Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.12.1

भोजाः प्रव्रजिताञ्श्रुत्वा वृष्णयश्चान्धकैः सह ।
पाण्डवान्दुःखसंतप्तान्समाजग्मुर्महावने ॥ ३.१२.१ ॥

bhoja与vṛṣṇi诸族连同andhaka闻知般度五子被放逐、深受悲苦煎熬,便都来到那大森林中相聚。

3.12.2

पाञ्चालस्य च दायादो धृष्टकेतुश्च चेदिपः ।
केकयाश्च महावीर्या भ्रातरो लोकविश्रुताः ॥ ३.१२.२ ॥

般遮罗王的继承人法里什塔克图、钦迪王,以及声名远扬的大勇士凯凯耶兄弟也都来了。

3.12.3

वने द्रष्टुं ययुः पार्थान्क्रोधामर्षसमन्विताः ।
गर्हयन्तो धार्तराष्ट्रान्किं कुर्म इति चाब्रुवन् ॥ ३.१२.३ ॥

他们满怀愤怒与不忿,前往森林看望般度之子,一边谴责持国之子,一边说:“我们该怎么办?”

3.12.4

वासुदेवं पुरस्कृत्य सर्वे ते क्षत्रियर्षभाः ।
परिवार्योपविविशुर्धर्मराजं युधिष्ठिरम्।
अभिवाद्य कुरुश्रेष्ठं विषण्णः केशवोऽब्रवीत् ॥ ३.१२.४ ॥

众刹帝利中的俊杰们将婆苏提婆(黑天)置于前列,围坐在法王坚战周围。向俱卢之最致敬后,忧伤的克舍婆开口说道。

3.12.5

दुर्योधनस्य कर्णस् शकुनेश्च दुरात्मनः ।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम् ॥ ३.१२.५ ॥

难敌、迦尔纳、心怀恶意的沙恭尼,以及第四位的难降,他们的鲜血将被大地饮尽。

3.12.6

एतान्निहत्य समरे ये च तेषां पदानुगाः ।
तांश्च सर्वान्विनिर्जित्य सहितान्स नराधिपान् ॥ ३.१२.६ ॥

在战场上杀死这些人,并彻底征服他们所有的随从与那些国王,(般度之子将统治大地)。

3.12.7

ततः सर्वेऽभिषिञ्चामो धर्मराजं युधिष्ठिरम् ।
निकृत्याऽभिचरन्वध्य एष धर्मः सनातनः ॥ ३.१२.७ ॥

那么我们都为法王坚战灌顶。斩杀侵犯者,这便是永恒的法。

3.12.8

पार्तानामभिषङ्गेण तथा क्रुद्धं जनार्दनम् ।
अर्जुनः शमयामास दिधक्षन्तमिव प्रजाः ॥ ३.१२.८ ॥

阿周那安抚了因对普利塔之子的眷恋而震怒的遮那陀那,仿佛他要焚烧众生一般。

3.12.9

संक्रुद्धं केशवं दृष्ट्वा पूर्वदेवेषु फल्गुनः ।
कीर्तयामास कर्माणि सत्यकीर्तेर्महात्मनः ॥ ३.१२.९ ॥

阿周那见遮那陀那(Keśava)大怒,便在古代诸神之间,述说那位真名远扬的大德之业绩。

3.12.10

पुरुषस्याप्रमेयस्य सत्यस्यामिततेजसः ।
प्रजापतिपतेर्विष्णोर्लोकनाथस्य धीमतः ॥ ३.१२.१० ॥

无量之补鲁沙,真实而光明无限,诸生主之主,毗湿奴,世界之主,智慧者。

3.12.11

दशवर्षसहस्राणि यत्रसायंगृहो मुनिः ।
व्यचरस्त्वं पुरा कृष्ण पर्वते गन्धमादने ॥ ३.१२.११ ॥

克里希那啊,你曾在乾陀摩陀那山上,以无定居、暮至即歇的苦行者身份,历经一万年而游行。

3.12.12

दशवर्षसहस्राणि दशवर्षशतानि च ।
पुष्करेष्ववसः कृष्णं त्वमपो भक्षयन्पुरा ॥ ३.१२.१२ ॥

克里希那啊,你曾在普什卡罗湖畔居住一万又一百年,往昔只饮水而活。

3.12.13

ऊर्ध्वबाहुर्विशालायां बदर्यां मधुसूदन ।
अतिष्ठ एकपादेन वायुभक्षः शतं समाः ॥ ३.१२.१३ ॥

啊,摩度苏陀那!你在毗舍罗、菩提树林中,双臂高举,单腿站立,只以风为食,历经百年。

3.12.14

कृष्णाजिनोत्तरासङ्गः कृशो धमनिसंततः ।
आसीः कृष्ण सरस्वत्यां सत्रेद्वादशवार्षिके ॥ ३.१२.१४ ॥

啊,黑天!你以黑羚羊皮为上衣,身形消瘦,血脉显露,在萨拉斯瓦蒂河畔十二年的祭祀中。

3.12.15

प्रभासमप्यथासाद्य तीर्थं पुण्यजनार्चितम् ।
तत्र कृष्ण महातेजा दिव्यं वर्षसहस्रकम् ॥ ३.१२.१५ ॥

啊,黑天!你又来到受善人尊崇的圣渡口普拉巴沙,在那里,啊大光者,历经千年神圣之久……

3.12.16

आतिष्ठस्त्वमथैकेन पादेन नियमस्थितः ।
लोकप्रवृत्तिहेतोस्त्वमिति व्यासो ममाब्रवीत् ॥ ३.१२.१६ ॥

那时你安住于戒律,单腿站立。毗耶娑对我说,你这样做是为了维持世界的运行。

3.12.17

क्षेत्रज्ञः सर्वभूतानामादिरन्तश्च केशवं ।
निधानं तपसां कृष्ण यज्ञस्त्वं च सनातनः ॥ ३.१२.१७ ॥

