Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.108

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.108.1

स तु राजा महेष्वासश्चक्रवर्ती महारथः ।
बभूव सर्वलोकस् मनोनयननन्दनः ॥ ३.१०८.१ ॥

那位国王是伟大的弓箭手、转轮圣王和大战车武士,是一切世界心灵与眼睛的喜悦。

3.108.2

स शुश्राव महाबाहुः कपिलेन महात्मना ।
पितॄणआं निधनं घोरमप्राप्तिं त्रिदिवस्य च ॥ ३.१०८.२ ॥

这位大臂者从大德的迦毗罗那里听闻,他祖先的可怕毁灭以及未能升天之事。

3.108.3

स राज्यं सचिवे न्यस्य हृदयेन विदूयता ।
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः ॥ ३.१०८.३ ॥

国王把王国托付给大臣,心中痛苦,前往喜马拉雅山麓修行苦行。

3.108.4

आरिराधयिषुर्गङ्गां तपसा दग्धकिल्विषः ।
सोऽपश्यत नर्रेष्ठ हिमवन्तं नगोत्तमम् ॥ ३.१०८.४ ॥

他想要取悦恒河,以苦行烧尽了罪过,看见了山中最殊胜的喜马拉雅,啊,人中之最。

3.108.5

शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलंकृतम् ।
पवनालम्बिभिर्मेघैः परिपिक्तं समन्ततः ॥ ३.१०८.५ ॥

由形态各异的山峰装饰,富含矿藏,四周被风中悬浮的云彩所洒润。

3.108.6

नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् ।
गुहाकन्दरसंलीनसिंहव्याघ्रनिषेवितम् ॥ ३.१०८.६ ॥

河流的树丛、山坡与清水使其增添光彩,躲藏在洞穴与深谷中的狮子和老虎常在此出没。

3.108.7

शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः ।
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः ॥ ३.१०८.७ ॥

身色斑斓的鸟儿发出各种鸣叫;那里有蜂王鸟、天鹅、大鹏鸟和水鸡。

3.108.8

मयूरैः शतपत्रैश्च जीवंजीवककोकिलैः ।
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि ॥ ३.१०८.८ ॥

那里还有孔雀、百羽鸟、命命鸟和杜鹃、鹧鸪、眼角深黑的鸟,以及爱子之鸟。

3.108.9

जलस्थानेषु रम्येषु पद्मिनीभिश्च संकुलम् ।
सारसानां च मधुरैर्व्याहृतैः समलंकृतम् ॥ ३.१०८.९ ॥

在迷人的水域,布满莲池,并以沙罗鹤悦耳的鸣声装点。

3.108.10

किन्नरैरप्सरोभिश्च निषेवितशिलातलम् ।
दिग्वारणविषाणाग्रैः समन्ताद्धृष्टपादपम् ॥ ३.१०८.१० ॥

紧那罗与天女常在它的岩石台地上游憩;四方的树木被护方象的象牙尖磨蹭得光滑。

3.108.11

विद्याधरानुचरितं नानारत्नसमाकुलम् ।
विषोल्वणैर्भुजङ्गैश्च दीप्ताजिह्वैर्निषेवितम् ॥ ३.१०८.११ ॥

这里是持明仙人游历之地,充满各种宝石;还有毒性猛烈、舌头闪光的蛇群栖息其中。

3.108.12

क्वचित्कनकसंकाशं क्वचिद्रजतसंनिभम् ।
क्वचिदञ्जनपुञ्जाभं हिमवनतमुपागमत् ॥ ३.१०८.१२ ॥

这里如黄金般闪耀,那里如白银般明亮,别处则如一堆黑膏泛着光泽;他就这样来到了喜马拉雅。

3.108.13

स तु तत्रनरश्रेष्ठस्तपो घोरं समाश्रितः ।
फलमूलाम्बुसंभक्षः सहस्रपरिवत्सरान् ॥ ३.१०८.१३ ॥

那位人中之最在那里修持严酷的苦行,只以果实、根茎和水为食,历时千年。

3.108.14

संवत्सरसहस्रे तु गते दिव्ये महानदी ।
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् ॥ ३.१०८.१४ ॥

