摩诃婆罗多 · 章 3.127
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.127.1
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः ।
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः ॥ ३.१२७.१ ॥
王中之虎、名闻三界的摩陀多,大婆罗门啊,他是如何从最优秀的国王憂婆那室伐所生的?
3.127.2
कथं चैनां परां ख्यातिं प्राप्तवानमितद्युतिः ।
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः ॥ ३.१२७.२ ॥
光明无量的他如何获得这至高的名声?三界皆服从他,正如伟大的毗湿奴一般。
3.127.3
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः ।
सत्यकीर्तेर्हि मान्धातुः कथ्यमानं त्वयाऽनघ ॥ ३.१२७.३ ॥
无罪者啊,我愿听你讲述这位智者、真名远扬的摩陀多的事迹。
3.127.4
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युते ।
जन्म चाप्रतिवीर्यस् कुशलो ह्यसि भाषितुम् ॥ ३.१२७.४ ॥
与因陀罗光辉相等的人啊,你擅长讲述摩陀多之名的由来与他的出生,无双勇士啊。
3.127.5
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः ।
यथा मान्धातृशब्दो वै लोकेषु परिगीयते ॥ ३.१२७.५ ॥
大王啊,请专心听那位大心王的故事,正因为他,摩陀多之名在世间被传颂。
3.127.6
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः ।
सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः ॥ ३.१२७.६ ॥
出生于甘蔗王族的憂婆那室伐,大地之主,以丰厚的酬金举行祭祀。
3.127.7
अश्वमेधसहस्रं च प्राप्य धर्मभृतांवरः ।
अन्यैश्च क्रतुभिर्मुख्यैरयजत्स्वाप्तदक्षिणैः ॥ ३.१२७.७ ॥
他完成了一千次马祭,作为持法者中最优秀者,又以其他主要祭祀献祭,并给予丰厚的酬金。
3.127.8
अनपत्यस्तु राजर्षिः स महात्मा महाव्रतः ।
मन्त्रिष्वाधाय तद्राज्यं वनित्यो बभूव ह।
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मवान् ॥ ३.१२७.८ ॥
然而,那位无子的王仙,大心且持大愿,将王国托付给大臣,成为了林居者。他依照经典规定的仪轨,克制自身,使自己归于正道。
3.127.9
स कदाचिन्नृपो राजन्नुपवासेन दुःखितः ।
पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः ॥ ३.१२७.९ ॥
有一次,大王啊,那位君王因禁食而痛苦,心因干渴而枯竭,进入了婆里古的净修林。
3.127.10
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः ।
इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् ॥ ३.१२७.१० ॥
就在那一夜,大王之主啊,大心的婆里古之子大仙,为了求子,为苏陀优摩那(之子)举行了献祭仪式。
3.127.11
संभृतो मन्त्रपूतेन वारिणा कलशो महान् ।
तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः ॥ ३.१२७.११ ॥
那里放着一个盛满经咒净化之水的大瓶,大王之主啊,事先已经专心安置好了。
3.127.12
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् ।
तद्वारि विहितं राजन्यस्मिन्नासीत्सुसंस्कृतम्।
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः ॥ ३.१२७.१२ ॥
喝下它,他的妻子就会生下一个与因陀罗相当的儿子。大王啊,那按规定准备好的水已在其中妥善备好。把那个瓶子放在祭坛上后,那些大仙便睡着了。
3.127.13
रात्रिजागरणाच्छ्रान्तान्सौद्युम्निः समतीत्य तान् ।
शुष्ककण्ठः पिपासार्तः पानीयार्थी भृशं नृपः।
तं प्रविश्याश्रमं शान्तः पानीयं सोऽभ्ययाचत ॥ ३.१२७.१३ ॥
царь Сауdьюмни,喉咙干渴,被渴所苦,极度渴望水,越过那些因彻夜未眠而疲惫的仙人,走进寂静的净修林,请求给水。
3.127.14
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा ।
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशतः ॥ ३.१२७.१४ ॥