啊,克沙瓦!你是一切众生的田野知者,是其始与终。啊,黑天!你是苦行的宝藏,是永恒的祭祀。

3.12.18

योगकर्ता हृषीकेशः सांख्यकर्ता सनातनः ।
शीलस्त्वं सर्वयोगानां करणं नियमस्य च ॥ ३.१२.१८ ॥

你是瑜伽的创造者,诸根之主,数论的永恒创造者。你是一切瑜伽的基础,是戒律的方法。

3.12.19

निहत्य नरकं भौममाहृत्य मणिकुण्डले ।
प्रथमोत्पादितं कृष्ण मेध्यमश्वमवासृजः ॥ ३.१२.१९ ॥

克利须那啊,你杀死了地之子那罗迦,取回了宝石耳环,并释放了最先产生的那匹纯净之马。

3.12.20

कृत्वातत्कर्म लोकानामृषभः सर्वलोकजित् ।
अवधीस्त्वं रणे सर्वान्समेतान्दैत्यदानवान् ॥ ३.१२.२० ॥

你完成了那件功业,你是众世界中的雄牛,征服一切世界者;你在战场上杀死了所有聚集的提提与檀那婆。

3.12.21

ततः सर्वेश्वरत्वं च संप्रदाय शचीपतेः ।
मानुषेषु महाबाहो प्रादुर्भूतोऽसि केशव ॥ ३.१२.२१ ॥

此后,你从舍姬之夫处获得了统御一切的权能,大臂的羯舍婆啊,你显现于人间。

3.12.22

स त्वं नारायणो भूत्वा हरिरासीः परंतप ।
ब्रह्मा सोमश्च सूर्यश्च धर्मो धाता यमोऽनलः ॥ ३.१२.२२ ॥

你,灭敌者啊,化为那罗延而成为诃利;梵天、月神、日神、法、创造者、阎摩和火,也都是你。

3.12.23

वायुर्वैश्रवणो रुद्रः कालः खं पृथिवी दिशः ।
अजश्चराचरगुरुः स्रष्टा त्वं पुरुषोत्तम ॥ ३.१२.२३ ॥

风、毗沙门、楼陀罗、时间、虚空、大地与方位,皆是你。你是不生者,动与不动之师,创造者,人中最上者啊。

3.12.24

तुरायणादिभिर्देव क्रतुभिर्भूरदक्षिणैः ।
अयजो भूरितेजा वै कृष्ण चैत्ररथे वने ॥ ३.१२.२४ ॥

神啊,你以图拉耶那等祭祀,并以丰厚的布施,大光明的克利须那啊,你确实在持车林中举行了祭祀。

3.12.25

शतं शतसहस्राणि सुवर्णस्य जनार्दन ।
एकैकस्मिंस्तदा यज्ञे परिपूर्णानि दत्तवान् ॥ ३.१२.२५ ॥

朱那尔达那啊,那时在那次祭祀中,每一次你都完整地布施了百个十万的黄金。

3.12.26

अदितेरपि पुत्रत्वमेत्य यादवनन्दन ।
त्वं विष्णुरिति विख्यात इन्द्रादवरजो विभुः ॥ ३.१२.२६ ॥

耶达瓦人的欢喜啊,你也成为阿迪提之子,以毗湿奴之名闻名,遍在的主宰,比因陀罗年幼。

3.12.27

शिशुर्भूत्वा दिवं खं च पृथिवीं च परंतप ।
त्रिभिर्विक्रमणैः कृष्ण क्रान्तवानसि तेजसा । ॥ ३.१२.२७ ॥

敌人的烧灭者克里希纳啊,你化为婴孩,以你的光辉三步跨越天、空与地。

3.12.28

संप्राप्य दिवमाकाशमादित्यस्यन्दने स्थितः ।
अत्यरोचश्च भूतात्मन्भास्करं स्वेन तेजसा ॥ ३.१२.२८ ॥

众生之魂啊,你抵达天界与虚空,站在日神的车上,以你自身的光辉胜过了太阳。

3.12.29

प्रादुर्भावसहस्रेषु तेषुतेषु त्वया विभो ।
अधर्मरुचयः कृष्ण निहताः शतशोऽसुराः ॥ ३.१२.२९ ॥

伟大的主啊,克里希纳啊,在那千万次的化现中,无数喜好非法的阿修罗被你一一杀死。

3.12.30

सादिता मौखाः पाशा निशुम्भनरकौ हतौ ।
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥ ३.१२.३० ॥

摩卡群魔的绳索被摧毁,尼舒姆巴与那罗迦被杀,通往普拉格约提沙城的道路重新变得安全。

3.12.31

जारूथ्यामाहुतिः क्राथः शिशुपालो नृपैः सह ।
जरासन्धश्च शैब्यश्च शतधन्वा च निर्जितः ॥ ३.१२.३१ ॥

Jārūthya 的 Āhuti、Krātha、与诸王一起的 Śiśupāla、Jarāsandha、Śaibya 与 Śatadhanvan 皆被击败。

3.12.32

तथा पर्जन्यघोषेण रथेनादित्यवर्चसा ।
अहार्षी रुक्मिणीं भैष्मीं रणे निर्जित्य रुक्मिणे ॥ ३.१२.३२ ॥

同样,你乘坐雷鸣般轰响、光耀如日的战车,在战场上击败了 Rukmin,并掳走了 Bhīṣmaka 之女 Rukmiṇī。

3.12.33

इन्द्रद्युम्नो हतः कोपाद्यवनश्च कशेरुमान् ।
हतः सौभपतिः साल्वस्त्वया सौभं च पातितम् ॥ ३.१२.३३ ॥

Indradyumna 在愤怒中被杀;Yavana 与 Kaśerumān 也被杀。Saubha 之主 Sālva 被你杀死,Saubha 城也被摧毁。

3.12.34

एवमेते युधि हता भूयश्चान्याञ्शृमुष्व ह ।
इरावत्यां हतो भोजः कार्तवीर्यसमो युधि।
गोपतिस्तालकेतुश्च त्वया विनिहतावुभौ ॥ ३.१२.३४ ॥

