摩诃婆罗多 · 章 3.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.10.1
एवमेतन्महाप्राज्ञ यथा वदसि मां मुने ।
अहं चैव विजानामि सर्वे चेमे नराधिपाः ॥ ३.१०.१ ॥
正如你对我所说,啊,大智者,仙人啊。我也知道,这些人间的君主们也都知道。
3.10.2
भवांश्च मन्यते साधु यत्कुरूणां सुखोदयम् ।
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ॥ ३.१०.२ ॥
你也认为库鲁族的幸福兴盛是好的。维杜罗也这样说过,毗湿摩和德罗纳也对我说过同样的话,啊,仙人。
3.10.3
यदित्वहमनुग्राह्यः कौरव्येषु दया यदि ।
अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम ॥ ३.१०.३ ॥
如果我值得考鲁族人的恩惠,如果他们之中有慈悲,那么请教导我那心怀恶念的儿子难敌吧。
3.10.4
अयमायाति वै राजन्मैत्रेयो भगवानृषिः ।
अन्वीक्ष्य पाण्डवान्भ्रातृनिहैवाऽस्मद्दिदृक्षया ॥ ३.१०.४ ॥
啊,国王,尊贵的仙人弥伽罗来了;出于想见般度兄弟的愿望,他确实是来这里见我们的。
3.10.5
एष दुर्योधनं पुत्रं तव राजन्महानृषिः ।
अनुशास्ता यथान्यायं शमायास्य कुलस्य च ॥ ३.१०.५ ॥
啊,国王,这位伟大的仙人将依法教导你的儿子难敌,也为了这个家族的和平。
3.10.6
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया ।
अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा ॥ ३.१०.६ ॥
他所说的,啊,库鲁的后裔,应当毫不迟疑地去做;但若不履行职责,他会在愤怒中诅咒你的儿子。
3.10.7
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत ।
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ॥ ३.१०.७ ॥
说完这些话,毗耶娑离去,迈特雷耶出现了。国王与众子以敬意接待了他。
3.10.8
कृत्वाऽर्ध्याद्याः क्रियाः सर्वा विश्रान्तं मुनिसत्तमम् ।
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ॥ ३.१०.८ ॥
完成包括献水在内的所有仪式后,阿母比迦之子国王持国谦恭地对已经休息好的最优秀的仙人说道。
3.10.9
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले ।
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः । ॥ ३.१०.९ ॥
尊者,您抵达俱卢闍衍罗是否顺利?勇猛的五位般度兄弟是否安好?
3.10.10
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः ।
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ॥ ३.१०.१० ॥
婆罗多族的俊杰们是否愿意遵守约定?俱卢族的兄弟和睦是否将持续不断?
3.10.11
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान् ।
यदृच्छया धर्मराजं दृष्ट्ववान्काम्यके वने ॥ ३.१०.११ ॥
我一路朝圣,抵达俱卢闍衍罗,偶然在迦密耶迦林中见到了法王。
3.10.12
तं जटाजिनसंवीतं तपोवननिवासिनम् ।
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ॥ ३.१०.१२ ॥
众位仙人聚集而来,要去见那位身披结发与鹿皮、住在苦行林中的大德,主啊。
3.10.13
तत्राश्रौषं महाराज पुत्राणां तव विग्रहम् ।
अनयं द्यूतरूपेण महाभयमुपस्थितम् ॥ ३.१०.१३ ॥
大王啊,我在那里听闻你的诸子之间因掷骰子而起的争端,那是一场灾祸,一场已经降临的大恐怖。
3.10.14
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया ।
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ॥ ३.१०.१४ ॥
因此,出于对俱卢族的挂念,我来到你这里,主啊;我对你的情谊与亲爱一向更深。
3.10.15
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति ।
यदन्योन्येन ते पुत्रा विरुध्यन्ते कथंचन ॥ ३.१०.१५ ॥
大王啊,你与毗湿摩尚在人世,你的诸子却彼此以任何方式相争,这是不合适的。
3.10.16
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् ।
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ॥ ३.१०.१६ ॥
大王啊,你本身就是约束与掌控的支柱,为何对这正在升起的可怕灾祸置之不理?