那位疲惫的国王以干渴的喉咙呼喊,那时却无人听见,就像人们听不见鸟的鸣叫一样。
3.127.15
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः ।
अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् ॥ ३.१२७.१५ ॥
于是,国王看见那盛满水的净瓶,便急速向它奔去,喝了水,然后放下了它。
3.127.16
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः ।
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा ॥ ३.१२७.१६ ॥
饮下冷水之后,那位受渴所苦的智慧国王得到了平复,此时心中十分欢悦。
3.127.17
ततस्ते प्रत्यबुध्यन्त मुनयः सतपोधनाः ।
निस्तोयं तं च कलशं ददृशुः सर्व एव ते ॥ ३.१२७.१७ ॥
于是那些富有苦行的仙人醒来,他们都看见那只已无水的净瓶。
3.127.18
कस्य कर्मेदमिति ते पर्यपृच्छन्समागताः ।
युवनाश्वो ममेत्येवं सत्यं समभिपद्यत ॥ ३.१२७.१८ ॥
聚集的仙人们问道:“这是谁的所为?”瞿婆那湿伐说:“是我的。”于是真相得到了承认。
3.127.19
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा ।
सुतार्थं स्थापिता ह्यापस्तपसा चैव संभृताः ॥ ३.१२७.१९ ॥
那时,尊贵的婆利古后裔对他说:“这是不合适的。这些水是为求子而备下的,是靠苦行积聚起来的。”
3.127.20
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् ।
पुत्रार्थं तव राजर्षे महाबलपराक्रम ॥ ३.१२७.२० ॥
是我在此修行苛烈的苦行,为你——王中仙人,大力勇猛的人——安立了梵力,为的是求得一子。
3.127.21
महाबलो महावीर्यस्तपोबलसमन्वितः ।
यः शक्रमपि वीर्येण गमयेद्यमसादनम् ॥ ३.१२७.२१ ॥
他将力量强大、勇猛无比,具有苦行之力;凭其勇武,甚至能把帝释天(因陀罗)送往阎摩之所。
3.127.22
अनेन विधिना राजन्मयैतदुपपादितम् ।
अब्भक्षणं त्वया राजन्न युक्तं कृतमद्य वै ॥ ३.१२७.२२ ॥
大王,我依此仪轨而安排了此事。然而大王,你今日饮水,所做之事并不妥当。
3.127.23
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽनय्था ।
नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि ॥ ३.१२७.२३ ॥
然而如今我们无法另行处置,不能有别的结果。这必定是天命所造,才使你做成了这样。
3.127.24
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः ।
आपस्त्वया महाराज मत्तपोवीर्यसंभृताः ॥ ३.१२७.२४ ॥
大王,你在口渴时所饮的那些水,是依仪轨与咒语预备的,凭我苦行之力所积聚的。
3.127.25
ताभ्यस्त्वमात्मना पुत्रमीदृशं जनयिष्यसि ।
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् ॥ ३.१२७.२५ ॥
你将亲自从这些水中生下这样的儿子;我们将在那里为你举行最奇妙的祭祀。
3.127.26
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् ।
न च प्राणैर्महाराज वियोगस्ते भविष्यति ॥ ३.१२७.२६ ॥
勇士啊,你将生下一个与帝释天相等的儿子;大王啊,你的生命不会与你分离。
3.127.27
मा खिदस्त्वं हि राजेनद्र दैवं हि बलवत्तरम् ।
गर्भधारणजं वाऽपि न खेदं समवाप्स्यसि ॥ ३.१२७.२७ ॥
王中之王啊,不要悲伤,因为天命确实更为强大;你也不会因怀胎而遭受任何痛苦。
3.127.28
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः ।
वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इव स्थितः ॥ ३.१२७.२८ ॥
百年圆满之后,那位大德之王的左肋被剖开,儿子如太阳般站立而出。
3.127.29
निश्चक्राम महातेजा न च तं मृत्युराविशत् ।
युवनाश्वं नरपतिं तदद्भुतमिवाभवत् ॥ ३.१२७.२९ ॥
那位光辉灿烂者走出,死神没有触碰他;对于国王尤凡那什瓦而言,这竟成了奇事。
3.127.30
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् ।
ततो देवा महेन्द्रं तमपृच्छन्धास्यतीति किम् ॥ ३.१२७.३० ॥
于是大光明的因陀罗为见他而来。随后诸神问大因陀罗:“他将饮用什么?”
