Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 2.98

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.98.1

ततो व्यध्वगतं पार्थं प्रातिकामी युधिष्ठिरम् ।
उवाच वचनाद्राज्ञो धृतराष्ट्रस्य धीमतः ॥ २.९८.१ ॥

于是,遵从智慧的国王持国之命,普拉提卡米对途中而来的普利塔之子坚战说道。

2.98.2

उपास्तीर्णा सभा राजन्नक्षानुप्त्वा युधिष्ठिर ।
एहि पाण्डव दीव्येति पिता त्वाह नराधिपः ॥ २.९८.२ ॥

国王坚战啊,大厅已经布置好,骰子也已掷下。人主、你的父亲对你说:'般度之子,来吧,博弈吧。'

2.98.3

धातुर्नियोगाद्भूतानि प्राप्नुवन्ति शुभाशुभम् ।
न निवृत्तिस्तयोरस्ति देवतव्यं पुनर्यदि ॥ २.९८.३ ॥

依造物主的安排,众生得到善与恶;若命运再次如此注定,则无法避免这二者。

2.98.4

अक्षद्यूते समाह्वानं नियोगात्स्थविरस्य च ।
जानन्नपि क्षयकरं नातिक्रमितुमुत्सहे ॥ २.९८.४ ॥

骰子赌局的邀请与长者的命令——虽知其将导致毁灭,我也不愿违抗。

2.98.5

असम्भवो हेममयस्य जन्तो-
स्तथापि रामो लुलुभे मृगाय।
प्रायः समासन्नपराभवाणां ।
धियो विपर्यस्ततरा भवन्ति ॥ २.९८.५ ॥

金色的生灵本不可能存在,然而罗摩仍被那只鹿所迷惑。败亡将近之人,其心智往往变得极为颠倒。

2.98.6

इति ब्रुवन्निववृते भ्रातृभिः सह पाण्डवः ।
जानांश्च शकुनेर्मायां पार्थो द्यूतमियात्पुनः ॥ २.९८.६ ॥

般度之子说完这些,便与兄弟们一同返回;然而明知沙恭尼的诡计,般度之子阿周那仍会再去赌博。

2.98.7

विविशुस्ते सभां तां तु पुनरेव महारथाः ।
व्यथयन्ति स्म चेतांसि मुहृदां भरतर्षभाः ॥ २.९८.७ ॥

那些大车勇士再次进入那座议事厅,婆罗多族的雄牛们使朋友们的心烦乱。

2.98.8

यथोपजोषमासीनाः पुनर्द्यूतप्रवृत्तये ।
सर्वलोकविनाशाय दैवेनोपनिपीडिताः ॥ २.९८.८ ॥

他们随意就座,受命运所迫,再次坐下重开赌局,以致毁灭一切世界。

2.98.9

अमुञ्चत्स्थविरो यद्वो धनं पूजितमेव तत् ।
महाधनं ग्लहं त्वेकं शृणु भो भरतर्षभ ॥ २.९८.९ ॥

长者放弃了那被视为你们所有的珍贵财富;但听着,婆罗多族的雄牛,且听一个巨大的财富赌注。

2.98.10

वयं वा द्वादशाब्दानि युष्माभिर्द्यूतनिर्जिताः ।
प्रविशेम महारण्यं रौरवाजिनवाससः ॥ २.९८.१० ॥

我们——被你们在赌局中击败的——或者你们,身穿罗卢鹿皮,进入大森林十二年。

2.98.11

त्रयोदशं च स्वजनैरज्ञाताः परिवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ २.९८.११ ॥

第十三年须在亲族不识之中度过一年;若被认出,则再在森林中度过十二年。

2.98.12

अस्माभिर्निर्जिता यूयं वने द्वादश वत्सरान् ।
वसध्वं कृष्णया सार्धमजिनैः प्रतिवासिताः ॥ २.९८.१२ ॥

你们被我们击败,须与克利须那一同在森林中居住十二年,以兽皮为衣。

2.98.13

त्रयोदशं च स्वजनैरज्ञाताः पिरवत्सरम् ।
ज्ञाताश्च पुनरन्यानि वने वर्षाणि द्वादश ॥ २.९८.१३ ॥

第十三年,你们要在亲族不认识的情况下度过整整一年;若被认出,则再在森林中度过十二年。

2.98.14

त्रयोदशे च निर्वृत्ते पुनरेव यथोचितम् ।
स्वराज्यं प्रतिपत्तव्यमितरैरथवेतरैः ॥ २.९८.१४ ॥

第十三年圆满之后,应以适当的方式重新收回你们自己的王国,或由他人收回。

2.98.15

अनेन व्यवसायेन सहास्माभिर्युधिष्ठिर ।
अक्षानुप्त्वा पुनर्द्यूतमेहि दीव्यस्व भारत ॥ २.९८.१५ ॥

依照此约,与我们一起,阿育提希特啊,掷骰子,再来赌博;来吧,玩吧,婆罗多的后裔。

2.98.16

अथ सभ्याः सभामध्ये समुच्छ्रितकरास्तदा ।
ऊचुरुद्विग्नमनसः संवेगात्सर्व एव हि ॥ २.९८.१६ ॥

那时,议会的成员在厅堂中间高举双手,心神不安,因激动而众人都纷纷说道。

2.98.17

अहो धिग्बान्धवा नैनं बोधयन्ति महद्भयम् ।
बुद्ध्या बुद्ध्येन्न वा बुद्ध्येदयं वै भरतर्षभ ॥ २.९८.१७ ॥

唉,可耻!亲族们没有警告他这大难;婆罗多中的雄牛啊,他能否以智慧明白,还是不能?

