Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.101

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.101.1

समुद्रं ते समाश्रित्य वरुणं निधमम्भसः ।
कालेयाः संप्रवर्तन्त त्रैलोक्यस्य विनाशने ॥ ३.१०१.१ ॥

他们依托掌水之神婆楼那的海洋,为毁灭三界而行动起来——即迦利耶人。

3.101.2

ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् ।
आश्रमेषु च ये सन्ति पुण्येष्वायतनेषु च ॥ ३.१०१.२ ॥

他们夜间怒火中烧,总是吞食苦行的仙人,以及住在圣洁净修林和神圣处所的人。

3.101.3

वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः ।
अशीतिः शतमष्टौ च नव चान्ये तपस्विनः ॥ ३.१०१.३ ॥

在仙人婆私吒的净修林中,那些恶毒之徒吞食了婆罗门——八十、八、九人,以及其他苦行者。

3.101.4

च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् ।
फलमूलाशनानां हि मुनीनां भक्षितं शतम् ॥ ३.१०१.४ ॥

他们前往遮婆那的圣洁净修林——再生族常来之地——吞食了以果实和根茎为食的一百位仙人。

3.101.5

एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा ।
कालेयास्ते दुरात्मानो भक्षयन्तस्तपोधनान् ॥ ३.१०१.५ ॥

他们夜里这样做,白天便潜入大海——那些恶毒的迦利耶人,吞食苦行的仙人,即修行的宝藏。

3.101.6

भरद्वाजाश्रमे चैव नियता ब्र्हमचारिणः ।
वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिषूदिताः ॥ ३.१०१.६ ॥

在婆罗堕遮的净修林中,二十位守戒的梵行者——以风和水为食——也被杀害了。

3.101.7

एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा ।
निशायां परिबाधन्ते समुद्राम्बुबलाश्रयात्।
कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ॥ ३.१०१.७ ॥

于是达那婆们依次在夜间骚扰那些修行处,依仗大海之水的力量。受时运驱使的迦勒耶人,杀害了众多再生者。

3.101.8

न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम ।
एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु ॥ ३.१०१.८ ॥

人类未曾察觉他们,人中之最啊。这些阿修罗就这样在苦行者之中活动。

3.101.9

क्षयाय जगतः क्रूराः पर्यटन्ति स्म मेदिनीम् ॥ ३.१०१.९ ॥

为了毁灭世界,残忍之徒在大地上游荡。

3.101.10

प्रभाते समदृश्यन्त नियताहारकर्शिताः ।
महीतलस्था मुनयः शरीरैर्गतजीवितैः ॥ ३.१०१.१० ॥

黎明时分,人们看到那些因严格饮食而消瘦的圣人躺在地上,身体已无生命。

3.101.11

क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः ।
आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः ॥ ३.१०१.११ ॥

大地被那些肉体消瘦、无血、无骨髓与内脏、关节脱落的尸身所覆盖、散布,像一堆堆海螺壳。

3.101.12

लशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च ।
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता ॥ ३.१०१.१२ ॥

大地被勺子、被抛弃的、折断的祭勺以及散落的火祭器具所覆盖。

3.101.13

निःस्वाध्यायवपट्कारं नष्टयज्ञोत्सवक्रियम् ।
जगदासीन्निरुत्साहं कालेयभयपीडितम् ॥ ३.१०१.१३ ॥

吠陀诵读与瓦沙特供奉已废,祭祀与节庆之仪皆已毁灭,世界失去生气,被迦利耶人的恐惧所折磨。

3.101.14

एवं संक्षीयमाणाश्च मानवा मनुजेश्वर ।
आत्मत्राणपपा भीताः प्राद्रवन्त दिशो भयात् ॥ ३.१०१.१४ ॥