3.127.31
प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसंदधे ।
मामयं धास्यतीत्येवं भाषिते चैव वज्रिणा।
मांधातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः ॥ ३.१२७.३१ ॥
于是因陀罗把食指放入他的口中。持雷者说:“此子将饮我。”天界众生与因陀罗一起为他取名为摩檀多。
3.127.32
प्रदेशिनीं शक्रदत्तामाखाद्य स शिशुस्तदा ।
अवर्धत महातेजाः किष्कून्राजंस्त्र्योदश ॥ ३.१२७.३२ ॥
那位大光明的婴儿吮吸了帝释所给的食指,啊大王,长到了十三个肘尺。
3.127.33
वेदास्तं सधनुर्वेदा दिव्यान्स्त्राणि चेश्वरम् ।
उपतस्थुर्महाराजं ध्यातमात्राणि सर्वशः ॥ ३.१२७.३३ ॥
吠陀与弓箭之学,以及神圣的武器,只要一想,全部都来到那位大王、主宰面前侍立。
3.127.34
धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये ।
अभेद्यं कवचं चैव सद्यस्तमुपशिश्रियुः ॥ ३.१२७.३४ ॥
名为阿阇伽婆的弓、从角中生出的箭,以及不可穿透的铠甲,都立即归附于他。
3.127.35
सोऽभिषिक्तो भगवता स्वयं शक्रेण भारत ।
धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः ॥ ३.१२७.३५ ॥
他由尊贵的帝释亲自灌顶,啊婆罗多,他以法统治并征服了三界,如毗湿奴以勇武征服一般。
3.127.36
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः ।
रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे ॥ ३.१२७.३६ ॥
那位大智者的无阻之轮开始转动,珍宝也自行来到这位王仙面前。
3.127.37
तस्येयं वसुसंपूर्णा वसुधा वसुधाधिप ।
तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः ॥ ३.१२७.३७ ॥
地上之主啊,这片充满财富的大地曾属于他。他举行了多种祭祀,并向祭司给予丰厚的酬金。
3.127.38
चितचैत्यो महातेजा धर्मान्प्राप्य च पुष्कलान् ।
शक्रस्यार्धासनं राजँल्लब्धवानमितद्युतिः ॥ ३.१२७.३८ ॥
大光明的赤天祭得到丰厚的功德,国王啊,他获得了因陀罗的半座;他光辉无量。
3.127.39
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता ।
विजिता शासनादेव सरत्नाकरपत्तना ॥ ३.१२७.३९ ॥
这位始终恪守正法的智者,仅凭一道命令,在一日之内便征服了包括宝矿与港口在内的大地。
3.127.40
तस्य चैत्यैर्महाराज क्रतूनां दक्षिणावताम् ।
चतुरन्ता मही व्याप्ता नासीत्किंचिदनावृतम् ॥ ३.१२७.४० ॥
大王啊,由于他的祭柱和丰厚布施的祭祀,直至四方边界的大地被覆盖,没有任何地方裸露在外。
3.127.41
तेन पद्मसहस्राणि गवां दश महात्मना ।
ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते ॥ ३.१२७.४१ ॥
据说,这位大德之人,大王啊,曾向婆罗门布施了一万个莲花(金币单位)和牛群。
3.127.42
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना ।
वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः ॥ ३.१२७.४२ ॥
在十二年的旱灾中,这位大德之人为了庄稼的生长降下了雨水,而持金刚杵的因陀罗在旁观看。
3.127.43
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् ।
शर्जन्निव महामेघः प्रमथ्य निहतः शरैः ॥ ३.१२७.४३ ॥
他将出生于月族、乾陀罗的大君主,如咆哮的大云般碾碎,并以箭射杀。
3.127.44
प्रजाश्चतुर्विधास्तेन त्राता राजन्कृतात्मना ।
तेनात्मतपसा लोकास्तापिताश्चातितेजसा ॥ ३.१२७.४४ ॥
大王,那位心已自持者护佑了四种臣民;他的自苦行与过度的光辉使诸世界炽热。
3.127.45
तस्यैतद्देवयजनं स्थानमादित्यवर्चसः ।
यस्य पुण्यतमे देशे कुरुक्षेत्रेस्य मध्यतः ॥ ३.१२७.४५ ॥
这是那位太阳般光辉者的神祭之地,位于俱卢之野的中央,在最为神圣的地区。
3.127.46
तथा त्वमपि राजेन्द्र मान्धातेव महीपतिः ।
धर्मं कृत्वा महीं रक्ष स्वर्गलोकं गमिष्यसि ॥ ३.१२७.४६ ॥
大王中的王啊,你也如摩坦陀那般是大地之主;行法保护大地,你将去往天界。
3.127.47
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् ।
जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि ॥ ३.१२७.४७ ॥
大地的守护者啊,你所问的摩坦陀那的伟大事迹与其最殊胜的诞生,这一切都已向你讲述。
3.127.48
एवमुक्तः स कौन्तेयो लोमशेन महर्षिणा ।
पप्रच्छानन्तरं भूयः सोमकं प्रति भारत ॥ ३.१२७.४८ ॥
大仙洛摩舍如此说后,贡蒂之子,婆罗多啊,接着又问起了关于索摩迦的事。