是大王对见法的甘陀利说:无论家族内心的欲望如何,我都无法阻止。
2.97.102
यथेच्छन्ति तथैवास्तु प्रत्यागच्छन्तु पाण्डवाः ।
पुनर्द्यूतं च कुर्वन्तु मामकाः पाण्डवैः सह ॥ २.९७.१०२ ॥
愿一切依他们所愿。愿般度之子回来,愿我的儿子们再与般度之子掷骰子。