Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 3.131

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.131.1

अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः ।
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् ॥ ३.१३१.१ ॥

罗摩沙说:大王,就在此处,生主亲自曾举行祭祀。往昔他举行了名为“萨特拉”的、持续千年的祭祀。

3.131.2

अम्बरीषश्च नाभाग इष्टवान्यमुनामनु ।
यत्रेष्ट्वा दशपद्मानि सदस्येभ्योऽभिसृष्टवान् ॥ ३.१३१.२ ॥

那婆伽之子安巴里沙在阎牟那河畔举行祭祀;在那里祭祀完毕后,他把十个“波德马”的财富布施给祭官们。

3.131.3

यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः ।
देशश्च नाहुषस्यायं य़ज्वनः पुण्यकर्मणः ॥ ३.१३१.३ ॥

他借助祭祀与苦行,获得了至高的成就。此地属于那婆沙之子、行祭且行善功的(耶耶提)。

3.131.4

सार्वभौमस्य कौन्तेय ययातेरमितौजसः ।
स्पर्धमानस्य शक्रेण तस्येदं यज्ञवास्त्विह ॥ ३.१३१.४ ॥

贡蒂之子啊,这是无量威力的世界君主耶耶提的祭场,他曾与因陀罗竞争。

3.131.5

पश्य नानाविधाकारैरग्निभिर्निचितां महीम् ।
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः ॥ ३.१३१.५ ॥

看那大地,被耶耶提的祭祀之事所覆盖,种种形状的火遍布其上,仿佛正在沉没。

3.131.6

एषा शम्येकपत्रा सा शकटं चैतदुत्तमम् ।
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् ॥ ३.१३१.६ ॥

这是独叶的沙密树,那是上好的车。看这些罗摩之湖,看那那罗衍那的净修林。

3.131.7

एतच्चर्चीकपुत्रस्य योगैर्विचरतो महीम् ।
प्रसर्पणं महीपाल रौप्यायाममितौजसः ॥ ३.१३१.७ ॥

护持大地的王啊,这是恰尔吉迦之子以瑜伽之力行走大地的路,那无量威力者的银色延伸之道。

3.131.8

अत्रानुवंशं पठतः शृणु मे कुरुनन्दन ।
उलूखलैराभरणैः पिशची यदभाषत ॥ ३.१३१.८ ॥

此处我依次诵说世系,库卢之喜悦者啊,请听——关于杵臼与饰物,毕舍遮女所说的话。

3.131.9

युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले ।
तद्वद्भूतलये स्नात्वा सपुत्रा वस्तुमर्हसि ॥ ३.१३१.९ ॥

在瑜简陀罗食凝乳,居于阿鸠多之地,同样在菩多罗耶沐浴之后,你应当与诸子一同居住于彼处。

3.131.10

एकरात्रमुवित्वेह द्वितीयं यदि वत्स्यसि ।
एतद्वै ते गदेवावृत्तं रात्रौ वृत्तमितोऽन्यथा ॥ ३.१३१.१० ॥

若你在此住一夜,又住第二夜,那么这正是为你所说的;否则,从此地起夜间的行止将有所不同。

3.131.11

अद्य चात्र निवत्स्यामः क्षपां भरतसत्तम ।
द्वारमेतत्तु कौन्तेय कुरुक्षेत्रस्य भारत ॥ ३.१३१.११ ॥

今夜我们就在此过夜,婆罗多中的至尊啊。贡蒂之子啊,婆罗多啊,此乃俱卢之野的门户。

3.131.12

अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् ।
ययातिर्बहुरत्नौर्घर्यत्रेन्द्रो मुदमभ्यगात् ॥ ३.१३१.१२ ॥

就在此地,那那呼沙之子耶耶底王啊,以祭祀供奉神明;此地降下众多宝石,因陀罗因此欢喜。

3.131.13

एतत्प्लक्षावतरणं यमुनातीर्थमुत्तमम् ।
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः ॥ ३.१३१.१३ ॥

此处是槭树(plakṣa)降落之地,乃亚穆纳河的至上圣渡。智者称之为天界之门。

3.131.14

अत्रसारस्वतैर्यज्ञैरीजानाः परमर्षयः ।
यूपोलूखलिकास्तात गच्छन्त्यवभृथप्लवम् ॥ ३.१३१.१४ ॥

在此,以萨罗私伐底祭仪行祭的至上仙人,亲爱的,携带祭柱与杵臼,前往祭毕沐浴。

3.131.15

अत्रवै भरतो राजा राजन्क्रतुभिरिष्टवान् ।
हयमेधेन यज्ञेन मेध्यमश्वमवासृजत् ॥ ३.१३१.१५ ॥

就在此处,婆罗多王,哦国王,以诸祭仪行祭。在马祭中,他放出了神圣的马。

3.131.16

असकृत्कृष्णसारङ्गं धर्मेणाप्य च मेदिनीम् ।
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम्।
प्राप चैवर्षिमुख्येन संवर्तेनाभिपालितः ॥ ३.१३१.१६ ॥

马鲁塔数次获得黑羚与以正法获得的大地,就在此处,人中虎啊,他得到了至上的祭会,受到仙人之首桑伐多的护佑。

3.131.17

अत्रोपस्पृश्य राजेन्द्र सर्वाल्लोँकान्प्रपश्यति ।
पूयते दुष्कृताच्चैव अत्रापि समुपस्पृश ॥ ३.१३१.१७ ॥

在此漱口净身,王中之王啊,人可观见一切世界,并从恶业中得以清净。此处亦应充分漱口净身。

3.131.18

तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः ।
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् ॥ ३.१३१.१८ ॥

在那里,他与兄弟们沐浴之后,受到大仙人的赞颂,般度之最对罗摩舍说了这些话。

3.131.19

सर्वाँल्लोकान्प्रपश्यामि तपसा सत्यविक्रम ।
इहस्तः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् ॥ ३.१३१.१९ ॥

啊,真正的勇士,我以苦行之力看见一切世界。我站在此处,看见般度之子中最优秀的白马者(阿周那)。

3.131.20

एवमेतन्महाबाहो पश्यन्ति परमर्षयः ।
इह स्नात्वा तपोयुक्तांस्त्रील्लोँकान्सचराचरान् ॥ ३.१३१.२० ॥

确实如此,啊,大臂者。至高的仙人在此沐浴,具足苦行,能看见包括动与不动众生在内的三界。

3.131.21

सरस्वतीमिमां पुण्यां पुण्यैकशरणावृताम् ।
यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यसि ॥ ३.१३१.२१ ॥

这条圣洁的萨拉斯瓦蒂河,只被圣地所环绕。啊,人中最优秀者,在此沐浴之后,你将洗去罪孽。

3.131.22

इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः ।
ऋषयश्चैव कौन्तेय तथा राजर्षयोपि च ॥ ३.१३१.२२ ॥

在这里,诸神仙人以萨罗斯瓦塔仪式举行过祭祀,啊,贡蒂之子。仙人与王仙也同样如此。

3.131.23

वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना ।
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः ॥ ३.१३१.२३ ॥

这是生主(Prajāpati)的祭坛,四周延伸五由旬。这是热衷祭祀的大德俱卢的田地。