这些人便这样在战斗中被杀。再听听其他人:在 Irāvatī 河畔,堪比 Kārtavīrya 的 Bhoja 在战斗中被杀;Gopati 与 Tālaketu 二人皆被你杀死。

3.12.35

तां च भोगवतीं पुण्यामृषिकान्तां जनार्दन ।
द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यसि ॥ ३.१२.३५ ॥

Janārdana 啊,你将把那神圣的、为仙人所爱的 Bhogavatī 连同 Dvārakā 一并收归己有,并使之流向大海。

3.12.36

न क्रोधो न च मात्सर्यं नानृतं मधुसूदन ।
त्वयि तिष्ठति दाशार्ह न नृशंस्यं कुतोऽनृजु ॥ ३.१२.३६ ॥

Madhusūdana 啊,你身上既无愤怒,也无嫉妒,亦无虚妄;Dāśārha 啊,邪曲不正的残忍,怎会存在于你之中?

3.12.37

आसीनं चैत्यमध्ये त्वां दीप्यमानं स्वतेजसा ।
आगम्य ऋषयः सर्वेऽयाचन्ताभयमच्युत ॥ ३.१२.३७ ॥

阿周那说:阿克由塔啊,你坐在圣殿之中,以自身光辉闪耀,所有仙人前来向你祈求无畏。

3.12.38

युगान्ते सर्वभूतानि संक्षिप्य मधुसूदन ।
आत्मनैवात्मसात्कृत्वा जगदासीः परंतप ॥ ३.१२.३८ ॥

摩图苏陀那啊,在劫末之时,你收摄一切众生,独自将其纳入自身,使世界入于你内,敌人的焚烧者啊。

3.12.39

युगादौ तव वार्ष्णेय नाभिपद्मादजायत ।
ब्रह्मा चराचरगुरुर्यस्येदं सकलं जगत्।
तं हन्तुमुद्यतौ घोरौ दानवौ मधुकैटभौ ॥ ३.१२.३९ ॥

瓦尔西尼之裔啊,在一个时代之初,从你的肚脐莲花中生出梵天,他是动与不动之物的导师,整个世界都属于他。两个凶猛的恶魔摩图与盖タバ起而欲杀他。

3.12.40

तयोर्व्यतिक्रमं दृष्ट्वा क्रुद्धस्य भवतो हरेः ।
ललाटाज्जातवाञ्शंभुः शूलपाणिस्त्रिलोचनः ॥ ३.१२.४० ॥

你,哈里啊,见到他们的越轨而愤怒,从你的额头生出了手持三叉戟、三目的湿婆。

3.12.41

इत्थं तावपि देवेशौ त्वच्छरीरसमुद्भवौ ।
त्वन्नियोगकरावेताविति मे नारदोऽब्रवीत् ॥ ३.१२.४१ ॥

如此,这两位诸神之主也都生于你的身体,奉行你的命令,那罗陀曾如此对我说。

3.12.42

तथा नारायण पुरा क्रतुभिर्भूरिदक्षिणैः ।
इष्टवांस्त्वं महासत्रं कृष्ण चैत्ररथे वने ॥ ३.१२.४२ ॥

同样,那罗延啊,昔日你在钟爱之林(Caitraratha)中以丰厚的布施举行了大祭祀,黑天啊。

3.12.43

नैवं परे नापरे वा करिष्यन्ति कृतानि वा ।
यानि कर्माणि देव त्वं बाल एव महाबलः ॥ ३.१२.४३ ॥

神啊,你幼年时以大力所作的事业,他人、后来者或先前之人都未曾做过,也不会做。

3.12.44

कृतवान्पुण्डरीकाक्ष बलदेवसहायवान् ।
वैराजभवने चापि ब्रह्मणा न्यवसः सह ॥ ३.१२.४४ ॥

莲花眼者啊,你与大力罗摩相助完成了这些,并且也曾与梵天一同居住在毗罗阇的宫殿中。

3.12.45

एवमुक्त्वा महात्मानमात्मा कृष्णस्य पाण्डवः ।
तूष्णीमासीत्ततः पार्थमित्युवाच जनार्दनः ॥ ३.१२.४५ ॥

对伟大的克里希那如此说后,作为克里希那自身的般度之子沉默而坐;于是遮那陀那对帕尔特说道。

3.12.46

ममैव त्वं तवैवाहं ये मदीयास्तवैव ते ।
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥ ३.१२.४६ ॥

你是我的,我是你的;属于我的,也属于你。恨你的,就是恨我;跟随你的,就是跟随我。

3.12.47

नरस्त्वमसि दुर्धर्ष हरिर्नारायणो ह्यहम् ।
काले लोकमिमं प्राप्तौ नरनारायणावृषी ॥ ३.१२.४७ ॥

你是那罗,无法战胜者啊;我是诃利那罗延。时机到来时,降临此世的便是那罗与那罗延二仙人。

3.12.48

अनन्यः पार्थ मत्तस्त्वं त्वत्तश्चाहं तथैव च ।
नावयोरन्तरं शक्यं वेदितुं भरतर्षभ ॥ ३.१२.४८ ॥

帕尔特啊,你与我无二;我与你也无二。婆罗多雄牛啊,我们二人之间的区别是无法分辨的。

3.12.49

इत्युक्त्वा पुण्डरीकाक्षः पाण्डवं सुप्रियं वचः ।
प्रीयमाणो हृषीकेशस्तूष्णीं तत्र बभूव सः ॥ ३.१२.४९ ॥

莲花眼的希利史迦说完这些对般度之子亲切的话后,心中欢喜,便在那里沉默不语。

3.12.50

एवमुक्ते तु वचने केशेवेन महात्मना ।
तस्मिन्वीरसमावाये संरब्धेष्वथ राजसु ॥ ३.१२.५० ॥