2.98.18

जनप्रवादान्सुबहूञ्शृण्वन्नपि नराधिपः ।
ह्रिया च धर्मसंयोगात्पार्थो द्यूतमियात्पुनः ॥ २.९८.१८ ॥

尽管他听到了民间的许多流言,这位国王出于羞耻,并受法义约束,阿周那之子(坚战)将再次走向赌局。

2.98.19

जानन्नापि महाबुद्धिः पुनर्द्यूतमवर्तयत् ।
अप्यासन्नो विनाशः स्यात्कुरूणामितिचिन्तयन् ॥ २.९८.१९ ॥

虽然知道,大智者仍再次开始赌博,心想俱卢族的毁灭或许已近在咫尺。

2.98.20

कथं वै मद्विधो राजा स्वधर्ममनुपालयन् ।
आहूतो विनिवर्तेत दीव्यामि शकुने त्वया ॥ २.९८.२० ॥

像我这样的国王,遵守自己的法度,被邀请时怎能退缩?沙古尼啊,我与你对弈。

2.98.21

गवाश्वं बहुधेनुकमपर्यन्तमजाविकम् ।
गजाः कोशो हिरण्यं च दासीदासाश्च सर्वशः ॥ २.९८.२१ ॥

牛马、许多产奶的母牛、无数的山羊与绵羊、大象、府库、黄金,以及各类男女奴仆。

2.98.22

हित्वा नो ग्लह एवैको वनवासाय पाण्डवाः ।
यूयं वयं वा विजिता वसेम वनमाश्रिताः ॥ २.९८.२२ ॥

般度之子们啊,我们的赌注只有一个——森林流放。你们或我们中被击败者,将在森林中栖身。

2.98.23

त्रयोदशं च वै वर्णमज्ञाताः स्वजनैस्तथा ।
अनेन व्यवसायेन दीव्याम पुरुषर्षभाः। ॥ २.९८.२३ ॥

第十三年须在亲族不识的情况下度过。以此决心,人中雄牛啊,让我们来赌博吧。

2.98.24

समुत्क्षेपेण चैकेन वनवासाय भारत ।
एवं दैवबलाविष्टो धर्मराजो युधिष्ठिरः।
भीष्मद्रोणाऽऽवार्यमाणो विदुरेण च धीमता ॥ २.९८.२४ ॥

婆罗多的后裔啊,为了一掷便定下森林流放——如此,法王坚战为天命之力所牵,而毗湿摩、德罗纳与智者毗杜罗正在阻拦他。

2.98.25

युयुत्सुना कृपेणाथ सञ्जयेन च भारत ।
गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा ॥ २.९८.२५ ॥

婆罗多啊,尤尤图、克里帕、桑闪耶,甘陀利、普利塔,以及毗摩、阿周那和双生子也同样(阻止他)。

2.98.26

विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा ।
सोमदत्तेन च तथा बाह्लीकेन च धीमता ॥ २.९८.२६ ॥

还有英雄毗迦尔纳、德罗波蒂、德罗纳之子、索摩达多,以及智慧的巴赫利迦(也阻止他)。

2.98.27

वार्यमाणोपि सततं न च राजन्नियच्छति ।
एवं संवार्यमाणोपि कौन्तेयो हितकाम्यया ॥ २.९८.२७ ॥

国王啊,虽然不断被阻止,他仍不克制;虽然出于善意一再被这样阻止,昆提之子(仍不停止)。

2.98.28

देवकार्यार्थसिद्ध्यर्थं मुहूर्तं कलिमाविशत् ।
अविष्टः कलिना राजञ्छकुनिं प्रत्यभाषत ॥ २.९८.२८ ॥

为成就诸神的目的,他片刻之间进入了迦利;国王啊,被迦利附体后,他对沙古尼说道。

2.98.29

एवं भवत्विति तदा वनवासाय दीव्यति ।
प्रतिजग्राह तं पार्थो ग्लहं जग्राह सौबलः
जितमित्येव शकुनिर्युधिष्ठिरमभाषत ॥ २.९८.२९ ॥

他说“就这样吧”,便为了林居之苦而赌博;普利塔之子接受了这赌注;苏波罗之子(沙古尼)拿起骰子,对坚战说:“我赢了。”