千年神界之年过去后,大河恒河女神亲自化身显现于他面前。

3.108.15

किमिच्छसि महाराज म्तः किंच ददानि ते ।
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव ॥ ३.१०८.१५ ॥

伟大的王啊,你想要什么?我该赐给你什么?人中之最,请说吧,我会实现你的心愿。

3.108.16

एवमुक्तः प्रत्युवाच राजा हैमवतीं नदीम् ।
तदा भगीरथो राजन्प्रणिपत्य कृताञ्जलिः।
पितामहा मे वरदे कपिलेन महानदि ॥ ३.१०८.१६ ॥

被如此问询后,国王跋吉罗陀答复这位出自喜马拉雅的河神;王啊,跋吉罗陀俯身合掌说道:赐福的女神啊,大河啊,我的祖先被迦毗罗所毁灭。

3.108.17

अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् ।
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् ॥ ३.१०८.१७ ॥

寻找马匹的那些伟大的萨加拉之子,共六万人,被带往毗婆娑(阎摩)的界域。

3.108.18

कपिलं देवमासाद्य क्षणेन निधनं गताः ।
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते ॥ ३.१०८.१८ ॥

他们一到神祇迦毗罗面前,便在顷刻间丧命;这样被毁灭的人,在天界没有居所。

3.108.19

यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि ।
तावत्तेषां गतिर्नास्ति सागराणां महानदि ॥ ३.१०८.१९ ॥

你若不以水灌洒那些躯体,他们便无去处,哦大河。

3.108.20

स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् ।
तेषामर्थेऽभियाचामि त्वामहं वै महानदि ॥ ३.१०८.२० ॥

大福之女啊,请引领我的祖先、萨加拉之子们升天。为了他们,我恳求你,哦大河。

3.108.21

एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता ।
भगीरथमिदं वाक्यं सुप्रीता समभाषत ॥ ३.१०८.२१ ॥

恒河女神听了国王这番话,受世界所敬,非常欢喜,对薄吉罗陀说了这番话。

3.108.22

करिष्यामि माहाराज वचस्ते नात्र संशयः ।
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् ॥ ३.१०८.२२ ॥

"大王,我将照你的话去做,此事毫无疑问。但我从天空坠落时的冲力,难以承受……"

3.108.23

न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप ।
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् ॥ ३.१०८.२३ ॥

大王啊,三界之中无人能承受她,除了神中最优者、蓝喉的大自在天。

3.108.24

तं तोषय रमहाबाहो तपसा वरदं हरम् ।
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति ॥ ३.१०८.२४ ॥

大臂之人啊,请以苦行使赐福的哈罗欢喜。那神在我坠落时,会将我承于头上。

3.108.25

स करिष्यति ते रकामं पितॄणां हितकाम्यया ।
तपसाऽऽराधितः शंभुर्भगर्वाँल्लोकभावनः ॥ ३.१०८.२५ ॥

以苦行取悦的湿婆——世尊,众界的护持者,将出于利益祖先的心愿而成全你的所求。

3.108.26

एतच्छ्रुत्वा ततो राजन्महाराजो भगीरथः ।
कैलासं पर्वतं गत्वा तोषयामास शंकरम् ॥ ३.१०८.२६ ॥

国王啊,大王薄伽罗陀听了这话,便前往凯拉萨山,使商迦罗欢喜。

3.108.27

ततस्तेन समागम्य कालयोगेन केनचित् ।
गह्गावतरणं राजन्नयाचत महीपतिः ॥ ३.१०८.२७ ॥

此后,国王啊,那位地上之主因时机的因缘与他相遇,请求恒河降临人间。

3.108.28

अगृह्णाच्च वरं तस्माद्गङ्गाया धारणे नृप ।
स्वर्गे वासं समुद्दिश् पितॄणां स नरोत्तमः ॥ ३.१०८.२८ ॥

国王啊,那位人中的最上者从他那里获得了承载恒河的恩赐,意在为祖先安排在天上的居所。