当伟大的克舍瓦说出这些话后,在那群英雄的集会中,在愤怒的诸王之间……

3.12.51

धृष्टद्युम्नमुखैर्वीरैर्भ्रातृभिः परिवारिता ।
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह।
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥ ३.१२.५१ ॥

被以持护光为首的英雄兄弟们环绕,般遮罗公主走近与雅达瓦人同坐的莲花眼者,寻求庇护的黑公主对给予庇护者说道。

3.12.52

वासुदेव हृषीकेश वासवावरजाच्युत ।
देवदेवोसि देवानामिति द्वैपायनोऽब्रवीत् ॥ ३.१२.५२ ॥

哦,婆苏提婆,希利史迦,因陀罗之弟,不灭者!你是诸神之神,黑仙如是说。

3.12.53

पूर्वे प्रजाभिसर्गे त्वामाहुरेकं प्रजापतिम् ।
स्रष्टारं सर्वलोकानामसितो देवलोऽब्रवीत् ॥ ३.१२.५३ ॥

在往昔造化众生之时,人们称你为唯一的生主,一切世界的创造者,阿希多·提婆罗如是说。

3.12.54

विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन ।
यष्टात्वमसि त्वमसि यष्टव्यो जामदग्न्यो यथाऽब्रवीत् ॥ ३.१२.५४ ॥

你是毗湿奴,不可战胜者;你是祭祀,杀摩图者。你是祭主,你是应被供奉者,正如耶摩达格尼所说。

3.12.55

ऋषयस्त्वां क्षमामाहुः सत्यं च परुषोत्तम ।
सत्याद्यज्ञोसि संभूतः कश्यपस्त्वां यथाऽब्रवीत् ॥ ३.१२.५५ ॥

诸仙称你为忍耐与真实,人中之最。祭祀由真实而生;迦叶如此谈论你。

3.12.56

साध्यानामपि देवानां शिवानामीश्वरेश्वर ।
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥ ३.१२.५६ ॥

即使高于诸萨陀耶天神与湿婆众神,诸王之王,世界的护持者,世界之主,正如那罗陀所说。

3.12.57

ब्रह्मशंकरशक्राद्यैर्देववृन्दैः पुनः पुनः ।
क्रीडसे त्वं नरव्याघ्र बालः क्रीडनकैरिव ॥ ३.१२.५७ ॥

你与梵天、湿婆、因陀罗及诸天众一再游戏,人中之虎,如孩童玩弄玩具一般。

3.12.58

द्यौश्च ते शिरसा व्याप्ता पद्भ्यां च पृथिवीप्रभो ।
जठरे खमिमे लोकाः पुरुषोसि सनातनः ॥ ३.१२.५८ ॥

天空被你的头遍满,大地被你的双足遍满,大地之主啊。虚空与这些世界都在你的腹中;你是永恒的原人。

3.12.59

विद्यातपोभितप्तानां तपसा भावितात्मनाम् ।
आत्मदर्शनतृप्तानामृषीणामसि सत्तमः ॥ ३.१२.५९ ॥

在以学问与苦行得到锤炼、以苦行净化自我、以见自我而满足的诸仙之中,你是最优秀的。

3.12.60

राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषर्षभ।
त्वं प्रभुस्त्वं विभुश्च त्वं भूतात्मा त्वं विचेष्टसे ॥ ३.१२.६० ॥

对于那些积有功德、在战场上从不退缩、具备一切法的王仙,你就是归宿,人中之牛。你是主宰,你遍在一切,你是众生之我;是你在行动。

3.12.61

लोकपालाश्च लोकाश्च नक्षत्राणि दिशे दश ।
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥ ३.१२.६१ ॥

诸世界的护持者与诸世界、星宿、十方、天空、月亮与太阳,一切都安立于你之中。

3.12.62

मंर्त्यता चैव भूतानाममरत्वं दिवौकसाम् ।
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥ ३.१२.६२ ॥

啊,大臂者!众生之有死与天人之不死,世间一切事务,皆安立于你之中。

3.12.63

सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन ।
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥ ३.१२.६३ ॥

啊,摩图苏陀那!我出于爱意要向你诉说我的苦痛。你是一切众生的主宰,无论天神还是人类。

3.12.64

कथं नु भार्या पार्थानां तव कृष्ण सखी विभो ।
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥ ३.१२.६४ ॥

啊,克里希那!啊,尊者!像我这样——般度之子的妻子、你的朋友、德里什塔俱那的妹妹——怎能被拖进议会?

3.12.65

स्त्रीधर्मिणी वेपमाना शोणितेन समुक्षिता ।
एकवस्त्रा विकृष्टाऽस्मि दुःखिता कुरुसंसदि ॥ ३.१२.६५ ॥

我遵守女子之德,浑身颤抖,满身是血,只着一件衣裳,被拖入俱卢的议会,痛苦不堪。

3.12.66

राज्ञां मध्ये सभायां तु रजसाऽतिपरिप्लुता ।
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥ ३.१२.६६ ॥

在众王之中、议会之上,我满身尘土,被德里塔拉什特拉的心怀恶念之子看见,他们竟大声嘲笑。

3.12.67

दासीभावेन मां भोक्तुमीष्सुते मधुसूदन ।
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु ॥ ३.१२.६७ ॥

摩图苏陀之杀者啊,般度之子、般遮罗人与婆里希尼人仍然在世,他们却想把我当作奴婢来享用。

3.12.68

नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।
स्नुषा भवामि धर्मेण साऽहं दासीकृता बलात् ॥ ३.१२.६८ ॥

克里希那啊,我依法既是毗湿摩的儿媳,也是持国的儿媳,却被强行变成了奴婢。

3.12.69

गर्हयेपाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् ।
यत्क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥ ३.१२.६९ ॥

愿那些在战场上最优秀、最有大力的般度五子受到责备,他们眼看着他们合法的妻子、享有盛名的我正在受苦。

3.12.70

धिग्बलं भीमसेनस्य धिक्पार्थस् च गाण्डिवम् ।
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥ ३.१२.७० ॥

