摩诃婆罗多 · 章 3.118
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.118.1
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः ।
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः ॥ ३.११८.१ ॥
亲爱的父亲,因为我的过错,那些卑劣愚蠢的迦尔塔维利耶的后裔在森林里用箭射死了您,如同射死一只鹿。
3.118.2
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे ।
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः ॥ ३.११८.२ ॥
亲爱的父亲,像您这样知晓法、行走于正道、对一切众生无辜的人,这样的死亡怎么会是恰当的呢?
3.118.3
किंनु तैर्न कृतंपापं यैर्बवांस्तपसि स्तितः ।
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः ॥ ३.११८.३ ॥
那些在你修苦行、不参战、年迈之时,用数百支利箭射杀你的人,难道没有犯下罪过吗?
3.118.4
किंनु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च ।
अयुध्यमानं धर्मज्ञमेकं हत्वाऽनपत्रपाः ॥ ३.११८.४ ॥
那些不知羞耻的人杀了一位不参战、通晓法的人之后,在大臣和朋友面前会怎样说呢?
3.118.5
लालप्यैवं सकुस्न्णं बहु नानाविधं नृप ।
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः ॥ ३.११८.५ ॥
国王啊,他如此多方悲叹、哀切不已之后,这位大苦行者为父亲完成了所有的丧葬仪式。
3.118.6
ददाह पितरं चाग्नौ रामः परपुरंजयः ।
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत ॥ ३.११८.६ ॥
征服敌城的罗摩在火中焚烧了父亲,婆罗多啊,他还发誓要杀尽所有刹帝利。
3.118.7
संक्रुद्धोऽतिबलः सङ्ख्ये शस्त्रमादाय वीर्यवान् ।
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः ॥ ३.११८.७ ॥
他怒火中烧,力大无穷而勇武非凡,在战场上持起武器,独自杀死了迦尔达维利耶的诸子,宛如死神本身。
3.118.8
तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ ।
तांश्च सर्वानवामृद्गाद्रामः प्रहरतांवरः ॥ ३.११८.८ ॥
啰,刹帝利中的雄牛!那些跟随他们的刹帝利,罗摩——战士中最优秀者——将他们全部碾碎。
3.118.9
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षित्रियां प्रभुः ।
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् ॥ ३.११८.९ ॥
他二十一次使大地没有刹帝利,这位强大者在三十五眼 Samantapañcaka 造出了五个血湖。
3.118.10
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः ।
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् ॥ ३.११८.१० ॥
在那些血湖中,婆利古家族的承担者祭祀了祖先;他亲眼见到了查奇迦,查奇迦制止了罗摩。
3.118.11
ततो यज्ञेन महता जामदग्न्यः प्रतापवान् ।
तर्पयामास देवेन्द्रमृत्विग्भ्यः प्रददौ महीम् ॥ ३.११८.११ ॥
然后,雄强的耶摩达格尼之子以盛大的祭祀使天神之王因陀罗满足,并将大地交付给祭司们。
3.118.12
वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने ।
दशव्यामायतां कृत्वा नवोत्सेधां विशांपते ॥ ३.११८.१२ ॥
他还将一座金色祭坛献给了宏大的迦叶波,长十个肘尺,高九个肘尺,啊,人主!
3.118.13
तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा ।
व्यभजंस्ते तदा राजन्प्रख्याताः खाण्डवायनाः ॥ ३.११८.१३ ॥
在迦叶的允许下,那些婆罗门便将其分成许多块。大王啊,他们便是著名的坎达瓦延人。
3.118.14
स प्रदाय महीं तस्मै कश्यपाय महात्मने ।
तपः सुमहदास्थाय महाबलपराक्रमः।
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः ॥ ३.११८.१४ ॥
他将那片土地交给了伟大的迦叶,并修持极大的苦行。这位大力勇猛、威力无量者,居住在这座山王摩醯因陀罗山上。
3.118.15
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः ।
पृथिवी चापि विजिता रामेणामिततेजसा ॥ ३.११८.१५ ॥
如此,世间的刹帝利与他结下了仇怨;而大地也被具有无量光辉的罗摩所征服。
3.118.16
ततश्चतुर्दशीं रामः समयेन महामनाः ।
दर्शयामास तान्विप्रान्धर्मराजं ज सानुजम् ॥ ३.११८.१६ ॥
随后在第十四日,依约定之时,心胸宽大的罗摩向那些婆罗门,以及与其弟弟们一同的法王(坚战)展示了他们。
3.118.17
स तमानर्च राजेन्द्र भ्रातृभिः सहितः प्रभुः ।
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः ॥ ३.११८.१७ ॥
啊,王中之王,那位主君与兄弟们一同敬重了他;而王中至尊者也对再生者(婆罗门)行最高的供养。
3.118.18
अर्जित्वा जामदग्न्यं स पूजितस्तेन चोदितः ।
महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः ॥ ३.११८.१८ ॥
他礼拜了遮摩陀耆尼(持斧罗摩),受到他的尊敬与鼓励,便在摩醯因陀罗山上度过那一夜,然后面朝南方出发了。