Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.103

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.103.1

किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्च्छितः ।
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने ॥ ३.१०३.१ ॥

大仙啊,为何毗湿耶山突然膨胀,因愤怒而昏厥?我希望详细听闻此事。

3.103.2

अद्रिराजं महाघोरं रमेरुं कनकपर्वतम् ।
उदयास्तमने भानुः प्रदक्षिणमवर्तत ॥ ३.१०३.२ ॥

最可怖的山王罗梅卢,金山。日出与日落时,太阳绕着它运行,以之为右。

3.103.3

तं तु दृष्ट्वा तथा विन्ध्य शैलः सूर्यमथाब्रवीत् ।
यथा हि मेरुर्भवता नित्यशः परिगम्यते ॥ ३.१०३.३ ॥

毗湿耶山见此,对太阳说:“你总是绕着须弥山运行…”

3.103.4

प्रदक्षिणश्च क्रियते मामेवं करु भास्कर ।
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभापत ॥ ३.१०३.४ ॥

“婆斯迦罗啊,也请如此绕我而行。”如此被说,太阳便回答这山王。

3.103.5

नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् ।
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् ॥ ३.१०३.५ ॥

“山啊,我并非出于自愿这样绕行。这是为我所定的道路,世界正是依此而被创造。”

3.103.6

एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाऽचलः ।
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परंतप ॥ ३.१०३.६ ॥

如此被说,那不动的山因愤怒而骤然膨胀,啊,克敌者,它想要阻挡日月的运行之道。

3.103.7

ततो देवाः सहिताः सर्व एव ।
सेन्द्राः समागम्य महाद्रिराजम्।
निवारयामासुरुपायतस्तं ।
न च स्म तेषां वचनं चकार ॥ ३.१०३.७ ॥

于是众神与因陀罗一同聚集,设法以种种方法阻止这位山王,但他不听从他们的话。

3.103.8

अथाभिजग्मुर्मुनिमाश्रमस्थं ।
तपस्विनं धर्मभृतां वरिष्ठम्।
अगस्त्यमत्यद्भुतवीर्यदीप्तं ।
तं चार्थमूचुः सहिताः सुरास्ते ॥ ३.१०३.८ ॥

于是诸神一同前往居住于修行处的仙人阿伽斯蒂亚那里,他是苦行者,是持法者中最优秀的,光辉于非凡的威力,他们便向他说明了来意。

3.103.9

सूर्याचन्दर्मसोर्मार्गं नक्षत्राणां गतिं तथा ।
शैलराजो वृणोत्येप विन्ध्यः क्रोधवशानुगः ॥ ३.१०३.९ ॥

山王毗湖耶受愤怒所驱使,阻挡了日月的行道与星宿的运行。

3.103.10

तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम ।
ऋते त्वां हि महाभाग तस्मादेनं निवारय ॥ ३.१०३.१० ॥

两度生者中最优秀者啊,除你之外,无人能够阻止他;因此,大福者啊,唯有你应当制止他。

3.103.11

तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् ।
सोभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः ॥ ३.१०३.११ ॥

这位婆罗门听了诸神的话,便走向那座山;与妻子一同来到近前,对毗湖耶说道。

3.103.12

मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम ।
दक्षिणामभिगन्तास्मि दिशे कार्येण केनचित् ॥ ३.१०३.१२ ॥

山中最优秀者啊,我希望你能给我让出一条路;因为有某件事,我将要向南方前行。

3.103.13

यावदागमनं मह्यं तावत्त्वं प्रतिपालय ।
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः ॥ ३.१०३.१३ ॥

在我回来之前你要等待。山王啊,待我返回之后,你便可随意增长。

3.103.14

एवं स समयं कृत्वाविन्ध्येनामित्रकर्शन ।
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते ॥ ३.१०३.१४ ॥

灭敌者啊,他与文底耶如此立约之后,伐楼那之子至今仍未从南方之地返回。

3.103.15

विन्ध्योऽपितद्भयाद्राजन्कुञ्चिताङ्गो न वर्धते ।
अगस्त्यस्य प्रभावेण यन्मां त्वं परिपृच्छसि ॥ ३.१०३.१५ ॥

大王啊,连文底耶也因惧怕他而身体弯曲,不再增长。这是由于阿伽斯提耶的威力,你正是问我这件事。

3.103.16

कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः ।
अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु ॥ ३.१०३.१६ ॥

大王啊,请听我讲:迦罗刻亚人从阿伽斯提耶那里得到恩赐之后,如何被众神全部消灭。

3.103.17

त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् ।
किमर्थमभियाता स्थ वरं मत्तः कमिच्छथ ॥ ३.१०३.१७ ॥

米特拉与伐楼那之子听了诸神之言,说道:'你们为了何事而来?想要从我这里得到什么恩惠?'

3.103.18

एवमुक्तास्ततस्तेन देवता मुनिमब्रुवन् ।
सर्वे प्राञ्जलयो भूत्वा पुरन्दरपुरोगमाः ॥ ३.१०३.१८ ॥

他这样说完,以因陀罗(补罗陀罗)为首的诸神都合掌向这位仙人说道。

3.103.19

एवं त्वयोच्छाम कृतं हि कार्यं ।
महार्णवं पीयमानं महात्मन्।
ततो वधिष्याम सहानुबन्धा-
न्कालोपसृष्टान्सुरविद्विषस्तान् ॥ ३.१०३.१९ ॥

如此,大方的您已饮尽大海,我的任务便完成了。然后,我将把被时间所困的那些天神之敌,连同他们的追随者一并诛杀。

3.103.20

त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् ।
करिष्ये भवतां कामं लोकानां च महत्सुखम् ॥ ३.१०३.२० ॥

听了三十三天神的话,仙人说:“就这样吧。”我将满足你们的心愿,也为众世界带来极大的安乐。

3.103.21

एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितांपतिम् ।
ऋषिभिश्च तपःसिद्धै सार्धं देवैश्च सुव्रत ॥ ३.१०३.२१ ॥

说罢,他便前往大海——众河之主——与因苦行而成就的仙人和天神同行,善持誓愿者啊。

3.103.22

मनुष्योरगगन्धर्वयक्षकिंपुरुषास्तथा ।
अनुजग्मुर्महात्मानं द्रष्टुकानास्तदद्भुतम् ॥ ३.१०३.२२ ॥

人类、蛇众、乾闼婆、夜叉和紧那罗也跟随这位大德者,渴望看到那奇妙的景象。

3.103.23

ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिःखनम् ।
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना ॥ ३.१०३.२३ ॥

于是他们一同来到大海边。大海发出可怕的轰鸣,仿佛随着波浪起舞,又仿佛在风中跳跃。

3.103.24

हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च ।
तानाग्राहसमाकीर्णं नानाद्विजगणान्वितम् ॥ ३.१०३.२४ ॥

仿佛以层层泡沫在发笑,在洞穴间踉跄,充满了名为坦那格拉哈的水怪,伴随着各种鸟群。

3.103.25

अगस्त्यसहिता देवाः सगन्धर्वमहारगाः ।
ऋषयश्च महाभागाः समासेदुर्महोदधिम् ॥ ३.१०३.२५ ॥

与阿伽斯提耶同行的诸神、乾闼婆、大蛇以及大福的仙人们,来到了大海边。