摩诃婆罗多 · 章 3.106
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.106.1
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तमः ।
यथोक्तं तच्चराकाथ श्रद्दधद्भरतर्षभ ॥ ३.१०६.१ ॥
那位国王在天上听到此言,他是诸王中最优秀者,如所说的那样,相信一切动与不动之物,婆罗多族的雄牛啊。
3.106.2
एकैकशस्ततः कृत्वा बीजं बीजं नराधिपः ।
घृतपूर्णेषु कुम्भेषु तान्भागान्विदधे ततः ॥ ३.१०६.२ ॥
然后,一个一个地,一粒一粒地,人主将那些份额放入装满酥油的瓮中。
3.106.3
धात्रीश्चैकैकशः प्रादात्पुत्ररक्षणतत्परः ।
ततः कालेन महता समुत्तस्थुर्महाबलाः ॥ ३.१०६.३ ॥
他一心守护诸子,为每一个配置了一位保姆。随后经过很长时间,大力者们站立起来。
3.106.4
षष्टिः पुत्रसहस्रणि तस्याप्रतिमतेजसः ।
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव ॥ ३.१०६.४ ॥
那位光辉无比的王仙,蒙受楼陀罗的恩典,生下了六万个儿子,国王啊。
3.106.5
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः ।
बहुत्वाच्चावजानन्तः सर्वाल्लोँकान्सहामरान् ॥ ३.१०६.५ ॥
他们可怖,行为残忍,在天空中游走;因人数众多,他们轻视所有世界及众神。
3.106.6
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् ।
सर्वाणि चैव भूतानि शूरा समरशालिनः ॥ ३.१०६.६ ॥
他们也压迫三十三天神,同样压迫乾闼婆和罗刹,以及一切众生;这些英勇而以战斗自豪的人。
3.106.7
वध्यमानास्तदा लोकाः सागरैर्मन्दबुद्धिभिः ।
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः ॥ ३.१०६.७ ॥
那时,被愚昧的萨伽罗之子所困扰的诸世界,与所有天神一同前往梵天处寻求庇护。
3.106.8
तानुवाच महाभागः सर्वलोकपितामहः ।
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् ॥ ३.१०६.८ ॥
诸世界的大德祖父对他们说:“诸天神啊,你们与众世界一同回去吧,就像你们来时那样。”
3.106.9
नातिदीर्घेण कालेन सागराणां क्षयो महान् ।
विष्यति महाघोरः स्वकृतैः कर्मभिः सुराः ॥ ३.१०६.९ ॥
“诸天神啊,不久之后,萨伽罗之子将因自己的业行而遭遇巨大而可怖的毁灭。”
3.106.10
एवमुक्तास्तु ते देवा लोकाश् मनुजेश्वर ।
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् ॥ ३.१०६.१० ॥
人主啊,诸天神与众世界听了这话,向祖父告辞,便照来时的路离去了。
3.106.11
ततः काले बहुतिथे व्यतीते भरतर्षभ ।
दीक्षितः सगरो राजा हयमेधेन वीर्यवान् ॥ ३.१०६.११ ॥
婆罗多之雄啊,许多日子过去之后,英勇的萨伽罗王受马祠祭的灌顶入教。
3.106.12
तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः ।
सर्वैरेव महोत्साहैः स्वच्छन्दप्रचरो नृप ॥ ३.१०६.१२ ॥
他的马在大地上游走,由他的诸子妥善护卫,个个都充满了极大的热忱;国王啊,它随心所欲地自由漫游。
3.106.13
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् ।
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत ॥ ३.१०६.१३ ॥
他来到那片无水而可怖的大海,尽管被小心守护,却就在那里消失了。
3.106.14
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् ।
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम्।
तेनोक्ता दिक्षु सर्वासु पुत्रा मार्गत वाजिनम् ॥ ३.१०६.१४ ॥
于是萨加拉的儿子们以为那匹良马被偷了,来到父亲面前报告说马被无形地偷走了。在他的吩咐下,诸子向四面八方寻找那匹马。
3.106.15
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् ।