人民如此减少,人主啊,他们惊恐地只顾自保,因恐惧而向四方奔逃。

3.101.15

केचिद्गुहाः प्रविविशुर्निर्भरांश्चापरे श्रिताः ।
अपरे मरणोद्विग्ना भयात्प्राणान्समुत्सृजन् ॥ ३.१०१.१५ ॥

有人进入洞穴,有人投身山涧;另有人因惧怕死亡而心烦意乱,在恐惧中舍弃了性命。

3.101.16

केचिदत्रमहेष्वासाः शूराः परमहर्षिताः ।
मार्गमाणआः परं यत्नं दानवानां प्रचक्रिरे ॥ ३.१०१.१६ ॥

此处有些大弓手与勇士,极为振奋,竭力寻找檀那婆。

3.101.17

न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् ।
श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च ॥ ३.१०१.१७ ॥

然而,他们找不到那些躲进海洋的人;他们陷入极度疲惫,终于走向毁灭。

3.101.18

जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये ।
आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर ॥ ३.१०१.१८ ॥

人主啊,世间的安宁已经消逝,祭祀与节庆之仪已毁,诸天神因此陷入了极大的苦恼。

3.101.19

समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे ॥ ३.१०१.१९ ॥

众神与因陀罗聚会,因恐惧而商议。

3.101.20

शरण्यं शरणं देवं नारायणमजं विभुम् ।
तेऽभिगम्य नमस्कृत्य वैकुण्ठमपराजितम्।
ततो देवाः समस्तास्ते तदोचुर्मधुसूदनम् ॥ ३.१०१.२० ॥

众神走近值得皈依、即是皈依处的不生遍在之神那罗延,向不败的吠孔处致敬后,便对摩图苏陀那说道。

3.101.21

त्वंनः स्रष्टा च भर्ता च हर्ता च जगतः प्रभो ।
त्वया सृष्टमिदं विश्वं यच्चेङ्गं यच्च नेङ्गति।
त्वय्येव पुण्डरीकाक्ष पुनस्तत्प्रविलीयते ॥ ३.१०१.२१ ॥

主啊,你是我们的创造者、护持者与毁灭者,也是世界的主宰。这被造的宇宙,动者与不动者,皆由你所造;莲花眼者啊,它又再度融入于你。

3.101.22

त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण ।
वाराहं वपुराश्रित्यजगदर्थे समुद्धृता ॥ ३.१०१.२२ ॥

莲花眼者啊,往昔大地曾沉没于海中;你化身为野猪,为了世界而将其托起。

3.101.23

आदिदैत्यो महावीर्यो हिरण्यकशिपुः पुरा ।
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम ॥ ३.१०१.२३ ॥

往昔,初代阿修罗、勇力极大的希兰雅迦希布,哦,人中至尊,被你化作人狮之身所杀。

3.101.24

अवध्यः सर्वभूतानां बलिश्चापि महासुरः ।
वामनं वपुराश्रित्य त्रैलोक्याद्धंशितस्त्वया ॥ ३.१०१.२४ ॥

连不可被任何众生所杀的大阿修罗钵利,也被你化作侏儒之身从三界中推落。

3.101.25

असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः ।
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः ॥ ३.१०१.२५ ॥

大弓手、名声远扬的阿修罗钦婆,扰乱祭祀的残暴者,正是被你击倒的。

3.101.26

एवमादीनि कर्माणि येषां संख्या न विद्यते ।
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन ॥ ३.१०१.२६ ॥

此类功业不可胜数;对我们这些惊恐者而言,摩图苏陀那啊,你便是唯一的依靠。

3.101.27

तस्मात्त्वां देवदेवेश लोकार्थं ज्ञापयामहे ।
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात्।
शरणागतसंत्राणे त्वमेकोऽसि दृढव्रतः ॥ ३.१०१.२७ ॥

因此,诸神之神啊,为了世界的利益,我们向你禀告:请从巨大的恐惧中守护诸界、诸神与因陀罗。在庇护投奔者这件事上,唯有你是坚定守誓的。