Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.109

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.109.1

भगीरथवचः शुत्वा प्रियार्य च द्विचौकसाम् ।
एवमस्त्विति राजानं भगवान्प्रत्यभापत ॥ ३.१०९.१ ॥

婆吉罗陀的话既悦耳又高尚,世尊回答国王说:“就这样吧。”

3.109.2

धारयिष्ये महाभाग गगनात्मच्युतां शिवाम् ।
दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम् । ॥ ३.१०९.२ ॥

大福之人啊,为了你,我将承接从天而降的那吉祥、神圣、清净的天神之河,人中之王啊。

3.109.3

एवमुक्त्वा महाबाहो हिमवन्तुमुपागमत् ।
संवृतः पार्षदैर्घोरैर्नानाप्रहरणोधतैः । ॥ ३.१०९.३ ॥

大臂者啊,说完这话,他前往雪山,被举起各种兵器的可怖随从所环绕。

3.109.4

तत्र स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह ।
प्रयाचस्व महाबाहो शैलराजसुतां नदीम् ॥ ३.१०९.४ ॥

他站在那里,对人中最优秀的婆吉罗陀说:“大臂者啊,请求那条河吧,她是群山之王的女儿。”

3.109.5

पितृणां पावनार्थ ते तामहं मनुजाधिप ।
पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् ॥ ३.१०९.५ ॥

人主啊,为了净化你的祖先,我将承接那从天界坠落的河流之最——她。

3.109.6

एतच्छ्रुत्वा बचो राजा शर्वेण समुदाहृतम् ।
प्रयतः प्रणतो भूत्वा गङ्गं हि समचिन्तयत् ॥ ३.१०९.६ ॥

国王听到湿婆所说的这些话,恭敬地俯身下拜,专心地思念恒河女神。

3.109.7

ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता ।
ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता ॥ ३.१०९.७ ॥

于是,被国王忆念的清水美丽的恒河,看见伊舍那(湿婆)站立,突然从天空坠落。

3.109.8

तां प्रच्युतामथो दृष्ट्वा देवाः सार्घ् महर्षिभिः ।
गन्धर्वोरगयक्षाश्व समाजग्मुर्दिदृक्षवः ॥ ३.१०९.८ ॥

众神见她坠落,偕同大仙奉上供物,乾闼婆、龙蛇与夜叉也都渴望一见而聚集而来。

3.109.9

ततः पपात गगनाद्ग्ङ्गा हिमवतः सुता ।
समुद्वान्तमहावर्ता मीनग्राहसमाकुला ॥ ३.१०९.९ ॥

于是,喜马拉雅之女恒河从天而降,大漩涡翻腾,充满鱼与鳄鱼。

3.109.10

तां दधार हरो राजन्गङ्गां गगनमेखलाम् ।
ललाटदेशे पतितां मालां मुक्तामयीमिव । ॥ ३.१०९.१० ॥

大王啊,哈罗(湿婆)接住了那位以天空为腰带的恒河,她落在他的额头上,如同珍珠的花环。

3.109.11

सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा ।
फेनपुञ्जाकुलजला हंसानामिव पङ्कयः ॥ ३.१०९.११ ॥

大王啊,她分为三股流向大海,水被泡沫堆搅动,仿佛天鹅的行列。

3.109.12

क्कचिदाभोगकुटिला प्रस्खलन्ती क्कचित्क्कचित् ।
सा फेनपटसंवीता मत्तेव प्रमदाऽव्रजत् ॥ ३.१०९.१२ ॥

她在宽阔的弯道中蜿蜒,时而踉跄,身披泡沫的衣裳,像一个醉酒的女子那样前行。

3.109.13

क्कचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् ।
क्कचिदाकाशमावर्तैः संक्षिपन्तीव सर्वशः ॥ ३.१०९.१३ ॥

她在某处以水声发出至高的咆哮,在另一处则以漩涡仿佛从四面八方收拢天空。

3.109.14

एवंप्रकारान्सुबहून्कुर्वती गगनाच्युता ।
पृथिवीतलमासाद्य भगीरथमथाब्रवीत् ॥ ३.१०९.१४ ॥

她做了许多这样的事,从天空落下,到达大地表面,然后对婆吉罗陀说道。

3.109.15

दर्शयस्व महाराज मार्ग केन व्रजाम्यहम् ।
त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते ॥ ३.१०९.१५ ॥

大王,请为我指明我应走的道路;我是为你而降临大地的,大地之主啊。

3.109.16

एतच्छ्रुत्वा वचो राजा प्रातिष्टत भगीरथः ।
तत्र तानि शरीराणि सागराणां महात्मनाम् ।
प्लावनार्थं नरश्रेष्ठ पुण्येन सलिलेन च ॥ ३.१०९.१६ ॥

婆吉罗陀王听了这话便出发了。在那里,为了用圣水洗净那些大德的萨加罗之子的尸身,人中之杰啊(恒河流淌了)。

3.109.17

गंङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः ।
कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह ॥ ३.१०९.१७ ॥

承接了恒河之后,受世界礼拜的哈罗(湿婆)与诸神一同前往山中之王——凯拉萨山。

3.109.18

समासाद्य समुद्रं च गङ्गया सहितो नृपः ।
पूरयामास वेगेन समुद्रं वरुणालयम् ॥ ३.१०९.१८ ॥

到达大海后,国王与恒河一同以强大的力量充满了作为伐楼那居所的大海。

3.109.19

दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् ।
पितृणां चोदकं तत्र ददौ पूर्णमनोरथः ॥ ३.१०९.१९ ॥

国王便视恒河为女儿;在那里,他心愿已满,为祖先献上了水供。

3.109.20

एतत्ते सर्वमाख्यातं गङ्ग त्रिपथगा यथा ।
पूरणार्थ समुद्रस्य पृथिवीमवतारिता ॥ ३.१०९.२० ॥

恒河啊,这一切都已讲给你听了:三道而行的恒河如何被引下大地,以充满大海。

3.109.21

कालेयाश्च महाराज त्रिदशैर्विनिपातिताः ।
समुद्रश्च यथा पीतः कारणार्थ महात्मना ॥ ३.१०९.२१ ॥

大王啊,迦罗耶人被诸神击败;而大德者为了某个缘由,曾饮尽大海。

3.109.22

वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो ।
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि ॥ ३.१०९.२२ ॥

主啊,杀害婆罗门的伐塔毗如何被阿伽斯蒂耶毁灭——大王啊,这正是你所问的。