Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.126

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.126.1

तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः ।
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् ॥ ३.१२६.१ ॥

天神舍耶克罗都见他面目可怖、醉意而来,便看见他如张开大口的死神,欲要吞噬。

3.126.2

भयात्संस्तम्भितभुजः सृक्विणी लेलिहन्मुहुः ।
ततोऽव्रवीद्देवराजश्च्यवनं भयपीडितः ॥ ३.१२६.२ ॥

双臂因恐惧而僵硬,反复舔着嘴角,被恐惧折磨的天王便对遮耶那说道。

3.126.3

सोमार्हावश्विनावेतावद्य प्रभृति भार्गव ।
भविष्यतः सत्यमेतद्वचो विप्र प्रसीद मे ॥ ३.१२६.३ ॥

婆迦婆啊,从今日起,这二位阿湿文将配得上苏摩之祭;此言是真实的。婆罗门啊,请对我施恩。

3.126.4

न ते मिथ्या समारम्भो भवत्वेष परो विधिः ।
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि ॥ ३.१२६.४ ॥

愿你的行动不致徒劳;这便是最高的规则。婆罗门仙人啊,我知道你不会徒劳而为。

3.126.5

सोमपावश्विनावेतौ यथा वाद्य कृतौ त्वया ।
तथैव मामपि ब्रह्मञ्श्रेयसा योक्तुमर्हसि ॥ ३.१२६.५ ॥

正如今日你使这二位阿湿文得以饮用苏摩,婆罗门啊,你也应当使我得享福祉。

3.126.6

भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव ।
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति ॥ ३.१२६.६ ॥

婆迦婆啊,愿你的威力再次显现,愿苏甘雅及其父亲的名声传遍世间。

3.126.7

अतो मयैतद्विहितं तव वीर्यप्रकाशनम् ।
तस्मान्प्रसादं कुरु मे भवत्वेवं यथेच्छसि ॥ ३.१२६.७ ॥

因此我安排了这次展示你力量的机会。请对我施恩吧,愿一切如你所愿。

3.126.8

एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः ।
स मन्युर्व्यगमच्छीघ्रं सुमोच च पुरंदरम् ॥ ३.१२६.८ ॥

因陀罗如此说罢,伟大的哲人遮耶那的怒气很快消散,他便释放了补罗般陀罗。

3.126.9

मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् ।
अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः ॥ ३.१२६.९ ॥

大王啊,那位有力者把迷醉分配给饮酒、女人、掷骰和狩猎——这是早先所造、一再被造的。

3.126.10

तदा मदं विनिक्षिप्य शक्रं संतर्प्य चेन्दुना ।
अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् ॥ ३.१२६.१० ॥

于是,他摒弃了迷醉,借助月亮使因陀罗欢喜,又使诸神与双阿输二神一同举行祭祀,并使那位国王也举行了祭祀。

3.126.11

विख्याप्य वीर्यं लोकेषु सर्वेषु वदतांवरः ।
सुकन्यया सहारण्ये विजहारानुकूलया ॥ ३.१२६.११ ॥

他在一切世界彰显了自己的威力,这位善辩者中的第一人,便与顺从他的苏坎亚一同在森林中嬉戏。

3.126.12

तस्यैतद्द्विजसंघुष्टं सरो राजन्प्रकाशते ।
अत्रत्वं सह सोदर्यैः पितृडन्देवांश्च तर्पय ॥ ३.१२६.१२ ॥

大王啊,这是他的湖泊,在这里闪耀着,回荡着婆罗门的诵声。你在此与兄弟们一同以供水慰问祖先与诸神吧。

3.126.13

एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत ।
सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् ॥ ३.१२६.१३ ॥

大地的守护者啊,见此之后,婆罗多啊,到达沙眼与信度森林,俱卢啊,观看那些河渠吧。

3.126.14

पुष्करेषु महाराज सर्वेषु च जलं स्पृश ।
स्थाणोर्मन्त्राणि च जपन्सिद्धिं प्राप्स्यसि भारत ॥ ३.१२६.१४ ॥

