摩诃婆罗多 · 章 3.102
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.102.1
तव प्रसादाद्वर्धन्ते प्रजाः सर्वाश्चतुर्विधाः ।
ता भाविता भावयनति हव्यकव्यैर्दिवौकसः ॥ ३.१०२.१ ॥
蒙您恩典,四类众生皆得增长;受养之后,他们又以献祭与供奉滋养天界的居民。
3.102.2
लोका ह्येवं विवर्धन्ते ह्यन्योन्यं समुपाश्रिताः ।
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः ॥ ३.१०२.२ ॥
如此,诸世界相互依存而增长;蒙您恩典,它们无所畏惧,唯有您守护着它们。
3.102.3
इदं च समनुप्राप्तं लोकानां भयमुत्तमम् ।
न च जानीम केनेति रात्रौ वध्यन्ति ब्राह्मणाः ॥ ३.१०२.३ ॥
诸世界遭遇了这场极大的危险,而我们不知道是谁在夜里杀害婆罗门。
3.102.4
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति ।
तत पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति ॥ ३.१०२.४ ॥
婆罗门减少之时,大地将走向毁灭;大地毁灭之时,三界天堂也将走向毁灭。
3.102.5
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते ।
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः ॥ ३.१०२.५ ॥
啊,大臂者,宇宙之主!愿诸世界蒙您恩典,不遭毁灭,因为唯有您守护着它们。
3.102.6
विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् ।
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः ॥ ३.१०२.६ ॥
诸天神啊,众生毁灭的全部原因我都已知晓;我也要告诉你们。请放下忧虑,静听。
3.102.7
कालेया इति विख्याता गणाः परमदारुणाः ।
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रमाथितम् ॥ ३.१०२.७ ॥
名为迦勒耶的部众极其可怖,他们依托弗栗多,搅扰了整个世界。
3.102.8
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता ।
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् ॥ ३.१०२.८ ॥
他们见弗栗多被智慧的千眼神(因陀罗)杀死,便为保全性命,进入了伐楼那的居所。
3.102.9
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् ।
उत्सादार्थं लोकानां रात्रौ घ्नन्ति ऋषीनिह ॥ ३.१०२.९ ॥
他们进入布满鳄鱼与鲨鱼的可怖大海,为了毁灭世界,夜里便在此杀害诸仙人。
3.102.10
न तु शक्याः क्षयं नेतुं समुद्राश्रयिणो हि ते ।
समुद्रस्य क्षये बुद्धिर्भवद्भिः संप्रधार्यताम् ॥ ३.१०२.१० ॥
然而,居于大海之中的他们是无法被消灭的。你们应当商议决定如何毁灭大海。
3.102.11
एतच्छ्रुत्वा वचो देवा विष्णुना समुदीरितम् ।
विष्णुमेव पुरस्कृत्यब्रह्माणं समुपस्थिताः ॥ ३.१०२.११ ॥
诸神听了毗湿奴所说的这番话,推举毗湿奴为先导,前往拜见梵天。
3.102.12
ततस्ते प्रणता भूत्वा तमेवार्धं न्यवेदयन् ।
सर्वलोकविनाशार्थं कालेया कृतनिश्चयाः ॥ ३.१०२.१२ ॥
于是他们深深顶礼,向他禀报迦勒耶已决意毁灭一切世界。
3.102.13
एषां तद्वचनं श्रुत्वा पद्मयोनिः सनातनः ।
उवाच परमप्रीतस्त्रिदशानर्थवद्वचः ॥ ३.१०२.१३ ॥
莲花所生的永恒者梵天听了他们的话,十分欢喜,对诸天神说了有意义的话。
3.102.14
विदितं मे सुराः सर्वे दानवानां विवेष्टितम् ।
मनुष्यादेश्च निधनं कालेयैः कालचोदितैः ॥ ३.१०२.१४ ॥
诸天神啊,我知晓檀那婆的全部阴谋,也知晓被时间驱使的迦利耶人将毁灭人类等众生。
3.102.15
क्षयस्तेपामनुप्राप्तः कालेनोपहताश्च ये ।
उपायं संप्रवक्ष्यामि समुद्रस्य विशोषणे ॥ ३.१०२.१५ ॥
被时间打击的人已遭毁灭。现在我将说出使大海干涸的方法。
3.102.16
अगस्त्य इतिविग्व्यातो वारुणिः सुसमाहितः ।
तमुपागम्य सहिता इममर्थं प्रयाचत ॥ ३.१०२.१६ ॥
你们一同前往以婆楼那之子而闻名、心意极为专一的阿伽斯提亚处,向他提出这一请求。
3.102.17
स हि शक्तो महातेजाः क्षणात्पातुं महोदधिम् ।
अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोपणे ॥ ३.१०२.१७ ॥
这位大光明者能在瞬间饮尽大海。若无阿伽斯提亚,还有谁能使大海干涸?
3.102.18
अन्यथा हि न शक्यास्ते विना सागरशोपणम् ।
समुद्रे च क्षयं नीते कालेयान्निहनिष्यथ ॥ ३.१०२.१८ ॥
否则,若不使大海干涸,便无法制服他们;大海一旦毁灭,你们便能杀死迦利耶人。
3.102.19
एवं श्रुत्वा वचो देवा ब्रह्मणः परमेष्ठिनः ।
परमेष्ठिनमाज्ञाप्यअगस्त्यस्याश्रमं ययुः ॥ ३.१०२.१९ ॥
诸神听了至尊梵天的这番话后,前往阿伽斯提亚的隐修处。
3.102.20
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् ।
उपास्यमानमृपिभिर्देवैरिव पितामहम् ॥ ३.१०२.२० ॥
他们在那里看见伐楼那之子、光辉耀眼的大智者,众仙人侍奉着他,犹如诸神侍奉祖父梵天一般。
3.102.21
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् ।
आश्रमश्थं तपोराशिं कर्मभिः स्वैस्तु तुष्टुवुः ॥ ३.१०२.२१ ॥
他们走近这位伐楼那之子、不朽者、住在隐修处的苦行之聚,以各自的功德赞颂他。
3.102.22
नहुपेणाभितप्तानां त्वं लोकानां गतिः पुरा ।
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः ॥ ३.१०२.२२ ॥
昔日,被那厄运(那诃沙)所折磨的诸世界以你为归依;而那世间之刺,为了世界的利益,被诸神从权位上废黜。
3.102.23
क्रोधात्प्रवृद्धस्तरणं भास्करस्य नभोगतः ।
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते ॥ ३.१०२.२३ ॥
文底耶山因愤怒而暴涨,升入天空,阻挡了太阳的运行;然而它违背了你的话,如今已不再增长。
3.102.24
तमसा चावृतेलोके मृत्युनाऽभ्यर्दिताः प्रजाः ।
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः ॥ ३.१०२.२४ ॥
当世界被黑暗笼罩、众生被死亡所压迫时,他们唯以你为主宰,方得至高的安宁。
3.102.25
अस्माकं भयभीतानां नित्यशो भगवान्गतिः ।
ततस्त्वार्ताः प्रयाचामो वरं त्वां वरदो ह्यसि ॥ ३.१०२.२५ ॥
我们被恐惧所惊扰,世尊始终是我们的归依。因此,我们悲苦地向您祈求恩赐,因为您是赐予恩惠者。