毗摩森那的力量可耻,阿周那的甘狄拔弓也可耻!遮那陀那啊,这两人竟忍受了我被卑劣之人侮辱。

3.12.71

शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा ।
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥ ३.१२.७१ ॥

这是永恒的法道,善人一向遵行:丈夫即使力量薄弱,也会保护妻子。

3.12.72

भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ ३.१२.७२ ॥

妻子受到保护,子嗣便受到保护;子嗣受到保护,自我(丈夫)便受到保护。

3.12.73

आत्मा हि जायेत तस्यां तस्मज्जाया भवत्युत ।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥ ३.१२.७३ ॥

因为自我由她而生,所以她成为妻子;丈夫也应由妻子守护。那么,从我的腹中……

3.12.74

नन्विमे शरणं प्राप्तं न त्यजन्ति कदाचन ।
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥ ३.१२.७४ ॥

这些人难道从不抛弃前来求庇护的人吗?可是般度子们并未追随我——我已投身于他们的庇护之下。

3.12.75

पञ्चभिः पतिभिर्जाताः कुमासरा मे महौजसः ।
एतेषामप्यवेक्षार्थं त्रातव्याऽस्मि जनार्दन ॥ ३.१२.७५ ॥

我与五位丈夫生下了我那些威力强大的儿子。Janārdana啊,即便为了照看他们,我也应当受到保护。

3.12.76

प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिश्च शतानीकस्तु नाकुलिः ॥ ३.१२.७६ ॥

从坚战生出普利提文底耶,从狼腹生出苏塔索摩,从阿周那生出室鲁多吉提,而无种之子是舍塔尼迦。

3.12.77

कनिष्ठाच्छ्रुतकर्मा च सर्वे सत्यपराक्रमा ।
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥ ३.१२.७७ ॥

从最小的(偕天)生出室鲁多羯摩;他们个个都有真实的勇武。黑天啊,正如普拉迪尤姆那,那些大车武士也是如此。

3.12.78

नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः ।
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥ ३.१२.७८ ॥

他们难道不是弓术上的最强者、战场上敌人无法战胜的人吗?那么,他们为何要容忍那些弱小的持国之子呢?

3.12.79

अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा ।
सभायां परिकृष्टाऽहमेकवस्त्रा रजस्वला ॥ ३.१२.७९ ॥

以非法夺去了王国,所有人都被变成奴隶;而我身着一件衣服、正值经期,被拖入了大殿。

3.12.80

नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् ।
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥ ३.१२.८० ॥

除了阿周那和怖军,或是你,哎呀摩豆苏陀那,别人连甘狄拔神弓的弦都无法拉上。

3.12.81

धिग्बलं भीमसेनस्य धिक्पार्थस्य च पौरुषम् ।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ ३.१२.८१ ॥

怖军的力量可耻,阿周那的勇武也可耻;哎呀克里希那,杜尔之那竟还活着,哪怕只有一刻。

3.12.82

य एतानाक्षिपद्राष्टात्सह मात्राऽविहिंसकान् ।
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥ ३.१२.८२ ॥

此人曾将这些无辜的孩子连同他们的母亲驱逐出国,哎呀摩豆苏陀那,那时他们还是修习学问、持守誓戒的少年。

3.12.83

भोजने भीमसेनस्य पापः प्राक्षिपयद्विषम् ।
कालकूटं नवं तीक्ष्णं संभृतं रोमहर्षणम् ॥ ३.१२.८३ ॥

在怖军的饭食中,那恶人投入了新鲜、猛烈、备好的迦罗驮罗毒,令人毛骨悚然。

3.12.84

तज्जीर्णमविकारेण सहान्नेन जनार्दन ।
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥ ३.१२.८४ ॥

那毒与食物一同消化,毫无损害,哎呀遮那陀那;因为残留在怖军体内,哎呀大臂者,哎呀人中之最。

3.12.85

प्रमाणकोट्यां विश्वस्तं तथा सुप्तं वृकोदरम् ।
बद्ध्वैनं कृष्ण गङ्गायां प्रक्षिप्य पुरमाव्रजत् ॥ ३.१२.८५ ॥

他们将在 Pramāṇakoṭi 河岸信任入睡的狼腹(Bhīma)捆绑,克里希纳啊,投入恒河后返回了城中。

3.12.86

यदा विबुद्धः कौन्तेयस्तदा संछिद्य बन्धनम् ।
उदतिष्ठन्महाबाहुर्भीमसेनो महाबलः ॥ ३.१२.८६ ॥

当昆提之子醒来时,他斩断束缚,大臂大力的怖军(Bhīmasena)站了起来。

3.12.87

आशीविषैः कृष्णसर्पैः सुप्तंचैनमदंशयत् ।
सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ॥ ३.१२.८७ ॥

毒蛇在他睡着时咬遍了他身体的每个部位,然而这位杀敌者却没有死去。

3.12.88

प्रतिबुद्धस्तु कौन्तेयः सर्वान्सर्पानपोथयत् ।
सारथिं चास्य दयितमपहस्तेन जघ्निवान् ॥ ३.१२.८८ ॥

然而醒来后,昆提之子将所有蛇踩碎,又以手击打了他心爱的御者。

3.12.89

पुनः सुप्तानुपाधाक्षीद्बालकान्वारणावते ।
शयानानार्यया सार्धं को नु तत्कर्तुमर्हति ॥ ३.१२.८९ ॥

那么,是谁在婆罗那瓦陀焚烧了与贵妇(母亲)同睡的熟睡孩子们?谁能做出这样的事?

