摩诃婆罗多 · 章 3.132
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.132.1
इह मर्त्यास्तनूस्त्यक्त्वा स्वर्गं गच्छन्ति भारत ।
मर्तुकामा नरा राजन्निहायान्ति सहस्रशः ॥ ३.१३२.१ ॥
婆罗多之子啊,凡人在此舍弃身体,升往天界。大王啊,渴望死亡的人成千上万地来到这里。
3.132.2
एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा ।
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः ॥ ३.१३२.२ ॥
往昔行祭的达刹如此赐予祝福:在此死去的人,必定是赢得天界者。
3.132.3
एषा सरस्वती रम्या दिव्या चौघवती नदी ।
एतद्विनशनं नाम सरस्वत्या विशांपते ॥ ३.१३२.३ ॥
这条萨拉斯瓦蒂河美丽、神圣,水流丰沛。众生之主啊,这是萨拉斯瓦蒂的圣渡口,名为“毗那舍那”。
3.132.4
द्वारं निषादराष्ट्रस्य येषां दोषात्सरस्वती ।
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः ॥ ३.१३२.४ ॥
此乃尼沙陀国之门;因其过错,萨拉斯瓦蒂没入大地。英雄啊,尼沙陀人不认识我。
3.132.5
एष वै चमसोद्भेदो यत्र दृश्या सरस्वती ।
यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः ॥ ३.१३२.५ ॥
这里便是“羹碗裂”之地,萨拉斯瓦蒂在此显现;神圣、清净、趋向大海的人们曾来到她的身旁。
3.132.6
एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिंदम ।
लोपामुद्रा समागम्य भर्तारमवृणीत वै ॥ ३.१३२.६ ॥
这是信度河的大圣渡口,降敌者啊,洛帕穆德拉在此遇见阿伽斯提亚,并选他为夫。
3.132.7
एतत्प्रकाशते तीर्थं प्रभासं भास्करद्युते ।
इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् ॥ ३.१३२.७ ॥
此普拉巴萨圣渡口光辉如日,为因陀罗所钟爱,神圣、清净,能消除罪孽。
3.132.8
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् ।
एषां रम्या विपाशा च नदी परमपावनी ॥ ३.१३२.८ ॥
可见这名为毗湿奴足迹的殊胜圣渡口。其中还有可爱的毗婆沙河,极其清净。
3.132.9
अत्र वै पुत्रशोकेन वसिष्ठो भगवानृषिः ।
बद्ध्वाऽत्मानं निपतितो विपाशः पुनरुत्थितः ॥ ३.१३२.९ ॥
就在这里,因失子之痛,尊贵的仙人婆私吒将自己捆绑,跃入毗婆沙河,但他又站了起来。
3.132.10
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिंदम ।
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह ॥ ३.१३२.१० ॥
此克什米尔之地全然神圣,征服敌人者啊,为大仙人所居。请与兄弟们一同观看。
3.132.11
यत्रौत्तराणां सर्वेषामृषीणां नाहुषस्य च ।
अग्नेश्चैवात्र संवादः काश्यपश्य च भारत ॥ ३.१३२.११ ॥
此处曾有北方诸仙、那呼沙之子、阿耆尼以及迦叶波的对话,婆罗多啊。
3.132.12
एतद्द्वारं महाराज मानसस्य प्रकाशते ।
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् ॥ ३.१३२.१२ ॥
大王啊,此处是曼那萨之门,显耀非凡。山中这片区域是光荣的罗摩所造。
3.132.13
एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः ।
नात्यवर्तत यद्द्वारं विदेहादुत्तरं च यः ॥ ३.१३२.१३ ॥
此为著名的婆提迦林,具真正的威力;它不越过毗提诃以北的那道门。
3.132.14
इदमाश्चर्यमपरं देशेऽस्मिन्पुरुषर्षभ ।
क्षीणे युगे तु कौन्तेय शर्वस्य सह पार्षदैः।
सहोमया च भवति दर्शनं कामरूपिणः ॥ ३.१३२.१४ ॥
此处另有一奇事,人中之雄:当时代衰落时,俱生之子啊,湿婆与其随从及乌玛一同显现,他能随意变化形象。
3.132.15
अस्मिन्सरसि सत्रैर्वै चैत्रे मासि पिनाकिनम् ।
यजन्ते याजकाः सम्यक् परिवारं शुभार्थिनः ॥ ३.१३२.१५ ॥
在此湖中,于吠舍佉月,求福的祭司以祭祀如法供奉持毗那迦弓者及其眷属。
3.132.16
अत्रोपस्पृश्य सरसि श्रद्दधानो जितेन्द्रियः ।
क्षीणपापः शुभाँल्लोकान्प्राप्नुते नात्र संशयः ॥ ३.१३२.१६ ॥
于此湖中行漱口净身之礼,怀有信心、制伏诸根、罪业消尽的人,便得到吉祥的诸界;此事无疑。
3.132.17
एष उज्जानको नाम पावकिर्यत्र शान्तवान् ।
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः ॥ ३.१३२.१७ ॥
此处名为乌降伽,火之子在此平息;尊贵的仙人婆私吒与阿伦陀提同住于此。
3.132.18
ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् ।
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना ॥ ३.१३२.१८ ॥
此为憍舍湖,那里有生于吉祥草的莲花;这里也是娑婆提的修行处,在那里无怒的罗克弥尼得以平息。
3.132.19
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया ।
तं द्रक्ष्यसि महाराज भृगुतुन्दं महागिरिम् ॥ ३.१३२.१९ ॥
般度之子啊,你已听过入定圣贤的简要叙述。大王啊,你将看到那座大山——婆利古头山。
3.132.20
वितस्तां पश्य राजेन्द्र सर्वपापप्रमोचनीम् ।
महर्षिभिश्चाध्युषितां शीततोयां सुनिर्मलाम् ॥ ३.१३२.२० ॥
诸王之主啊,请看维塔斯塔河,它能解除一切罪孽,为大仙所居,水冷而极其清净。
3.132.21
जलां चोपजलां चैव यमुनामभितो नदीम् ।
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत ॥ ३.१३२.२१ ॥
也请看 Jalā 与 Upajalā,以及两岸的 Yamunā 河。在那里,乌until 那罗(Uśīnara)行祭后超越了婆薮(因陀罗)。
3.132.22
तां देवसमितिं तस्य वासवश्च विशांपते ।
अभ्यागच्छन्नृपवरं ज्ञातुमग्निश्च भारत ॥ ३.१३२.२२ ॥
人主啊,与那神众会众一起,婆薮(因陀罗)和火神也前来拜访那位最优秀的国王,以考验他,婆罗多啊。
3.132.23
जिज्ञासमानौ वरदौ महात्मानमुशीनरम् ।
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः ॥ ३.१३२.२३ ॥
两位施赐恩惠者——因陀罗与火神——想要了解那位大心的乌until 那罗,便在祭祀中化作鹰与鸽子而来。
3.132.24
उरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् ।
शरणार्थी तदा राजन्निलिल्ये भयपीडितः ॥ ३.१३२.२४ ॥
大王啊,那鸽子因畏惧鹰而受苦,寻求庇护,便来到国王的膝上躲藏起来。