अमार्गन्त महाराज सर्वंच पृथिवीतलम् ॥ ३.१०६.१५ ॥
于是他们领会了父亲的命令,向四面八方寻找那匹马。大王啊,他们搜遍了整个大地表面。
3.106.16
ततस्ते सागराः सर्वे समुपेत्य परस्परम् ।
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च ॥ ३.१०६.१६ ॥
于是萨加拉的诸子彼此相遇,却既找不到那匹马,也找不到偷马的人。
3.106.17
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः ॥ ३.१०६.१७ ॥
他们回到父亲面前,合掌站在他的面前,开口说道。
3.106.18
ससमुद्रवनद्वीपा सनदीनदकन्दरा ।
सपर्वतवनोद्देशा निखिलेन मही नृप ॥ ३.१०६.१८ ॥
大王啊,整个大地,包括大海、森林与岛屿,河流、溪涧与洞穴,山岳与林地,我们都已搜遍。
3.106.19
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव ।
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च ॥ ३.१०६.१९ ॥
大王啊,依您的命令我们搜寻了,大地之主啊!既未找到马,也未找到偷马之人。
3.106.20
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्चितः ।
उवाच वचनं सर्वांस्तदा दैववशान्नृप ॥ ३.१०६.२० ॥
国王听了他们的话,被愤怒所迷惑,那时在命运的支配下,国王啊,他对所有人说了这些话。
3.106.21
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् ।
याज्ञीयं तं विनाह्यश्वं नागन्तव्यं हि पुत्रकाः ॥ ३.१०६.२१ ॥
孩儿们,去吧,再次寻找那匹马;没有那匹供祭祀之用的马,不要回来。
3.106.22
प्रतिगृह्य तु संदेशं पितुस्ते सगरात्मजाः ।
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः ॥ ३.१०६.२२ ॥
萨格拉的众子接受了父亲的讯息,再次开始搜寻整个大地。
3.106.23
अथापश्यन्त ते वीराः पृथिवीमवदारिताम् ।
समुद्रे पृथिवीपाल पदं मार्गं च वाजिनः ॥ ३.१०६.२३ ॥
那时,这些英雄看见大地被裂开;大地的守护者啊,他们在大海中看见了马的足迹和路径。
3.106.24
समासाद्य बिलं तच्चाप्यखनन्सगरात्मजाः ।
कुद्दालैर्मुसलैश्चैव समुद्रं यत्नमास्थिताः ॥ ३.१०६.२४ ॥
到达那个洞穴后,萨格拉的众子用锄头和木杵开始挖掘大海,竭尽全力。
3.106.25
स खन्यमानः सहितैः सागरैर्वरुणालयः ।
अगच्छत्परमामार्तिं दीर्यमाणः समन्ततः ॥ ३.१०६.२५ ॥
被萨加拉之子们共同挖掘,瓦鲁那的居所大海四面被撕裂,承受了极大的痛苦。
3.106.26
असुरोरगरक्षांसि सत्वानि विविधानि च ।
आर्तनादमकुर्वन्त वध्यमानानि सागरैः ॥ ३.१०६.२६ ॥
阿修罗、蛇、罗刹以及各种生灵,被萨加拉之子击打,发出痛苦的哀号。
3.106.27
छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः ।
प्राणिनः समदृश्यन्त शतशोथ सहस्रशः ॥ ३.१०६.२७ ॥
头颅被斩、身体分离、膝骨与颅骨破碎的生灵,成百上千地显现出来。
3.106.28
एवं हि खनतां तेषां समुद्रं वरुणालयम् ।
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत ॥ ३.१०६.२८ ॥
就这样,他们挖掘瓦鲁那居所大海的时间过去了很久,却未见到那匹马。
3.106.29
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते ।
विदार्य पातालमथ संक्रुद्धाः सगरात्मजाः ॥ ३.१०६.२९ ॥
于是,大地之主啊,在大海的东北方向,愤怒的萨加拉之子劈开了地下世界……
3.106.30
अपश्यन्त हयं यत्र विचरन्तं महीतले ।
कपिलं च महात्मानं तेजोराशिमनुत्तमम् ॥ ३.१०६.३० ॥
他们在那里看到了在大地上漫游的马,以及光辉无比的大德仙人迦毗罗。
3.106.31
तेजसा दीप्यमानं तु ज्वालाभिरिव पावकम् ।
दृष्ट्वा हि विस्मिताः सर्वे बभूवुः सगरात्मजाः ॥ ३.१०६.३१ ॥
众萨伽罗之子见他光辉照耀,如火焰中的烈火,无不惊异。