3.12.90

यत्रार्या रुदती भीता पाण्डवानिदमब्रवीत् ।
महद्व्यसनमापन्ना शिखिना परिवारिता ॥ ३.१२.९० ॥

那时,这位贵妇哭泣而惊恐,向般度五子说出了这些话,她陷入大灾难,被火焰包围。

3.12.91

हा हतास्मि कुंतोन्वद्य भवेच्छान्तिरिहानलात् ।
अनाथा विनशिष्यामि बालकैः पुत्रकैः सह ॥ ३.१२.९१ ॥

唉,我要毁灭了!贡蒂啊,在这火中,我还能得到一丝安宁吗?我无依无靠,将与孩子和儿子们一同毁灭。

3.12.92

तत्र भीमो महाबाहुर्वायुवेगपराक्रमः ।
आर्यामाश्वासयामास भ्रातॄंश्चापि वृकोदरः ॥ ३.१२.९२ ॥

在那里,臂力强大、勇猛如风的毗摩开始安慰尊贵的妇人,也安慰诸位兄弟。

3.12.93

वैनतेयो यथा पक्षी गरुत्मान्पततांवरः ।
तथैवाभिपतिष्यामि भयंवो नेह विद्यते ॥ ३.१२.९३ ॥

如同毗娜塔之子金翅鸟——群鸟之王——俯冲而下,我也将俯冲而下;这里没有你们的恐惧。

3.12.94

आर्यामङ्केन वामेन राजानं दक्षिणेन च ।
अंसयोश्च यमौ कृत्वा पृष्ठे बीभत्सुमेव च ॥ ३.१२.९४ ॥

将尊贵的妇人安放在左膝上,以右臂扶着国王,把双生子放在肩上,把毗跋蹉(阿周那)放在背上。

3.12.95

सहसोत्पत्य वेगेन सर्वानादाय वीर्यवान् ।
भ्रातॄनार्यां च बलवान्मोक्षयामास पावकात् ॥ ३.१२.९५ ॥

这位勇猛有力的人突然疾速跃起,把所有人都抱起,将尊贵的妇人和诸位兄弟从火中救出。

3.12.96

ते रात्रौ प्रस्थितां सर्वे सह मात्रा यशस्विनः ।
अभ्यगच्छन्महारण्ये हिडिम्बवनमन्तिकात् ॥ ३.१२.९६ ॥

这些荣耀的人们夜间与母亲一同出发,来到大森林中,靠近希迪姆巴之林。

3.12.97

श्रान्ताः प्रसुप्तास्तत्रेमे मात्रा सह सुदुःखिताः ।
सुप्तांश्चैनानभ्यगच्छद्धिडिम्बा नाम राक्षसी ॥ ३.१२.९७ ॥

他们疲惫地沉沉睡去,与母亲一同在那里,极为悲伤。罗刹女名叫希迪姆巴,走近了这些熟睡的人。

3.12.98

सा दृष्ट्वा पाण्डवांस्तत्र सुप्तान्मात्रा सह क्षितौ ।
हृच्छयेनाभिभूतात्मा भीमसेनमकामयत् ॥ ३.१२.९८ ॥

她看见般度诸子与母亲一同睡在地上,心中被欲望之箭所制,便渴求怖军(毗摩森)。

3.12.99

भीमस्य पादौ कृत्वा तु स्वउत्सङ्गे ततोऽबला ।
पर्यमर्दत संहृष्टा कल्याणी मृदुपाणिना ॥ ३.१२.९९ ॥

随后,这位柔弱的女子将怖军的双脚放在自己膝上,欢喜地用柔软的双手揉按。

3.12.100

तामबुद्ध्यदमेयात्मा बलवान्सत्यविक्रमः ।
पर्यपृच्छत तां भीमः किमिहेच्छस्यनिन्दिते ॥ ३.१२.१०० ॥

力大无穷、精神无量、真正英勇的怖军察觉了她;怖军问道:“无瑕的女子啊,你在这里想要什么?”

3.12.101

एवमुक्ता तु भीमेन राक्षसी कामरूपिणी ।
भीमसेनं महात्मानमाह चैवमनिन्दिता ॥ ३.१२.१०१ ॥

怖军这样问她,能随意变化形貌的罗刹女,这位无瑕的女子,便对大度的毗摩森如此说道。

3.12.102

पलायध्वमितः क्षिप्रं मम भ्रातैष वीर्यवान् ।
आगमिष्यति वो हन्तुं तस्माद्गच्छत माचिरम् ॥ ३.१२.१०२ ॥

快快从这里逃走!我这位有勇力的兄弟会来杀你们;所以快走,不要耽搁。

3.12.103

अथ भीमोऽभ्युवाचैनां साभिमानमिदं वचः ।
नोद्विजेयमहं तस्मान्निहनिष्येऽहमागतम् ॥ ३.१२.१०३ ॥

于是毗摩以骄傲的口吻对她说:"我不应畏惧;因此我将杀死前来的那个人。"

3.12.104

तयोः श्रुत्वा तु संजल्पमागच्छद्राक्षसाधमः ।
भीमरूपो महानादान्विसृजन्भीमदर्शनः ॥ ३.१२.१०४ ॥

罗刹中最卑劣者听到他们的谈话而来,形貌可怖,发出巨大的吼声,外貌骇人。

3.12.105

केन सार्धं कथयसि आनयैनं ममान्तिकम् ।
हिडिम्बे भक्षयिष्यामो न चिरं कर्तुमर्हसि ॥ ३.१२.१०५ ॥

"你在和谁说话?把他带到我面前来,希丁芭。我们要吃掉他;你不该久拖。"

3.12.106

सा कृपासंगृहीतेन हृदयेन मनस्विनी ।
नैनमैच्छत्तदाकर्तुमनुक्रोशादनिन्दिता ॥ ३.१२.१०६ ॥

那位心地高尚、无可指责的女子,因慈悲之心所动,当时不愿对他加害,出于怜悯。

3.12.107

स नादान्विनदन्घोरान्राक्षसः पुरुषादकः ।
अभ्यद्रवत वेगेन भीमसेनं तदा किल ॥ ३.१२.१०७ ॥