大王啊,在莲池与一切水中触水吧;婆罗多啊,诵持湿婆(斯坦努)的咒语,你将获得成就。

3.126.15

संधिर्द्वयोर्नरश्रेष्ठ त्रेताया द्वापरस्य च ।
अयं हि दृश्यते पार्थ सर्वपापप्रणाशनः।
अत्रोपस्पृश चैव त्वं सर्वपापप्रणाशने ॥ ३.१२६.१५ ॥

人中之最啊,此处可见特雷塔与德瓦帕拉两时代之交;普利塔之子啊,它能灭除一切罪恶。你也应在此漱水,以灭尽一切罪业。

3.126.16

आर्चीकपर्वतश्चैव निवासौ वै मनीषिणाम् ।
सदाफलः सदास्रोतो मरुतां स्तानमुत्तमम् ॥ ३.१२६.१६ ॥

阿尔奇卡山与智者的住所;常结果实,常流不息,是摩录多的殊胜沐浴之地。

3.126.17

चैत्याश्चैते बहुविधास्त्रिदशानां युधिष्ठिर ।
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते।
वैखानसप्रभृतयो वालखिल्यास्तथैव च ॥ ३.१२६.१७ ॥

优帝斯提啊,诸天神的这些圣所种类繁多;此乃月神的圣渡,诸仙人,自韦卡纳萨始,及瓦拉基利亚,皆在此侍奉。

3.126.18

शृङ्गाणि त्रीणि पुण्यानि त्रीणि प्रसर्वणानि च ।
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश ॥ ३.१२६.१८ ॥

有三座圣峰与三处普萨尔瓦纳;绕行它们全部,随意漱水吧。

3.126.19

शान्तनुश्चात्र राजेन्द्र शुनकश्च नराधिपः ।
नरनारायणौ चोभौ तपस्तप्त्वा चिरं नृप।
स्थानं सनातनं प्राप्तावीश्वरध्यानतत्परौ ॥ ३.१२६.१९ ॥

王中之王啊,此处的Śāntanu与人主Śunaka,以及Nara与Nārāyaṇa二人,长久修习苦行,王啊,专心冥想自在天,得到了永恒的居所。

3.126.20

इह नित्याश्रया देवाः पितरश्च महर्षिभिः ।
आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर ॥ ३.१२६.२० ॥

此处恒常居住的诸神与祖灵,与大仙人一同在阿尔西迦山上苦修;玄吉罗,你应当祭祀他们。

3.126.21

इह ते वै चरून्प्राश्नन्नृषयश्च विशांपते ।
यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः ॥ ३.१२६.२१ ॥

王啊,那些仙人曾在此食用祭祀的米饭;此处有水流永不枯竭的阎牟那河,专心苦行的黑天也曾住在此处。

3.126.22

यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन ।
सर्वे चात्र गमिष्यामस्त्वयैव सह पाण्डव ॥ ३.१२६.२२ ॥

双生子、怖军与黑公主(德罗波蒂)也同去;克敌者啊,般度之子,我们都将与你一同来到此处。

3.126.23

एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजेश्वर ।
यत्रधाता विधाता च वपरुणश्चोर्ध्वमागताः ॥ ३.१२६.२३ ॥

人主啊,此乃因陀罗的圣泉,持者、定者与水神伐楼那也曾从这里上升而来。

3.126.24

इह तेऽप्यवसन्राजञ्शान्ताः परमधर्मिणः ।
मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः ॥ ३.१२६.२४ ॥

王啊,此处也曾居住着那些平和且最为正法的人;这座吉祥的殊胜山,属于怀有友善之心、正直之智的人。

3.126.25

एषा सा यमुना राजन्महर्षिगणसेविता ।
नानायज्ञचिता राजन्पुण्या पापभयापहा ॥ ३.१२६.२५ ॥

大王啊,这就是那条被众多大仙所眷顾的閻牟那河。大王啊,它被种种祭祀所装饰,神圣,能消除罪恶的恐惧。

3.126.26

अत्रराजा महेष्वासो मांधाताऽयजत स्वयम् ।
साहदेविश्च कौन्तेय सोमको ददतांवरः ॥ ३.१२६.२६ ॥

此处大弓手国王曼陀多亲自举行了祭祀。贡蒂之子啊,萨诃提婆与苏摩迦,是施舍者中的最优者。