3.10.17
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन ।
तेन न भ्राजसे राजंस्तापसानां समागमे ॥ ३.१०.१७ ॥
俱卢族的喜悦啊,议会中的行为如同强盗一般;因此,大王啊,你在苦行者的集会中并不光彩。
3.10.18
ततो व्यावृत्य राजानं दुर्योधनममर्षणम् ।
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृपिः ॥ ३.१०.१८ ॥
于是尊贵的仙人弥勒转向愤怒的国王难敌,以温和的言辞对他说话。
3.10.19
दुर्योधन महाबाहो निबोध वदतां वर ।
वचनं मे महाभाग ब्रुवतो यद्धितं तव ॥ ३.१०.१९ ॥
啊,大臂的难敌,言者中最优秀者,请听。啊,大福德者,请听我所说、对你有益的话。
3.10.20
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः ।
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ॥ ३.१०.२० ॥
啊,国王,不要伤害般度之子;为自己的利益而行事。啊,人中雄牛,也要为般度之子、俱卢族和世界的利益而行事。
3.10.21
पाण्डवान्प्राप्य तान्रात्रौ किर्मीरो नाम राक्षसः ।
अवृत्य मार्गं रौद्रात्मा तस्थौ गिरिवाचलः ॥ ३.१०.२१ ॥
夜里,罗刹名叫基尔米罗,心地凶猛,来到般度之子面前,堵住道路,像山一样屹立不动。
3.10.22
तं भीमः समरस्लाघी बलेन बलिनां वरः ।
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ॥ ३.१०.२२ ॥
以善战自豪、为强者中最优秀者的怖军,像杀牲畜一样将他杀死,犹如老虎杀小鹿。
3.10.23
पश्य दिग्विजये राजन्यथा भीमेन पातितः ।
जरासन्धो महेष्वासो नागायुतबलो युधि ॥ ३.१०.२३ ॥
啊,国王,请看,在征服四方时,大弓手、战中力量如同万头象的鞞舍婆之子,是如何被怖军击倒的。
3.10.24
संबन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः ।
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः ॥ ३.१०.२४ ॥
婆苏提婆是亲属,所有的妻兄弟和普利沙塔之子也都是。他们都是人中猛虎、英雄、勇猛的战士。
3.10.25
सर्वे नागायुतप्राणा वज्रसंहनना दृढः ।
सत्यव्रतधराः सर्वेसर्वे पुरुषमानिनः ॥ ३.१०.२५ ॥
他们都拥有万头象的生命之力,身体坚如金刚,持守真实之誓,以自身的男子气概为傲。
3.10.26
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् ।
हिडिम्बबकमुख्यानां किर्मीरस् च रक्षसः।
कस्तान्युधि समासीत जरामरणवान्नरः ॥ ३.१०.२६ ॥
他们是诸神之敌、能随意变化形体的罗刹的讨伐者,其中首要的是希迭姆跋与跋迦,还有罗刹基尔米罗。哪个受衰老与死亡所限的凡人,能在战场上与他们相抗?
3.10.27
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ॥ ३.१०.२७ ॥
愿你与般度诸子和平相处,婆罗多族的雄牛啊。国王,请听我言,不要走入死亡的掌控之中。
3.10.28
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशांपते ।
ऊरुं करिकराकारं करेणाभिजघान तः ॥ ३.१०.२८ ॥
君主啊,当弥勒如此说话时,难敌用手击打自己如象鼻般的大腿。
3.10.29
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम् ।
नकिंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः ॥ ३.१०.२९ ॥
难敌微笑着,用脚刨着地面,什么也没说,那愚人微低着头站在那里。
3.10.30
तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम् ।
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ॥ ३.१०.३० ॥
国王啊,弥勒看到难敌不愿倾听、只顾刨着地面,怒火便涌上心头。
3.10.31
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः ।
विधिना संप्रयुक्तश्च शापायास्य मनो दधे ॥ ३.१०.३१ ॥
被愤怒支配的圣仙中最杰出者弥德罗耶,受命运驱使,决意诅咒他。
3.10.32
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः ।
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ॥ ३.१०.३२ ॥
于是他饮水净身,怒目通红的弥德罗耶诅咒了心怀邪念的持国之子。
3.10.33
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि ।
तस्मादस्यातिमानस्य सद्यः फलमवाप्स्यसि ॥ ३.१०.३३ ॥
你轻视我,不愿履行这句话,因此,傲慢者,你立刻就将承受它的果报。
3.10.34
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् ।
यत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली ॥ ३.१०.३४ ॥
一场与你的背叛相连的大战将会爆发,在其中,有力的毗摩将以铁锤猛击,打断你的大腿。
3.10.35
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः ।
प्रसादयामास मुनिं नैतदेवं भवेदिति ॥ ३.१०.३५ ॥
这些话说出之后,大地之主持国王设法安抚那位圣仙,说道:“但愿不要如此。”
3.10.36
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा ।
शायो न भविता तात विपरीते भविष्यति ॥ ३.१०.३६ ॥
大王啊,若你的儿子得享平安,那么诅咒便不会应验,亲爱的;若相反,它必将实现。
3.10.37
सविलक्षस्तु राजेन्द्रो दुर्योधनपिता तदा ।
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ॥ ३.१०.३७ ॥
此时,难敌之父、诸王之主,羞愧地对弥多罗耶说:"基尔米罗是如何被怖军击倒的?"
3.10.38
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः ।
एष ते विदुरः सर्वमाख्यास्यति गते मयि ॥ ३.१०.३८ ॥
弥多罗耶说:"出于嫉恨我不会告诉你,你的儿子也不是侍奉你的人。我离去之后,你这位毗都罗会把一切都说给你听。"
3.10.39
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् ।
किर्मीरवधसंविग्नो भयं दुर्योधनो ययौ ॥ ३.१०.३९ ॥
说完这些,弥多罗耶便沿来时的路离去了。难敌因基尔米罗之死而心神不安,陷入恐惧。