那食人的罗刹发出可怖的吼声,随即疾速扑向毗摩森那。

3.12.108

तमभिद्रुत्य संक्रुद्धो वेगेन महता बली ।
अगृह्णात्पाणिना पाणिं भीमसेनस्य राक्षसः ॥ ३.१२.१०८ ॥

这愤怒而强大的罗刹扑向他,以巨大的力量用自己的手抓住了毗摩森那的手。

3.12.109

इन्द्राशनिसमस्पर्शं वज्रसंहननं दृढम् ।
संहत्य भीमसेनाय व्याक्षिपत्सहसा करम् ॥ ३.१२.१०९ ॥

他的触感如因陀罗的霹雳,身躯坚固如金刚,他凝聚全身,突然朝婆罗多之子怖军伸出了手。

3.12.110

गृहीतं पाणिना पाणिं भीमसेनस्य रक्षसा ।
नामृष्यत महाबाहुस्तत्राक्रुद्ध्यद्वृकोदरः ॥ ३.१२.११० ॥

罗刹用自己的手抓住了婆罗多之子怖军的手。大臂的狼腹不能忍受,当即愤怒起来。

3.12.111

तदासीत्तुमुलं युद्धं भीमसेनहिडिम्बयोः ।
सर्वास्त्रविदुषोर्घोरं वृत्रवासवयोरिव ॥ ३.१२.१११ ॥

那时,怖军与希丁巴之间爆发了可怕的混战,二者皆精通一切兵器,犹如弗栗多与婆薮之战。

3.12.112

विक्रीड्य सुचिरं भीमो राक्षसेन सहानघ ।
निजघान महावीर्यस्तं तदा निर्बलं बली ॥ ३.१२.११२ ॥

无罪者啊!怖军与罗刹嬉戏般相斗许久之后,大力勇猛的他便将已经力竭的罗刹杀死。

3.12.113

हत्वा हिडिम्बं भीमोऽथ प्रस्थितो भ्रातृभिः सह ।
हिडिम्बामग्रतः कृत्वा यस्यां जातो घटोत्कटः ॥ ३.१२.११३ ॥

杀死希丁巴之后,怖军便与诸兄弟出发,让希丁芭走在前面——正是她生下了迦托特迦。

3.12.114

ततः संप्राद्रवन्सर्वे सह मात्रा परंतपाः ।
एकचक्रामभिमुखाः संवृता ब्राह्मणव्रजैः ॥ ३.१२.११४ ॥

于是,这些焚敌者与母亲一同奔向一轮城,被婆罗门的人群簇拥着。

3.12.115

प्रस्थाने व्यास एषां च मन्त्री प्रियहिते रतः ।
ततोऽगच्छन्नेकचक्रां पाणअडवाः संशितव्रताः ॥ ३.१२.११५ ॥

出发之时,毗耶娑一心为他们的福祉与利益着想,是他们的谋士。随后,守誓坚定的般度五子前往一轮城。

3.12.116

तत्राप्यासादयामासुर्बकं नाम महाबलम् ।
पुरुषादं प्रतिभयं हिडिम्बेनैव संमितम् ॥ ३.१२.११६ ॥

他们在那里又遇见了名叫巴卡的食人者,极其强大,令人恐惧,与希丁巴相当。

3.12.117

तं चापि विनिहत्योग्रं भीमः प्रहरतां वरः ।
सहितो भ्रातृभिः सर्वैर्द्रुपदस्य पुरं ययौ ॥ ३.१२.११७ ॥

既杀了那个凶猛者,战士中的翘楚毗摩与众兄弟一同前往德鲁波陀的城市。

3.12.118

लब्धाऽहमपि तत्रैव वसता सव्यसाचिना ।
यथा त्वया जिता कृष्णरुक्मिणी भीष्मकात्मजा ॥ ३.१२.११८ ॥

我也在那里,由居于彼处的左手神射手阿周那赢得,正如你赢得了毗湿摩迦之女鲁克米尼,黑天啊。

3.12.119

एवं सुयुद्धे पार्थेन जिताऽहं मधुसूदन ।
स्वयंवरे महत्कर्म कृत्वा न सुकरं परैः ॥ ३.१२.११९ ॥

如此在良好的战斗中,我被普利塔之子赢得,哦摩图苏丹。在自选夫婿的仪式上完成伟大的功绩,对别人而言并不容易。

3.12.120

एवं क्लेशैः सुबहुभिः क्लिश्यमाना सुदुःखिता ।
निवसाम्यार्यया हीना कृष्ण धौम्यपुरःसुरा ॥ ३.१२.१२० ॥

如此饱受诸多磨难,极其悲伤,我失去了那位高贵的女主人,居住在此,黑天啊,由达乌米亚在前引导。

3.12.121

त इमे सिंहविक्रान्ता वीर्येणाभ्यधिकाः परैः ।
निहीनैः परिक्लिश्यन्ति समुपेक्षन्ति मां कथं। ॥ ३.१२.१२१ ॥

这些如狮般勇猛、在力量上胜过敌人的人,却被卑劣之徒折磨;他们怎能如此冷漠地看着我?

3.12.122

एतादृशानि दुःखानि महन्ती दुर्बलीयसाम् ।
दीर्घकालं प्रदीप्ताऽस्मि पापानां पापकर्मणाम् ॥ ३.१२.१२२ ॥

长久以来,我被这些巨大的痛苦灼烧,那是由软弱的、作恶的、行恶业的人所加给的。

3.12.123

कुले महतिजाताऽस्मि दिव्येन विधिना किल ।
पाण्डवानां प्रिया भार्या स्नुषा पाण्डोर्महात्मनः ॥ ३.१२.१२३ ॥

我诞生于一个显赫的家族,确是出于天意;我是般度五子心爱的妻子,是大德般度的儿媳。

3.12.124

केशग्रहमनुप्राप्ता का नु जीवेत मादृशी ।
पञ्चानामिन्द्रकल्पानां प्रेक्षतां मधुसूदन ॥ ३.१२.१२४ ॥

摩图苏陀那啊,像我这样的女子被揪住头发拖拽,而五位如因陀罗般的人在旁观看,这样的女子怎能还能活下去?

3.12.125

इत्युक्त्वा प्रारुदत्कृष्णा मुखं प्रच्छाद्य पाणिना ।
पद्मकोशप्रकाशेन मृदुना मृदुभाषिणी ॥ ३.१२.१२५ ॥

说完这些,黑天女以如莲花苞般明亮柔软的手遮住面庞,痛哭起来,她是言语温柔的人。

3.12.126

स्तनावपतितौ पीनौ सुजातौ शुभलक्षणौ ।
अभ्यवर्षत पाञ्चाली दुःखजैरश्रुबिन्दुभिः ॥ ३.१२.१२६ ॥

她丰满、匀称、带有吉相的胸脯垂落下来,被泪水浸湿;般遮罗公主如雨般洒下因悲痛而生的泪珠。

3.12.127

चक्षुषी परिमार्जन्ती निःश्वसन्ती पुनःपुनः ।
बाष्पपूर्णेन कणअठेन क्रुद्धा वचनमब्रवीत् ॥ ३.१२.१२७ ॥

她擦拭着眼睛,一次又一次地叹息,带着满含泪水的声音,愤怒地说出了这些话。

3.12.128

नैव मे पतयः सन्ति न पुत्रा न च बान्धवाः ।
न भ्रातरो न च पिता नैव त्वं मधुसूदन ॥ ३.१२.१२८ ॥

啊,摩图苏陀那!我没有丈夫,没有儿子,没有亲属,没有兄弟,没有父亲,甚至也没有你。

3.12.129

ये मां विप्रकृतां क्षुद्रैरुपेक्षध्वं विशोकवत् ।
न च मे शाम्यते दुःखं कर्णो यत्प्राहसत्तदा ॥ ३.१२.१२९ ॥

我被卑贱之人侮辱,你们却像不知悲伤一样漠然视之;当时迦尔纳的嘲笑,也让我的痛苦无法平息。

3.12.130

चतुर्भिः कारणैः कृष्ण त्वया रक्ष्याऽस्मि नित्यशः ।
संबन्धाद्गौरवात्सख्यात्प्रभुत्वेनैव केशव ॥ ३.१२.१३० ॥

啊,克利须那!啊,凯沙瓦!你应当因四个理由永远保护我:因为亲属关系、因为尊敬、因为友谊,以及因为你的权威。

3.12.131

अथ तामब्रवीत्कृष्णस्तस्मिन्वीरसमागमे ।
रोदिष्यन्ति स्त्रियो ह्येवं येषां क्रुद्धासि नामिनि ॥ ३.१२.१३१ ॥

于是克利须那在那群英雄的集会中对她说:你所愤怒的那些人的妻子,也将这样哭泣。

3.12.132

बीभत्सुशरसंछन्नाञ्शोणितौघपरिप्लुतान् ।
निहतान्वल्लभान्वीक्ष्य शयानान्वसुधातले ॥ ३.१२.१३२ ॥

看见你所爱之人被杀,被Bībhatsu(阿周那)的箭矢覆盖,浸泡在血流之中,躺卧在地上。

3.12.133

यत्समर्थं पाण्डवनां तत्करिष्यामि मा शुचः ।
सत्यं ते प्रतिजानामि राज्ञां राज्ञी भविष्यसि ॥ ३.१२.१३३ ॥

凡般度五子力所能及之事,我都会去做;不要悲伤。我真诚地向你许诺:你将成为王后中的王后。

3.12.134

पतेद्द्यौर्हिमवाञ्शीर्येत्पृथिवी शकली भवेत् ।
शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥ ३.१२.१३४ ॥

即使天塌下来,喜马拉雅崩裂,大地碎成齑粉,大海干涸;克里希纳啊,我的话也不会落空。

3.12.135

तच्छ्रुत्वा द्रौपदी वाक्यं प्रतिवाक्यमथाच्युतात् ।
साचीकृतमवैक्षत्सा पाञ्चाली मध्यमं पतिम् ॥ ३.१२.१३५ ॥

德罗波蒂听后,在阿周那(克里希那)回应之后,侧目看向她的中间丈夫。

3.12.136

आबभाषे महाराज द्रौपदीमर्जुनस्तदा ।
मा रोदीः शुभताम्राक्षि यदाह मधुसूदनः।
तथा तद्भविता देवि नान्यथा वरवर्णिनि ॥ ३.१२.१३६ ॥

大王啊,那时阿周那对德罗波蒂说:美丽的红眼睛女子啊,不要哭。摩图苏坦那所说的,必会如此实现,绝不会有别的结果,女神啊,容貌美丽的人啊。

3.12.137

अहं द्रोणं हनिष्यामि शिखण्डी तु पितामहम् ।
दुर्योधनं भीमसेनः कर्णं हन्ता धनिजयः ॥ ३.१२.१३७ ॥

我将杀死德罗纳;希坎迪将杀死祖父(毗湿摩);毗摩森那将杀死难敌,达难迦耶(阿周那)将杀死迦尔纳。

3.12.138

रामकृष्णौ व्यपाश्रित्य अजेयाः स्म रणए स्वसः ।
अपि वृत्रहणा युद्धे किं पुनर्धृतराष्ट्रजैः ॥ ३.१२.१३८ ॥

我们依托罗摩与克里希那,在战场上是不可战胜的,姐姐。若连杀死弗栗多的因陀罗在战争中也不能取胜,那么持国之子又能做什么呢?

3.12.139

इत्युक्तेऽभिमुखा वीरा वासुदेवमुपास्थितः ।
तेषां मध्ये महाबाहुः केशवो वाक्यमब्रवीत् ॥ ३.१२.१३९ ॥

如此说罢,面对的英雄们走近了婆苏提婆。在他们中间,大臂的克舍婆说出了这些话。